Skip to main content

तत्त्वार्थसूत्रम्

 तत्त्वार्थसूत्रम्

प्रथमअध्याय

सम्यग्दर्शनज्ञानचारित्राणिमोक्षमार्गः॥१॥तत्त्वार्थश्रद्धानंसम्यग्दर्शनम्॥२॥तन्निसर्गादधिगमाद्वा॥३॥जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षस्तत्त्वम्॥४॥नामस्थापनाद्रव्यभावतस्तन्न्यासः॥५॥प्रमाणनयैरधिगमः॥६॥निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः॥७॥सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च॥८॥मतिश्रुतावधिमनःपर्ययकेवलानिज्ञानम्॥९॥तत्प्रमाणे॥१०॥आद्येपरिक्षम्॥११॥प्रत्यक्षमन्यत्॥१२॥मतिःस्मृतिःसंज्ञाचिन्ताऽभिनिबोधइत्यनर्थान्तरम्॥१३॥तदिन्द्रियानिन्द्रियनिमित्तम्॥१४॥अवग्रहेहावायधारणाः॥१५॥बहुबहुविधक्षिप्रानिःसृतानुक्तध्रुवाणांसेतराणाम्॥१६॥अर्थस्य॥१७॥व्यञ्जनस्यावग्रहः॥१८॥नचक्षुरनिन्द्रियाभ्याम्॥१९॥श्रुतंमतिपूर्वंद्व्यनेकद्वादशभेदम्॥२०॥भवप्रत्ययोऽवधिर्देवनारकाणाम्॥२१॥क्षयोपशमनिमित्तःषड्विकल्पःशेषाणाम्॥२२॥ऋजुविपुलमतीमनःपर्ययः॥२३॥विशुद्ध्यप्रतिपाताभ्यांतद्विशेषः॥२४॥विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्ययोः॥२५॥मतिश्रुतयोर्निबन्धोद्रव्येष्वसर्वपर्यायेषु॥२६॥रूपिष्ववधेः॥२७॥तदनन्तभागेमनःपर्ययस्य॥२८॥सर्वद्रव्यपर्यायेषुकेवलस्य॥२९॥एकादीनिभाज्यानियुगपदेकस्मिन्नाचतुर्भ्यः॥३०॥मतिश्रुतावधयोविपर्ययश्च॥३१॥सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत्॥३२॥नैगम-संग्रह-व्यवहारर्जुसूत्र-शब्द-समभिरूढैवंभूतनयाः॥३३॥

                            ॥इतिश्रीतत्त्वार्थाधिगमेमोक्षशास्त्रेप्रथमोऽध्यायः॥

द्वितीयअध्याय

औपशमिकक्षायिकौभावौमिश्रश्चजीवस्यस्वतत्त्वमौदयिकपारिणामिकौच॥१॥द्विनवाष्टादशैकविंशतित्रिभेदाःयथाक्रमम्॥२॥सम्यक्त्वचारित्रे॥३॥ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणिच॥४॥ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपंचभेदाःसम्यक्त्वचारित्रसंयमासंयमाश्च॥५॥गतिकषायलिंगमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः॥६॥जीवभव्याभव्यतत्वानिच॥७॥उपयोगोलक्षणम्॥८॥सद्विविधोऽष्टचतुर्भेदः॥९॥संसारिणोमुक्ताश्च॥१०॥समनस्कामनस्का॥११॥संसारिणस्त्रसस्थावरा॥१२॥पृथिव्याप्तेजोवायुवनस्पतयःस्थावराः॥१३॥द्वीन्द्रियादयस्त्रसाः॥१४॥पंचेन्द्रियाणि॥१५॥द्विविधानि॥१६॥निर्वृत्युपकरणेद्रव्येन्द्रियम्॥१७॥लब्ध्युपयोगौभावेन्द्रियम्॥१८॥स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि॥१९॥स्पर्शरसगन्धवर्णशब्दास्तदर्थाः॥२०॥श्रुतमनिन्द्रियस्य॥२१॥वनस्पत्यन्तानामेकम्॥२२॥कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि॥२३॥संज्ञिनःसमनस्काः॥२४॥विग्रहवतौकर्मयोगः॥२५॥अनुश्रेणिगतिः॥२६॥अविग्रहाजीवस्य॥२७॥विग्रहवतीचसंसारिणःप्राक्चतुर्भ्यः॥२८॥एकसमयाअविग्रहा॥२९॥एकंद्वौत्रीन्वाऽनाहारकः॥३०॥सम्मूर्च्छनगर्भोपपादाजन्म॥३१॥सचित्तशीतसंवृताःसेतरामिश्राश्चैकशस्तद्योनयः॥३२॥जरायुजाण्डजपोतानांगर्भः॥३३॥देव-नारकाणामुपपादः॥३४॥शेषाणांसम्मूर्च्छनम्॥३५॥औदारिक-वैक्रियिकाहारक-तैजसकार्मणानिशरीराणि॥३६॥परंपरंसूक्षम्॥३७॥प्रदेशतोऽसंख्येयगुणंप्राक्तैजसात्॥३८॥अनन्तगुणेपरे॥३९॥अप्रतीघाते॥४०॥अनादिसम्बन्धेच॥४१॥सर्वस्य॥४२॥तदादीनिभाज्यानियुगपदेकस्मिन्नाचतुर्भ्यः॥४३॥निरुपभोगमन्तयम्॥४४॥गर्भसम्मूर्च्छनजमाद्यम्॥४५॥औपपादिकंवैक्रियिकम्॥४६॥लब्धिप्रत्ययंच॥४७॥तैजसमपि॥४८॥शुभंविशुद्धमव्याघातिचाहारकंप्रमत्तसंयतस्यैव॥४९॥नारकसम्मूर्च्छिनोनपुंसकानि॥५०॥नदेवाः॥५१॥शेषात्रिवेदाः॥५२॥औपपादिकचरमोत्तमदेहासंख्येय-वर्षायुषोऽनपवर्त्यायुषः॥५३॥

॥इति श्री तत्त्वार्थाधिगमे मोक्षशास्त्रे द्वितीयोऽध्यायः॥

तृतीयअध्याय

रत्नशर्कराबालुकापंकधूमतमोमहातमःप्रभाभूमयोघनाम्बुवाताकाशप्रतिष्ठाःसप्ताऽधोऽधः॥१॥तासुत्रिशंत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशतसहस्राणिपंचचैवयथाक्रमम्॥२॥नारकानित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः॥३॥परस्परोदीरितदुःखाः॥४॥संक्लिष्टाऽसुरोदीरितदुःखाश्चप्राक्चतुर्थ्याः॥५॥तेष्वेकत्रिसप्तद्शसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमासत्त्वानांपरास्थितिः॥६॥जम्बूद्वीपलवणोदादयःशुभनामानोद्वीपसमुद्राः॥७॥द्विर्द्विर्विष्कम्भाःपूर्वपूर्वपरिक्षेपिणोवलयाकृतयः॥८॥तन्मध्येमेरुनाभिवृत्तोयोजन-शत-सहस्र-विष्कम्भोजम्बूद्वीपः॥९॥भरत-हैमवत-हरि-विदेह-रम्यक-हैरण्यवतैरावतवर्षाः॥१०॥तद्विभाजिनःपूर्वपरायताहिमवन्महाहिमवन्निषध-नील-रुक्मि-शिखरिणोवर्षधरपर्वताः॥११॥हेमार्जुनतपनीयवैडूर्यरजतहेममयाः॥१२॥मणिविचित्रपार्श्वाउपरि-मूलेचतुल्यविस्तारा॥१३॥पद्ममहापद्मतिगिच्छकेसरिमहापुण्डरीकपुण्डरीकाहदास्तेषामुपरि॥१४॥प्रथमोयोजनसहस्रायामस्तदर्द्धविष्कम्भोह्रदः॥१५॥दशयोजनावगाहः॥१६॥तन्मध्येयोजनंपुष्कम्॥१७॥तद्द्विगुणद्विगुणाह्रदाःपुष्कराणिच॥१८॥तन्निवासिन्योदेव्यःश्रीह्रीधृतिकीर्तिबुद्धिलक्ष्म्यःपल्योपमस्थितयःससामानिकपारिषत्काः॥१९॥गंगासिन्धुरोहिद्रोहितास्याहरिद्धरिकान्तासीतासीतोदानारीनरकान्तासुवर्णरुप्यकूलारक्तारक्तोदाःसरितस्तन्मध्यगाः॥२०॥द्वयोर्द्वयोःपूर्वाःपूर्वगाः॥२१॥शेषास्त्वपरगाः॥२२॥चतुर्दशनदीसहस्रपरिवृतागंगासिन्ध्वादयोनद्यः॥२३॥भरतःषड्विंशतिपञ्चयोजन-शतविस्तारःषट्चैकोनविंशति-भागःयोजनस्य॥२४॥तद्-द्विगुण-द्विगुणविस्तारावर्षधर-वर्षाविदेहान्ताः॥२५॥उत्तरादक्षिणतुल्याः॥२६॥भरतैरावतयोर्वृद्धिह्रासौषट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम्॥२७॥ताभ्यामपराभूमयोऽवस्थिताः॥२८॥एक-द्वि-त्रि-पल्योपमस्थितयोहैमवतक-हारिवर्षकदैवकुरवकाः॥२९॥तथोत्तराः॥३०॥विदेहेषुसंख्येयकालाः॥३१॥भरतस्यविष्कम्भोजम्बूद्वीपस्यनवतिशतभागः॥३२॥द्विर्घातिकीखण्डे॥३३॥पुष्करार्द्धेच॥३४॥प्राङ्मानुषोत्तरान्मनुष्याः॥३५॥आर्याम्लेच्छाश्च॥३६॥भरतैरावतविदेहाःकर्मभूमयोऽन्यत्रदेवकुरूत्तरकुरुभ्यः॥३७॥नृस्थितीपरावरेत्रिपल्योपमान्तर्मुहूर्ते॥३८॥तिर्यग्योनिजानाञ्च॥३९॥

॥इति श्री तत्त्वार्थाधिगमे मोक्षशास्त्रे तृतीयोऽध्यायः॥

चतुर्थअध्याय

देवाश्चतुर्णिकायाः॥१॥आदितस्त्रिषुपीतान्तलेश्या॥२॥दशाष्टपंचद्वादशविकल्पाःकल्पोपपन्नपयन्ताः॥३॥इन्द्रसामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्विषिकाश्चैकशः॥४॥त्रायस्त्रिंशलोकपालवर्ज्याव्यन्तरज्योतिष्काः॥५॥पूर्वयोद्वीन्द्राः॥६॥कायप्रवीचाराःआऐशानात्॥७॥शेषाःस्पर्श-रूप-शब्द-मनः-प्रवीचाराः॥८॥परेअप्रवीचाराः॥९॥भवनवासिनोअसुर-नाग-विद्युत्सुपर्णाग्नि-वात-स्तनितोदधि-द्वीप-दिक्कुमाराः॥१०॥व्यन्तराःकिन्नर-किंपुरुष-महोरग-गन्धर्वयक्षराक्षसभूतपिशाचाः॥११॥ज्योतिष्काःसूर्यचन्द्रमसौग्रहनक्षत्रप्रकीर्णकतारकाश्च॥१२॥मेरुप्रदक्षिणानित्यगतयोनृलोके॥१३॥तत्कृतःकालविभागः॥१४॥बहिवरस्थिताः॥१५॥वैमानिकाः॥१६॥कल्पोपपन्नाःकल्पातीताश्च॥१७॥उपर्युपरि॥१८॥सौधर्मैशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोतरलान्तव-कापिष्ठ-शुक्र-महाशुक्र-शतार-सहस्रारेष्वानत-प्राणतयोरारणाच्युतयोर्नवसुग्रैवेयकेषुविजय-वैजयन्त-जयन्तापराजितेषुसर्वार्थसिद्धौच॥१९॥स्थिति-प्रभाव-सुखद्युतिलेश्याविशुद्धीन्द्रियावधि-विषयतोअधिकाः॥२०॥गति-शरीर-परिग्रहाभिमानतोहीनाः॥२१॥पीत-पद्म-शुक्ल-लेश्याद्वि-त्रि-शेषेषु॥२२॥प्राग्ग्रैवेयकेभ्यःकल्पाः॥२३॥ब्रह्मलोकालयालौकान्तिकाः॥२४॥सारस्वतादित्यवह्न्यरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च॥२५॥विजयादिषुद्विचरमाः॥२६॥औपपादिकमनुष्येभ्यशेषास्तिर्यग्योनयः॥२७॥स्थितिरसुरनागसुपर्णद्वीपशेषाणांसागरोपमत्रिपल्योपमार्द्धहीनमिताः॥२८॥सौधर्मैशानयोःसागरोपमेअधिके॥२९॥सानत्कुमार-माहेन्द्रयोःसप्त॥३०॥त्रि-सप्त-नवैकादश-त्रयोदश-पञ्चदशभिरधिकानितु॥३१॥आरणाच्युतादूर्ध्वमेकैकेननवसुग्रैवेयकेषुविजयादिषुसर्वार्थसिद्धौच॥३२॥अपरापल्योपमधिकम्॥३३॥परतःपरतःपूर्वापूर्वाऽनन्तरा॥३४॥नारकाणांचद्वितीयादिषु॥३५॥दशवर्षसहस्राणिप्रथमयाम्॥३६॥भवनेषुच॥३७॥व्यन्तराणांच॥३८॥परापल्योपमधिकम्॥३९॥ज्योतिष्काणांच॥४०॥तदष्टभागोऽपरा॥४१॥लौकान्तिकानामष्टौसागरोपमाणिसर्वेषाम्॥४२॥

॥इतिश्रीतत्त्वार्थाधिगमेमोक्षशास्त्रेचतुर्थोऽध्यायः॥

पंचमअध्याय

अजीवकायाधर्माधर्माकाशपुद्गलाः॥१॥द्रव्याणि॥२॥जीवाश्च॥३॥नित्यावस्थितान्यरूपाणि॥४॥रूपिणःपुद्गलाः॥५॥आआकाशादेकद्रव्याणि॥६॥निष्क्रियाणिच॥७॥असंख्येयाःप्रदेशाधर्माधर्मैकजीवानाम्॥८॥आकाशस्यानन्ताः॥९॥संख्येयाऽसंख्येयाश्चपुद्गलानाम्॥१०॥नाणोः॥११॥लोकाकाशेऽवगाहः॥१२॥धर्माधर्मयोःकृत्स्ने॥१३॥एकप्रदेशादिषुभाज्यःपुद्गलानाम्॥१४॥असंख्येय-भागादिषुजीवानाम्॥१५॥प्रदेशसंहारविपर्याभ्यांप्रदीपवत्॥१६॥गतिस्थित्युपग्रहौधर्माधर्मयोरुपकारः॥१७॥आकाशस्यावगाहः॥१८॥शरीर-वाङ्-मनः-प्राणापानाःपुद्गलानाम्॥१९॥सुख-दुःख-जीवितमरणोपग्रहाश्च॥२०॥परस्परोपग्रहोजीवानाम्॥२१॥वर्तनापरिणामक्रियापरत्वापरत्वेचकालस्य॥२२॥स्पर्शरसगन्धवर्णवन्तःपुद्गलाः॥२३॥शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायाऽतपोद्योतवन्तश्च॥२४॥अणवःस्कन्धाश्च॥२५॥भेदसंघातेभ्यउत्पद्यन्ते॥२६॥भेदादणुः॥२७॥भेदसंघाताभ्यांचाक्षुषः॥२८॥सद्द्रव्यलक्षणम्॥२९॥उत्पादव्ययध्रौव्ययुक्तंसत्॥३०॥तद्भावाव्ययंनित्यम्॥३१॥अर्पितानर्पितसिद्धेः॥३२॥स्निग्धरूक्षत्वाद्बन्धः॥३३॥नजघन्यगुणानाम्॥३४॥गुणसाम्येसदृशानाम्॥३५॥द्व्यधिकादिगुणानांतु॥३६॥बन्धेऽधिकौपरिणामिकौच॥३७॥गुणपर्ययवद्द्रव्यम्॥३८॥कालश्च॥३९॥सोऽनन्तसमयः॥४०॥द्रव्याश्रयानिर्गुणाःगुणाः॥४१॥तद्भावःपरिणामः॥४२॥

॥इतिश्रीतत्त्वार्थाधिगमेमोक्षशास्त्रेपंचमोऽध्यायः॥

षठ अध्याय

कायवाङ्मनःकर्मयोगः॥१॥सआस्रवः॥२॥शुभःपुण्यस्याशुभःपापस्य॥३॥सकषायाकषाययोःसांपरायिकेर्यापथयोः॥४॥इन्द्रियकषायाव्रतक्रियाःपञ्चचतुःपञ्चपञ्चविंशतिसंख्याःपूर्वस्यभेदाः॥५॥तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यस्तद्विशेषः॥६॥अधिकरणंजीवाजीवाः॥७॥आद्यंसंरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशैषैस्त्रिस्त्रिश्चतुश्चैकशः॥८॥निर्वर्तनानिक्षेपसंयोगनिसर्गाद्विचतुर्द्वित्रिभेदाःपरम्॥९॥तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाताज्ञानदर्शनावरणयोः॥१०॥दुःख-शोक-तापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थानान्यसद्वेद्यस्य॥११॥भूतव्रत्यनुकम्पा-दानसरागसंयमादियोगःक्षान्तिःशौचमितिसद्वेद्यस्य॥१२॥केवलिश्रुतसंघधर्मदेवावर्णवादोदर्शनमोहस्य॥१३॥कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य॥१४॥बह्वारम्भपरिग्रहत्वंनारकस्यायुषः॥१५॥मायातैर्यग्योनस्य॥१६॥अल्पारम्भपरिग्रहत्वंमानुष्यस्य॥१७॥स्वभावमार्दवंच॥१८॥निश्शील-व्रतत्वंचसर्वेषाम्॥१९॥सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसिदेवस्य॥२०॥सम्यक्त्वंच॥२१॥योगवक्रताविसंवादनंचाशुभस्यनाम्नः॥२२॥तद्विपरीतंशुभस्य॥२३॥दर्शनविशुद्धिर्विनयसम्पन्नताशीलव्रतेष्वनतिचारोऽभीक्ष्णज्ञानोपयोगसंवेगौशक्तितस्त्यागतपसीसाधुसमाधिर्वैयावृत्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिगाणिर्मार्गप्रभावनाप्रवचनवत्सलत्वमितितीर्थंकरत्वस्य॥२४॥परात्मनिन्दाप्रशंसेसदसद्गुणोच्छादनोद्भावनेचनीचैर्गोत्रस्य॥२५॥तद्विपर्ययोनीचैर्वृत्यनुत्सेकौचोत्तरस्य॥२६॥विघ्नकरणमन्तरायस्य॥२७॥

॥इतिश्रीतत्त्वार्थाधिगमेमोक्षशास्त्रेषष्ठोऽध्यायः॥

सप्तम अध्याय

हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्योविरतिर्व्रतम्॥१॥देशसर्वतोऽणुमहती॥२॥तत्स्थैर्यार्थंभावनाःपञ्चपञ्च॥३॥वाङ्-मनो-गुप्तीर्यादाननिक्षेपण-समित्यालोकित-पानभोजनानिपञ्च॥४॥क्रोधलोभभीरुत्व-हास्यप्रत्याख्यानान्यनुवीचीभाषणञ्चपञ्च॥५॥शून्यागारविमोचितावासपरोपरोधाकरणभैक्ष्यशुद्धि-सधर्माविसंवादाःपञ्च॥६॥स्त्रीरागकथाश्रवण-तन्मनोहरांगनिरीक्षण-पूर्वरतानुस्मरण-वृष्येष्टरस-स्वशरीरसंस्कारत्यागाःपञ्च॥७॥मनोज्ञामनोज्ञेन्द्रियविषयरागद्वेषवर्जनानिपञ्च॥८॥हिंसादिष्विहामुत्रापायावद्यदर्शनम्॥९॥दुःखमेववा॥१०॥मैत्री-प्रमोद-कारुण्य-माध्यस्थानिचसत्त्व-गुणाधिक-क्लिश्यमानाविनेयेषु॥११॥जगत्कायस्वभावौवासंवेगवैराग्यार्थम्॥१२॥प्रमत्तयोगात्प्राणव्यपरोपणंहिंसा॥१३॥असदभिधानमनृतम्॥१४॥अदत्तादानंस्तेयम्॥१५॥मौथुनमब्रह्म॥१६॥मूर्च्छापरिग्हः॥१७॥निश्शल्योव्रती॥१८॥अगार्यनगारश्च॥१९॥अणुव्रतोऽगारी॥२०॥दिग्देशानर्थदण्डविरति-सामायिकप्रोषधोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागव्रतसंपन्नश्च॥२१॥मारणान्तिकींसल्लेखनांजोषिता॥२२॥शंकाऽऽकांक्षाविचिकित्साअन्यदृष्टिप्रशंसासंस्तवाःसम्यग्दृष्टेरतिचाराः॥२३॥व्रतशीलेषुपञ्चपञ्चयथाक्रमम्॥२४॥बन्धवधच्छेदातिभारारोपणान्नपाननिरोधाः॥२५॥मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः॥२६॥स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः॥२७॥परविवाहकरणेत्वरिकापरिगृहीताऽपरिगृहीता-गमनानंगक्रीडाकामतीव्राभिनिवेशाः॥२८॥क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्य-प्रमाणातिक्रमाः॥२९॥ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि॥३०॥आनयनप्रेष्यप्रयोगशब्दरूपानुपात्पुद्गलक्षेपाः॥३१॥कन्दर्प्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि॥३२॥योगदुष्प्रणिधानानादरस्मृत्यनुपस्थानानि॥३३॥अप्रत्यवेक्षिताप्रमार्जितोत्सर्गाऽऽदानसंस्तरोपक्रमणानादरस्मृत्यनुपस्थानानि॥३४॥सचित्तसम्बन्धसम्मिश्राभिषवदुष्पक्वाहाराः॥३५॥सचित्त-निक्षेपापिधान-परव्यपदेश-मात्सर्य-कालातिक्रमाः॥३६॥जीवित-मरणाशंसा-मित्रानुराग-सुखानुबंधनिदानानि॥३७॥अनुग्रहार्थंस्वस्यातिसर्गोदानम्॥३८॥विधिद्रव्यदातृपात्रविशेषात्तद्विशेषाः॥३९॥

॥इतिश्रीतत्त्वार्थाधिगमेमोक्षशास्त्रेसप्तमोऽध्यायः॥

अष्टमअध्याय

मिथ्यादर्शनाविरतिप्रमादकषाययोगाबन्धहेतवः॥१॥सकषायत्वाज्जीवःकर्मणोयोग्यान्पुद्गलानादत्तेसबन्धः॥२॥प्रकृतिस्थित्यनुभवप्रदेशास्तद्विधयः॥३॥आद्योज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः॥४॥पञ्चनवद्व्यष्टाविंशतिचतुर्द्विचत्वारिंशद्द्विपञ्चभेदायथाक्रमम्॥५॥मतिश्रुतावधि-मनःपर्ययकेवलानाम्॥६॥चक्षुरचक्षुरवधिकेवलानांनिद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धयश्च॥७॥सदसद्वेद्ये॥८॥दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिद्विनवषोडशभेदाःसम्यक्त्वमिथ्यात्वतदुभयान्यकषायकषायौहास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकवेदाअनन्तानुबन्ध्यप्रत्याख्यान-प्रत्याख्यान-संज्वलन-विकल्पाश्चैकशःक्रोध-मान-मायालोभाः॥९॥नारकतैर्यग्योन-मानुष-दैवानि॥१०॥गति-जाति-शरीरांगोपांग-निर्माण-बंधन-संघात-संस्थान-संहनन-स्पर्श-रस-गंध-वर्णानुपूर्व्यागुरुलघूपघात-परघातातपोद्योतोच्छ्वास-विहायोगतयःप्रत्येकशरीर-त्रस-सुभग-सुस्वर-शुभ-सूक्ष्म-पर्याप्तिस्थिरादेययशःकीर्तिःसेतराणितीर्थंकरत्वच॥११॥उच्चैर्नीचैश्च॥१२॥दान-लाभभोगोपभोगवीर्याणाम्॥१३॥आदितस्तिसृणामन्तरायस्यचत्रिंशत्सागरोपमकोटीकोट्यःपरास्थितिः॥१४॥सप्ततिर्मोहनीयस्य॥१५॥विंशतिर्नामगोत्रयोः॥१६॥त्रयस्त्रिंशत्सागरोपमाण्यायुषः॥१७॥अपराद्वादशमुहूर्यावेदनीयस्य॥१८॥नामगोत्रयोरष्टौ॥१९॥शेषाणामन्तर्मुहूर्ता॥२०॥विपाकोऽनुभवः॥२१॥सयथानाम्॥२२॥ततश्चनिर्जरा॥२३॥नामप्रत्ययाःसर्वतोयोगविशेषात्सूक्ष्मैकक्षेत्रागाहस्थिताःसर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः॥२४॥सद्वेद्यशुभायुर्नामगोत्राणिपुण्यम्॥२५॥अतोऽन्यत्पापम्॥२६॥

॥इतिश्रीतत्त्वार्थाधिगमेमोक्षशास्त्रेअष्टमोऽध्यायः॥

नवमअध्याय

आस्रवनिरोधःसंवरः॥१॥सगुप्तिसमितिधर्मानुप्रेक्षापरिषहजयचारित्रैः॥२॥तपसानिर्जराच॥३॥सम्यग्योग-निग्रहोगुप्तिः॥४॥ईर्या-भाषैषणादाननिक्षेपोत्सर्गाःसमितयः॥५॥उत्तमक्षमा-मार्दवार्जव-शौचसत्यसंयमतपस्त्यागाकिंचनब्रह्मचर्याणिधर्मः॥६॥अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्याःतत्त्वानुचिन्तनमन्प्रेक्षाः॥७॥मार्गाच्यवननिर्जरार्थंपरिषोढव्याःपरिषहाः॥८॥क्षुत्पिपासा-शीतोष्ण-दंशमशक-नाग्न्यारति-स्त्री-चर्या-निषद्या-शय्याऽऽक्रोध-वध-याचना-अलाभ-रोग-तृणस्पर्श-मल-सत्कार-पुरस्कार-प्रज्ञाज्ञानादर्शनानि॥९॥सूक्ष्मसाम्पराय-छद्मस्थवीतरागयोश्चतुर्दश॥१०॥एकादशजिने॥११॥बादरसाम्परायेसर्वे॥१२॥ज्ञानावरणेप्रज्ञाज्ञाने॥१३॥दर्शनमोहान्तराययोरदर्शनालाभौ॥१४॥चारित्रमोहेनाग्न्यारति-स्त्री-निषद्याऽऽक्रोश-याचनासत्कारपुरस्काराः॥१५॥वेदनीयेयेषाः॥१६॥एकादशोभाज्यायुगपदेकस्मिन्नैकोनविंशतेः॥१७॥सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसांपराययथाख्यातमितिचारित्रम्॥१८॥अनशनावमौदर्यवृत्तिपरिसंख्यान-रसपरित्याग-विविक्तशय्यासन-कायश्लेशाबाह्यंतपः॥१९॥प्रायश्चित्त-विनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम्॥२०॥नवचतुर्दशपञ्चद्विभेदायथाक्रमंप्राग्ध्यानात्॥२१॥आलोचन-प्रतिक्रमण-तदुभय-विवेक-व्युत्सर्ग-तपश्छेद-परिहारोपस्थापनाः॥२२॥ज्ञान-दर्शन-चारित्रोपचाराः॥२३॥आचार्योपाध्यायतपस्विशैक्षग्लानगणकुलसंघसाधुमनोज्ञानाम्॥२४॥वाचनापृच्छनाऽनुप्रेक्षाऽऽम्नायधर्मोपदेशाः॥२५॥बाह्याभ्यन्तरोपध्योः॥२६॥उत्तमसंहननस्यैकाग्रचिन्तानिरोधोध्यानमान्तर्मुहूर्तात्॥२७॥आर्त्तरौद्रधर्म्यंशुक्लानि॥२८॥परेमोक्षहेतू॥२९॥आर्तममनोज्ञस्यसम्प्रयोगेतद्विप्रयोगायस्मृतिसमन्वाहारः॥३०॥विपरीतंमनोज्ञस्य॥३१॥वेदनायाश्च॥३२॥निदानंच॥३३॥तदविरत-देशविरत-प्रमत्तसंयतानाम्॥३४॥हिंसानृत-स्तेयविषयसंरक्षणेभ्योरौद्रमविरत-देशविरतयोः॥३५॥आज्ञापायविपाकसंस्थानविचयायधर्म्यम्॥३६॥शुक्लेचाद्येपूर्वविदः॥३७॥केवलिनः॥३८॥पृथक्त्वैकत्ववितर्क-सूक्ष्मक्रियाप्रतिपाति-व्युपरतक्रियानिवर्तीनि॥३९॥त्र्येकयोग-काययोगायोगानाम्॥४०॥एकाश्रयेसवितर्कवीचरेपूर्वे॥४१॥अवीचारंद्वितीयम्॥४२॥वितर्कःश्रुतम्॥४३॥वीचारोऽर्थः-व्यंजन-योगसंक्रान्तिः॥४४॥सम्यग्दृष्टि-श्रावकाविरतानन्तविजोयकदर्शनमोह-क्षपकोपशमकोपशान्तमोह-क्षपकक्षीणमोह-जिनाःक्रमशोऽसंख्येयगुण-निर्जराः॥४५॥पुलाक-बकुश-कुशील-निर्ग्रन्थ-स्नातकानिर्ग्रन्थाः॥४६॥संयम-श्रुत-प्रतिसेवना-तीर्थ-लिंगलेश्योपपादस्थान-विकल्पतःसाध्याः॥४७॥

॥इतिश्रीतत्त्वार्थाधिगमेमोक्षशास्त्रेनवमोऽध्यायः॥

दशमअध्याय

मोहक्षयाज्ज्ञान-दर्शनावरणान्तराय-क्षयाच्चकेवलम्॥१॥बन्धहेत्वभाव-निर्जराभ्यांकृत्स्नकर्मविप्रमोक्षोमोक्षः॥२॥औपशमिकादि-भव्यत्वानांच॥३॥केवल-सम्यक्त्वज्ञान-दर्शनसिद्धत्वेभ्यः॥४॥तदनन्तरमूर्ध्वंगच्छत्यालोकान्तात्॥५॥पूर्वप्रयोगादसंगत्वाद्बन्धच्छेदात्तथागतिपरिणामाच्च॥६॥आविद्धकुलालचक्रवद्व्यगतलेपालांबुवदेरण्डबीजवदग्निशिखावच्च॥७॥धर्मास्तिकायाभावात्॥८॥क्षेत्रकालगतिलिंगतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तरसंख्याल्पबहुत्वतसाध्याः॥९॥

॥इतिश्रीतत्त्वार्थाधिगमेमोक्षशास्त्रेदशमोऽध्यायः॥

प्रस्तुति - प्रो अनेकांत कुमार जैन 

Comments

Popular posts from this blog

ब्रह्मी लिपि उद्भव और विकास Brahmi Lipi origin and Devolopment

ब्राह्मी लिपि : उद्भव और विकास - श्रीमती डा. मुन्नी पुष्पा जैन, वाराणसी          भाषा के बाद अभिव्यक्ति का सबसे अधिक सशक्त माध्यम ‘लिपि' है। ‘लिपि' किसी भाषा को चिन्हों तथा विभिन्न आकारों में बांधकर दृश्य और पाल्य बना देती है। इसके माध्यम से भाषा का वह रूप हजारों वर्षों तक सुरक्षित रहता है। विश्व में सैकड़ों गाषाए तथा सैकड़ों लिपियों हैं। भाषा का जन्म लिपि से पहले होता है, लिपि का जन्म बाद मे। प्राचीन शिलालेखों से यह स्पष्ट होता है कि प्राचीन भारत में ब्राह्मीलिपि ही प्रमुखतया प्रचलित रही है और यही बाह्मी लिपि अपने देश के समृद्ध प्राचीन ज्ञान-विज्ञान ,संस्कृति,इतिहास आदि को सही रूप में सामने लाने में एक सशक्त माध्यम बनी। सपाट गो मापवं ने/ इस ब्राह्मी लिपि में शताधिक शिलालेख लिखवाकर ज्ञान लिाप और भाषा को सदियों तक जीवित रखने का एक क्रांतिकारी कदम उठाया था।   सत्रहवीं-अठारहवीं शताब्दी में ब्राह्मी लिपि के रहस्य को समझने के लिए पश्चिमी तथा पूर्वी विद्वानों ने जो श्रम किया उसी का प्रतिफल है कि आज हम उन प्राचीन लिपियो को पढ़-समझ पा रहे है...

जैन ग्रंथों का अनुयोग विभाग

जैन धर्म में शास्त्रो की कथन पद्धति को अनुयोग कहते हैं।  जैनागम चार भागों में विभक्त है, जिन्हें चार अनुयोग कहते हैं - प्रथमानुयोग, करणानुयोग, चरणानुयोग और द्रव्यानुयोग।  इन चारों में क्रम से कथाएँ व पुराण, कर्म सिद्धान्त व लोक विभाग, जीव का आचार-विचार और चेतनाचेतन द्रव्यों का स्वरूप व तत्त्वों का निर्देश है।  इसके अतिरिक्त वस्तु का कथन करने में जिन अधिकारों की आवश्यकता होती है उन्हें अनुयोगद्वार कहते हैं। प्रथमानुयोग : इसमें संयोगाधीन कथन की मुख्यता होती है। इसमें ६३ शलाका पुरूषों का चरित्र, उनकी जीवनी तथा महापुरुषों की कथाएं होती हैं इसको पढ़ने से समता आती है |  इस अनुयोग के अंतर्गत पद्म पुराण,आदिपुराण आदि कथा ग्रंथ आते हैं ।पद्मपुराण में वीतरागी भगवान राम की कथा के माध्यम से धर्म की प्रेरणा दी गयी है । आदि पुराण में तीर्थंकर आदिनाथ के चरित्र के माध्यम से धर्म सिखलाया गया है । करणानुयोग: इसमें गणितीय तथा सूक्ष्म कथन की मुख्यता होती है। इसकी विषय वस्तु ३ लोक तथा कर्म व्यवस्था है। इसको पढ़ने से संवेग और वैराग्य  प्रकट होता है। आचार्य यति वृषभ द्वारा रचित तिलोयपन...

TEMPLES, STEPWELLS, FORTS ETC built by KING KUMARPAL

TEMPLES, STEPWELLS, FORTS ETC built by KING KUMARPAL Raja Kumarapal was responsible for building a large number of temples in his capital Anahilapataka (Patan). After accepting Jainism, he spent 14 crores gold coins in 14 years for Sadharmik Bhakti. He constructed 21 Jain libraries, 1444 new Jinalaya/vihars, renovated 1600 temples and organised 'Cha-Ri-Palit Sangh' to various tirths 7 times. In V.S.1226 he arranged Cha-Ri-Palit sangh yatra to Shatrunjay Tirth. According to Jain prabandhas, he built 32 Jain temples as the repentance of his non-vegetarianism in early life. He built temples at several sites, many of which are already Jain sites of pilgrimage: Shatrunjaya, Arbudagiri (Abu), Stambhatirtha (Khambhat), Prabhas etc. Somnath temple of Shashibhushana (1169 AD) at Prabhas patan (Somnath patan, old name Dev Patan) which is mentioned as one of the 5 sacred temples of the town according to Prabhas-kanda was renovated by him. Kumarapal's Somnath inscription mentions it...