Skip to main content

समयसारः ग्रंथस्य वैशिष्ट्यम्

समयसारः ग्रंथस्य वैशिष्ट्यम्

कुन्दकुन्दस्य प्रौढा श्रेष्ठा च रचना वर्तते समयसारः। `“वोच्छामि समयपहुडमिणमो सुयकेवलीभणियं” इति प्रतिज्ञावाक्येन सूच्यते यत् कुन्दकुन्दाचार्यं ग्रन्थस्यास्य नाम समयपाहुडम् इत्यभीष्टमासीत् परन्तु कालान्तरे ’प्रवचनसारः’ ’नियमसारः’ एतादृशां सारान्तनाम्‍नामनुकरणवशात् ’समयसारः’ इत्येव प्रचलितोऽभवत्।

 “समयते एकत्वेना युगपज्जानाति गच्छति च” इति निरुक्तेरनुसारं समयसारशब्दस्यार्थः जीवः इति ज्ञायते,’प्रकर्षेण आसमन्तात् भृतमिति प्राभृतम्’ यस्मिन् पूर्वापरविरोधरहितसांगोपांगवर्णनमस्ति तत्प्राभृतम् इति निरुक्‍तेनुसारं प्राभृतशब्दस्यार्थः शास्त्रमिति भवति। ’समयस्य प्राभृतम्’- जीवस्य आत्मनः वा शास्त्रमित्यर्थः भवति। 

समयप्राभृत दशाधिकारेषु विभक्तोऽस्ति-
१)पूर्वरङ्गम्
२) जीवाजीवाधिकारः
३) कर्तृकर्माधिकारः 
४) पुण्यपापाधिकारः
  ५) आस्रवाधिकारः
  ६) संवराधिकारः 
७) निर्जराधिकारः
  ८) बंधाधिकारः
  ९) मोक्षाधिकारः 
१०) सर्वविशुद्धज्ञानाधिकारश्च।

नयानां सामञ्जस्यमुपस्थापयितुममृतचन्द्राचार्येण स्याद्वादाधिकार उपायोपेयभावाधिकारश्च एतौ द्वौ परिशिष्टौ योजितौ। अमृतचन्द्राचार्यानुसारं ग्रन्थेऽस्मिन्पञ्चदशाधिकचतुश्शतगाथाः सन्ति, जयसेनाचार्यानुसारञ्च द्वाविंशत्युत्तर-चतुश्शतगाथाः सन्ति। ग्रन्थस्यास्य प्रतिपाद्यः विषयः इत्थमस्ति-

पूर्वरङ्गाधिकारः
कुन्दकुन्दाचार्येण पूर्वरंगनाम्ना विभाजनं न कृतमासीत्, अमृतचन्द्रसूरिणा अष्टत्रिंशद्गाथानन्तरं पूर्वरङ्गस्य समाप्तेः सूचना दत्ता। एतास्वारम्भिकाः द्वादशगाथाः पीठिकास्वरूपाः वर्तन्ते यासु ग्रन्थकारेण मङगलाचरणं, ग्रन्थप्रतिज्ञा, स्वसमयपरसमययोः व्याख्यानं, शुद्धाशुद्धनयोश्च स्वरूपस्य दिग्दर्शनं कृतम्। एतान् नयान् विना समयपाहुडमवगन्तुं न शक्यते। पीठिकानन्तरं शुद्धात्मनः स्वरूपं व्याख्यातम्। शुद्धनय आत्मनि परद्रव्यजनितविभावभावं गुणपर्याययोः भेदञ्च न स्वीकरोति। तस्मादेव शुद्धनयः सम्यग्दर्शनज्ञानचारित्राणि आत्मगुणानि इत्यपि न स्वीकरोति, तदनुसारमात्मा सम्यग्दर्शनादिरूप एव। आत्मा प्रमतोऽप्रमतः वा इत्यपि अनेने न स्वीक्रियते यतो हि एवं स्वीकृते सति आत्मा प्रमत्ताप्रमत्तपर्याययोः विभक्तः स्वीकर्तव्यः। शुद्धनयश्च आत्मा ज्ञायकः इति स्वीकरोति। जीवाधिकारे जीवस्य निजस्वरूपकथनपुरस्सरं सः जीवः परपदार्थेभ्यः तेषाञ्च निमित्तोत्पन्नविभावभावेभ्यः पृथक् निरुपितः। द्रव्य-भाव-नोकर्मेभ्यः पृथगात्मतत्त्वं ज्ञेयभावाभ्यमपि पृथगेव निरुपितम्। यथा- दर्पणः प्रतिबिम्बितमयूराद् भिन्नः तथैवात्मा ज्ञाने प्रतिबिम्बितः घटपटादिभिः ज्ञेयैः भिन्नोऽस्ति। यथा च दर्पणः स्वप्रतिबिबितशिखाभिः संयुक्तोऽपि तज्जन्यतापान्मुक्तोऽस्ति तथैवात्मा सुखदुःखकर्मफलानुभावात् भिन्नोऽस्ति। प्रकरणस्यान्ते कुन्दकुन्दाचार्यः लिखिति यत् –
अहमेक्को खलु सुद्धो दंसणणाणमईयो सदारूवी।
णवि अत्थि मज्झ किंचिवि अण्णं परमाणुमित्तं पि॥
अर्थात् निश्चयेनाहमेकः शुद्धः दर्शनज्ञानमयः अस्मि अन्यपरमाणुमात्रमपि मम नास्ति।
तात्पर्योऽत्र विद्यते यत् एषः जीवः पुद्गलसंयोगोत्पन्नपर्याये – स्वात्मबुद्धिं कृत्वा इष्टानिष्टपरिणतौ हर्षविषादमनुभवन् व्यर्थमेव राग-द्वेषञ्च कृत्वा नूतनकर्म बध्नाति, संसारञ्च तनोति। यदा च जीवः परपदार्थेभ्यः भिन्नात्मतत्त्वं लक्षं करोति तदा परपदार्थेषु ममत्वबुद्धिः स्वयमेव नश्यति।
जीवाजीवाधिकारः
जीवः अनदितः कर्मनोकर्मसंयुक्तोऽस्ति मिथ्यात्त्वदशायाञ्च जीवः नोकर्मणः परिणतिमात्मपरिणतिरितिमत्वा एततदेवाहमित्यहंकारं करोति अत अधिकारेऽस्मिन् शरीरादिनोकर्मणः भिन्नतां प्रदर्श्य ज्ञानवरणादिद्रव्यकर्मभ्यः रागादिभावकर्मस्य पृथक्‍त्वं प्रदर्शितम्। आचार्यदेवः कथयति यत् एते सर्वे भावाः पुद्गलद्रव्यपरिणामनिष्पन्नाः, तस्मात् पुद्गलाः, एतान् जीवत्वेन कथं मन्यसे।
यथा – 
एए सत्वे भावा पुग्गलदत्वपरिणामणिप्पण्णा।
केवलिजिणेहि भणिया कह ते जीवोत्ति वुच्चंति॥
अजीवाश्रितपरिणामाः ये जीवेनसह तादत्म्यभावमापन्ना इव प्रतीयमानाः सन्ति ते अधिकरेऽस्मिन् अजीवाः एव उक्ता इति विशेषम्। रागादिभाव-गुणस्थान-मार्गणास्थान-जीवसमासाः अप्यत्राजीवा इति सिद्धं कृतम्। ते घटपटादिरिवाजीव इति न, अपितु जीवस्य स्वभावपरिणतिभिन्नाः सन्ति, तस्मात् ते भावा अजीवा इति तात्पर्यं विद्यते। जीवस्वभावस्य तु कदाप्यभावः न भवति परन्तु एतेषामभावः भवति। यस्य पौद्गलिककर्मणः उदयवस्थायामेते उत्पन्नाः भवन्ति, तस्याभावे एतेऽपि विनश्यन्ति। यथाग्नेः सम्पर्कात जलमुष्णं जायते परन्तु अग्न्याभावे तथा न तिष्ठति यतो हि उष्णत्वं तस्य विभावः न तु स्वभावः, तथैव क्रोधादिकर्मणामुदयकाले आत्मनि रागादिभावा अनुभुताः भवन्ति परन्तु तेऽपि विभावा एव न तु स्वभावाः। ते रागादिभावाः आत्मन्येवोत्पन्ना भवन्ति अतः आचार्यैरशुद्धनयेन ते भावा आत्मनः कथिताः परन्तु कुन्दकुन्दाचार्यः कथमपि तानात्मानः न स्वीकरोति, अत एव तदनुसारं रागादिभावा आत्मन इति कथनं व्यवहारनयस्य विद्यते, यश्च व्यवहारनयः अभूतार्थः तेन कथितः। 
अस्मिन्नेव प्रसङ्गे जीवस्वरूपं वर्णयन् कुन्दकुन्दाचार्यः कथयति-
अरसमरुवमगंधं अव्वत्तं चेदणागुणमसद्दं।
जाण अलिंगग्गहणं जीवमणिद्दिठ्ठ संठाणं॥
अत्र चेतनागुणः जीवस्य स्वरूपमन्ये रसादयः तस्य स्वभावाः न सन्तीति स्पष्टरुपेण प्रदर्शनाय तेऽत्रोल्लिखिताः। एवं जीवस्वरूपं वर्णनमजीवेभ्यः पृथक्करणञ्चास्याधिकारस्य विषयः। एषोऽधिकारः नवत्रिंशद्गाथातः अष्टषष्टिगाथापर्यन्तं वर्तते।
कर्तृकर्माधिकारः –
जीवाजीवयोरनादिसम्बद्धस्य-कारणं किमिति प्रश्नः स्वाभाविकः। जीवः कर्म कृतवान्, कर्मणा वा जीवः कृतः? यदि जीवः कर्म कृतवान् तर्हि कथम्? यद्यकारणमेव तर्हि सिद्धानामपि कर्मत्वापत्तिः। कर्मणा यदि जीवः रागादिभावसंयुक्तः कृतः तर्हि कथम्? यद्यकारणमेव तर्हि कर्मसद्भावे सदैव विकाराः स्युः। समाधानमत्र यत् जीवस्य रागादिभावानां निमित्तेन पुद्गलः कर्मत्वेन परिणमति, पुद्गलकर्मणाञ्चोदये जीवः रागादिभावयुक्तः भवति। अनादिसंयोगवशात् समाधानेऽस्मिन् अन्योन्याश्रयदोषस्य प्रसक्तिः न भवति। अमृतचन्द्राचार्येण कर्ता-कर्म-लक्षणानि प्रोक्तानि-
यः परिणमति सः कर्ता यः परिणामो भवेत्तु तत्कर्म।
या परिणमति क्रिया सा यत्रयमपि भिन्न न वस्तुतया॥
यत्र परस्परं व्याप्यव्यापकभाव उपादानोपादेयभावः वा विद्यते तत्रैव कर्तृकर्मभावः इति निश्चयनयः स्वीकरोति। यश्च कार्यरूपेणपरिणतिमति सः व्यापकः उपादनो वा, इत्युच्यते। ‘मृत्तिकातः घटः निर्मितः’ इत्यत्र मृत्तिका व्यापकत्वेनोपादानत्वेनाभिधीयते, घटश्च व्याप्यः उपादेयः वा। व्याप्यव्यापकभावः उपादनोपादेयभावश्च एकस्मिन्नेव द्रव्ये भवितुं शक्नोति, न तु द्वयोः द्रव्ययोः यतो हि द्रव्यः द्रव्यान्तरेण परिणमनं कर्तुं न शक्नोति। कार्यरूपपरिणमनाय यत् सहायकं तत् निमित्तं, यथा घटनिर्माणे कुम्भकारः दण्डादयः। निमित्तसहायेन च यत् कार्यं भवति तन्नैमित्तिकमित्युच्यते यथा मृत्तिकायाः घटरूपपरिणमनम्। निमित्तनैमित्तिक भावः द्वयोः द्रव्ययोरपि भवितुं शक्नोति। जीवस्य रागादिभावानां निमित्तेन जीवे रागादिभावाः उत्पद्यन्ते। निमित्तनैमित्तिकभावसद्भावेऽपि कर्तृकर्मभावः अत्र न स्वीक्रियते, यदि स्वीक्रियते तर्हि द्विक्रियाकारित्वदोषापत्तिः भवति, अर्थात् निमित्तं स्वपरिणमनस्य उपादानपरिणमनस्य चोभयोः कर्ता स्वीकर्तव्यः स्यात्, यत्तु न संभवः। कुन्दकुन्दाचर्येणोक्तं –
जीवो ण करदि घडं, णेव पडं णेव सेसगे दव्वे।
जोगुबवजोगा उप्पदग्गा य तेसिं हवदि कत्ता॥
अर्थात् जीवः घटपटयोः कर्ता नास्ति, तस्य योगोपयोगौ एव तयोः कर्ता भवतः।
अस्य टीकायाम् अमृतचन्द्राचार्येणोक्तम् –
घटादिकं क्रोधादिकं वा परद्रव्यात्मककर्म यद्यात्मा व्यप्यव्यापकभावेन कुर्यात्तर्हि तत्द्रूपतायाः प्रसङ्गः आपद्यते, यदि निमित्तनैमित्तिकभावेन कुर्यात्तर्हि नित्यकर्तृत्वस्य प्रसङ्ग आगच्छति, परन्तु आत्मा न तु तैः सह तद्रूपः नैव च तेषां नित्यकर्ता, अतः कथमपि आत्मा तेषां कर्ता नास्ति। परन्तु अनित्यः योगः उपयोगश्च घटपटादिद्रव्याणां निमित्त्कर्तारौ भवतः। उपयोगयोगौ आत्मनः व्यापरौ स्तः, अर्थात् घटनिर्माणविषयकपरिणामे सति काययोगेनात्मप्रदेशेषु चञ्चलता भवति, तन्निमित्तेन हस्तादिव्यापारैः दण्डनिमित्तिकचक्रभ्रमीत्यादिना घटस्य निष्पतिः भवति। उपयोगयोगावनित्यौ स्तः। अज्ञानवशात् कदचितात्मा एतयोः कर्ता स्यात् परन्तु परद्रव्याणां कर्ता सः कदापि न भवति। निमितमत्र द्विधा विभक्तं – साक्षात्-निमित्तं, परम्परानिमित्तञ्च। कुम्भकारस्य योगोपयोगौ साक्षात् निमित्ते, ताभ्यां दण्डचक्रादिव्यापारः परम्परानिमित्तमिति। परम्परानिमित्तममुख्यः यदा क्रियते तदोच्यते यत् आत्मा घटपटादिना कर्ता नास्ति परन्तु यदा परम्परानिमित्तजनित-निमित्तनैमित्तिकभावः मुख्यः क्रियते तदा आत्मा घटपटादिनां कर्तेति कथनं क्रियते।
तात्पर्यवृत्तिटीकायां स्पष्टतयोक्तम् –
“इति परम्परया निमित्तरूपेण घटादिविषये जीवस्य कर्तृत्वं स्यात्। यदि पुनः मुख्यवृत्त्या निमित्तकर्तृत्वं भवति तर्हि जीवस्य नित्यत्वात् सर्वदैव कर्मकर्तृत्वप्रसङ्गाद् मोक्षभावः। “
घटस्य कर्ता कुम्भकारः नास्ति कथनमेतत् लोकविरुद्धं यद्यपि प्रतीयते तथापि वस्तुतः कुम्भकारः स्वयोगोपयोगयोरेव कर्तास्ति। लोके तस्य कर्तृत्वं परम्परया निमित्तरूपेणैवास्ति।
मूलप्रश्नस्तु कर्मणां रागादिनाञ्च कर्ता कः इत्यासीत्; तत्र यदा व्याप्यव्यापकभावापेक्षया, उपादानोपादेयभावापेक्षया वा विचारः क्रियते तदा स्पष्टं भवति यत् यतो हि कर्मरूपपरिणमनं पुद्गलस्यास्ति अतः तस्य कर्ता पुद्गल एव, न जीवः, परन्तु परम्परया नैमित्तिकभावापेक्षया, यतो हि जीवस्य रागदिभावानां निमित्तेन पुद्गलः कर्मरूपपरिणतः तस्मात्तस्य कर्ता जीवः इति। तथैव उपादानोपादेयभावापेक्षया रागादिनां कर्ता जीवः, परम्परया नैमित्तिकभावापेक्षया उदयावस्थामापन्नः रागादि-द्रव्य-कर्मेति।
जीव ‘आत्मा परपदार्थाणां कर्ता भोक्ता’ इति मत्वा परपदार्थानामिष्टनिष्टपरिणतौ हर्षविषादात्मकं परिणामं करोति, रागद्वेषञ्च करोति, तस्मात् स्वस्वभावे ज्ञातादृष्टारूपे स्थिरः भवितुं न शक्नोति। अतः परपदार्थेषु कर्तृत्व-भोक्तृत्वभुद्धिः न स्यात् तदर्थमेवाचार्येण जीवाजीवाधिकारादनन्तरम् आस्रवादितत्त्वानां विवेचनात् प्राक् कर्ताकर्माधिकारः उपस्थापित इति प्रतियते।
‘आत्मा कर्ता भोक्ता नास्ति’ इत्यस्य विपरितार्थं गृहीत्वा जनाः स्वच्छन्दाः न स्युः यतो हि अशुद्धनिश्चयनयेन रागादिभावानां कर्ता जीवः व्यवहारनयेन च कर्मणां कर्ता जीवः स्वीकृत एव।
अधिकारेस्मिनामृतचार्येण विविधनयपक्षानां विवेचनं कृत्वा तत्त्ववेदिनः नयपक्षातीताः सन्ति इत्यपि कथितम्। नयाः वस्तुस्वरूपावगमनाय साधनाः न तु साध्याः। पक्षातिक्रान्तावस्थायां व्यवहारनिश्चयनययोः विकल्पाः अस्तित्त्वहीनाः भवन्ति, प्रमाणमस्तं जायते, निक्षेपचक्राश्च विलीयन्ते। उक्तञ्च-
उदयति न नयश्रीरस्तमेति प्रमाणं
क्वचिदपि च न विद्मो याति निक्षेपचक्रम्।
किमपरमभिदध्मो धाम्नि सर्वङ्कषेऽस्मि
न्नुभवमुपयाते भाति न द्वैतमेव ॥
पुण्यपापाधिकारः –
संसारचक्रात् निष्क्रम्य मुमुक्षूणां कृते पुण्यप्रलोभनमुन्मार्गप्रवर्तक इवास्ति। तस्मादाचार्य आस्रवाधिकारात् प्रागेव जीवान् सचेतं करोति यत् भवन्तः मोक्षमहानगराभिलाषवः मार्गे पुण्यसदनं दृष्ट्वा तत्र स्थिताः मा स्युः। आचार्यः वदति यज्जनाः पुण्यं सुशीलं पापञ्च कुशीलं वदन्ति परन्तु तत्पुण्यं सुशीलं कथं भवेत् यज्जीवं संसारं रुणद्धि। बन्धनं तु बन्धनमेव, स्वर्णमयं वा भवेत् लौहमयं वा। यद्यात्मस्वभावस्य रुचिः स्यात् तर्हि पुण्यप्रलोभनस्य त्यागः दुर्लभः नास्ति। लोके दयादानव्रताचरणादयः भावाः पुण्यं, हिंसादयश्च भावाः पापमित्युच्यते। पुण्येन पुण्यप्रकृतिनां पापेन च पापप्रकृतिनां बन्धः भवति, तासां प्रकृतिनाञ्चोदयकाले जीवः सुखं दुःखं वानुभवति, परन्तु पुण्यपापप्रकृतयः जीवस्य बन्धनाय एव न तु मुक्तये। अतः पुण्यपापाभ्यामतिरिच्य तां तृतीयावस्थां प्राप्तये प्रयासः कर्तव्यः, यस्यामवस्थायां कर्मबन्धः न भवेत्। उक्तञ्च –
परमठ्ठबाहिरा जे अण्णाणेण पुण्णमिच्छंति।
संसारगमण हेदुं वि मोक्खहेउं अजाणंता॥
आत्मानुभवशून्यः जीव अज्ञानवशात् संसारगमनहेतुं पुण्यमिच्छन्ति, मोक्षकारणञ्च न जानातीति तत्पर्यः।
जीवाः मोक्षस्य वास्तविकं कारणमजानन्तः पुण्यस्यैवोपसनां कुर्वन्ति, पुण्यञ्च संसारहेतुरत्रोक्तं पुण्यस्यात्र निषेधः नास्ति, पुण्यं मोक्षगमनकारकमिति मिथ्यामान्यताया अत्र निषेधोऽस्ति। ज्ञानी जीवः भूमिकानुसारं पुण्याचरणमाचरति, तदनुरुपञ्च इन्द्रचक्रवर्तीत्यादिनां वैभवमप्याप्नोति, परन्तु तस्य श्रद्धायां निरन्तरमेतदेव भवति यत् एतत् पुण्यं मोक्षकारणं नास्ति, एतत् वैभवञ्च मम नास्ति। इदमत्रावधेयमं यत् यथा पापाचरणत्यागाय बुद्धिपूर्वकप्रयास आवश्यकः तथा पुण्याचरणत्यागाय प्रयासस्यावश्यकता न भवति तत् तु शुद्धोपयोगभूमिकायां प्रविष्टे सति स्वयमेव भवति।
जिनागमस्य कथनं सापेक्षः भवति अतः शुद्धोपयोगापेक्षया शुभोपयोगः त्याज्यः इत्युक्तम्, परन्तु अशुभोपयोगापेक्षया शुभोपयोग उपादेयः। शुद्धोपयोगस्थितेन जीवेन सन्मार्गः प्राप्तुं शक्यते, अशुभोपयोगस्थितेन तु कदापि सन्मार्ग-प्राप्तिः सम्भवा नास्ति। एतदापेक्षिक कथनं स्वीकृत्य कुन्दकुन्दाचर्येण मोक्षपाहुडग्रन्थे उक्तम्-
वर वयतवेहि सग्गो मा दुक्खं होउ णिरय इइयरेहि।
छायातववठ्ठियाणं पडिवालंताणं गुरुभेयं॥
एतमेवाभिप्रायं स्वीकृत्य पूज्यपादाचार्येणापि इष्टोपदेशग्रन्थे शुभोपयोगस्वरूप-व्रताचरणजनित-देवपदम् अशुभोपयोग-रूपपापाचरणजनितनारकपदापेक्षया प्रशंसितम्-
वरं व्रतैः पदं दैवं नाव्रतैव्रत नारकम्।
छायातपस्थयोर्भेदः प्रतिपालयतोर्महान्॥
अर्थात् व्रताचरणैः देवपदप्राप्तिः वरम्, परन्तु अव्रताचरणैः नारकपदप्राप्तिः न वरम्। यतोहि छायायामातपे च स्थित्वा प्रतीक्षमाणयोः पुरुषयोः महान् भेदोऽस्ति।
शुद्धोपयोगः सर्वथा उपादेयः, अशुभोपयोगश्च सर्वथा त्याज्य एव परन्तु शुभोपयोगः पात्रभेदापेक्षया हेयोपादेयरूपः वर्तते। कैश्चिदाचार्यैः सम्यग्दृष्टेः पुण्यं मोक्षकारणं, मिथ्यादृष्टेश्च पुण्यं बंधकारणमित्युक्तं, तेषां कथनमपि नयविवक्षया सुसङ्गतं प्रतीयते। वस्तुतत्त्वस्य यथार्थविश्लेषणेन ज्ञायते यत् सम्यग्दृष्टेः मोहस्यांशिकक्षयात् संजातांशिकनिर्मोहावस्था निर्जरायाः कारणम्, शेषः शुभरागश्च बंधस्य कारणमस्ति। बंधकारणानां सन्दर्भे आचार्यकुन्दकुन्दस्वामिनोक्तम्-
रत्तो बंधदि कम्मं मुंचदि जीवो विरागसंपत्तो।
ऐसो जिणोवएसो तम्हा कम्मेसु मा रज्ज॥
रागयुक्तः जीवः कर्म बध्नाति, विरागश्च मुञ्चति इति जिनोपदेशोऽस्ति, तस्मात् कर्मसु रागं मा कुरु।यद्यपि शुभरागः शुभकर्मबन्धहेतु अशुभरागः अशुभकर्मबन्धहेतुः, शुभरागात् शुभकर्मणां स्थित्यनुभागबन्धोऽधिकः भवति, अशुभरागत् अशुभकर्मणां स्थित्यनुभागबन्धोऽधिकः भवति प्रकृति-प्रदेशबन्धस्तु व्युच्छित्तिपर्यन्तं सर्वकर्मणां भवति, तथापि आचर्येणात्र उभयविधोऽपि रागः बन्धहेतुरिति प्रतिपादितः।
पुण्याधिकारः पञ्चाशदुत्तरैकशतगाथातः त्रिषष्ट्‍युत्तरैकशतगाथा-पर्यन्तमस्ति।
आस्रवाधिकारः –
द्विविधा जीवावस्था-एका संसारावस्था अन्या मुक्तावस्था। एतयोराद्यः अशुद्धत्वात् हेया, अपरा शुद्धत्वादुपादेया। संसारावस्थायाः कारणम् आस्रवः बन्धश्च। मुक्तावस्थायाः कारणं संवरः निर्जराश्च। आत्मनः यैः भावैः कर्मणागमनं भवति ते भावाः आस्रवाः, ते च चतुर्विधः – मिथ्यात्वाविरमण-कषाययोगाश्च। यद्यपि उमास्वामिना एतेभ्योऽधिकः प्रमादोऽपि स्वीकृतः परन्तु कुन्दकुन्दाचार्यः प्रमादं कषायान्तर्गते गणयति अतः चत्वारः हेतवः आस्रवस्य। पञ्चमगुणस्थानेऽविरमणस्याभावः वर्तते, षष्टगुणस्थानादारभ्य दशमगुणस्थान-पर्यन्तं कषाययोगकृतास्रवः एकादशतः त्रयोदशपर्यन्तं योगकृतास्रवः, चतुर्दशे च आस्रवाभावः विद्यते।
अधिकारोऽस्मिन् विशिष्टः विषयोऽयं विद्यते अत्रोक्तं यत् सम्यग्दृष्टेः जीवस्यास्रवबन्धौ न भवतः परन्तु करणानुयोगानुसारम् अविरतसम्यग्दृष्टितः आरभ्य त्रयोदशगुणस्थानपर्यन्तं क्रमशः ७७, ६७, ६३, ५९, ५८, २२, १७, १, १, १ एवं क्रमेण प्रकृतिनां बन्धः भवति। अत्र कुन्दकुन्दाचार्यस्य तात्पर्योऽयं यत् यथा मिथ्यात्वानन्तानुबन्धीकषायसद्भावे अनन्तसंसारहेतुः बन्धः भवति तथा बन्धः सम्यग्दृष्टेः नास्ति। वस्तुतः सम्यग्दृष्टिजीवस्य सम्यग्दर्शनरूपपरिणामैः बन्धः नास्ति, तस्य तु अप्रत्याख्यानावरणादि-कषायजनित बन्धोऽस्ति। सम्यग्दर्शनं तु साक्षात् मोक्ष्यस्य कारणं न तु संसारस्य, परन्तु तत्सद्भावे यः रागादिभावोऽस्ति सः एव बन्धकारणम्। यथाचोक्तममृतचन्द्रसूरिणा-
रागद्वेषविमोहानां ज्ञानिनो यदसम्भवः।
तत एव न बन्धोऽस्ति ते हि बन्धस्य कारणम्॥
यत्र जघन्यरत्नत्रयं बन्धकारणमित्युक्तं तत्रोपर्युक्तैव विवक्षा। रत्नत्रयं बन्धकारणमुपचारतः।
आस्रवाधिकारः चतुष्षष्ट्‍युत्तरैकशतगाथातः अशीत्युत्तरेकशत-गाथापर्यन्तमस्ति।
संवराधिकारः –
आस्रवनिरोधः संवरः, तस्मादास्रवानन्तरं संवराधिकारः उपन्यस्तः। यद्यप्यन्याचार्यैः गुप्ति-समिति-धर्मानुप्रेक्षा-परिषहजय-चारित्रञ्च संवर इत्युक्तम्, परन्त्वत्र कुन्दकुन्दाचार्यः भेदविज्ञानमेव संवरकारणरूपेण प्रस्तौति। तदनुसारं उपयोगः उपयोगे एव न क्रोधादिषु, क्रोधादिः क्रोधादिष्वेव नोपयोगे। कर्म-नोकर्मभ्यस्तु भिन्नः आत्मा स्पष्टमेव प्रतीयते तेभ्यो भेदविज्ञानं नातिदुर्लभः, विशिष्टतया तु भेदविज्ञानं तन्मयभावापन्नरागादिभावेभ्यः करणीयम्। अज्ञानीजीवः ज्ञानरागधारयोः भेदं न जानाति, अतः यं कमपि पदार्थं जानाति चेत् तत्र रागं द्वेषं वा करोति, ज्ञानीजीवः एतयोः भेदविज्ञः अतः सः पदार्थानां ज्ञाता द्रष्टा तु भवति परन्तु तत्र रागद्वेषादिकं न करोति। यथा च जीवः रागदिभावेभ्यो भिन्नमात्मानं पश्यति तथैव तज्जनितास्रवनिरोधः जायते, सः निरोध एव संवरः। फललाभाय पल्लवसिंचनैः लाभः नास्ति, मूलकारणं भेदविज्ञानाभावः, अतः भेदविज्ञानेन रागादिभ्यो भिन्नमात्मतत्त्वपरिज्ञानमेव रागादिनामभावस्योपायः। अस्य भेदिविज्ञानस्य प्रशंसां कुर्वनमृतचन्द्रसूरिणोक्तम् –
भेदविज्ञानतः सिद्धः सिद्धा ये किलकेचन।
अस्यैवाभावतो बद्धा बद्धा ये किल केचन॥
तावत् भेदविज्ञानभावना कर्तव्या यावत् ज्ञानं परपदार्थेभ्यः पृथक् भूत्वा ज्ञाने एव प्रतिष्ठितं न भवति। भेदविज्ञानस्य प्रयासः वस्तुतः चतुर्थगुणस्थानादारभ्य दशमगुणस्थानस्यान्तसमयं यावत् प्रचलति। तत्र सः जीवः ज्ञानराग-धारयोः भेदं ज्ञात्वा, स्वज्ञानं ज्ञाने प्रतिष्ठितं करोति, तदैव च तस्य रागादिजनितबन्धाभावः भवति। तत्र केवलं योगनिमित्तेन सातावेदनीयकर्मणामास्रवः भवति सोऽपि न साम्परायिकः, ईर्यापथास्रवः एव तत्र भवति, तत्रापि स्थित्यनुभागबन्धः नास्ति केवलं प्रकृतिप्रदेशबन्धः। अन्तर्मुहुर्तान्तरञ्च एतादृशः जीवः कैवल्यमाप्नोति। 
संवराधिकारः एकादशीत्युत्तरैकशतगाथातः द्विनवत्युत्तरैकशतगाथापर्यन्तमस्ति।
निर्जराधिकारः –
तादृशी निर्जरा कल्याणप्रदा नास्ति यतो हि यावन्तः परमाणवः निर्जरिताः भवन्ति तवन्तः एव आस्रवपूर्वकं पुनः बन्धं प्राप्नुवन्ति। यदा परमाणवः निर्जरिताः तु भवन्ति परन्तु तत्समये आस्रव-बन्धौ न भवतः तदैव निर्जरा फलीभूतोच्यते। एतदेव कारणं यत् कुन्दकुन्दाचार्येण संवरानन्तरं निर्जराधिकारः उपन्यस्तः संवराभावे निर्जरा साफल्यं न प्राप्नोति। निर्जराधिकारे उक्तम् –
उवभोगमिंदियेहिं दत्वामचेदणाणमिदराणं।
जं कुणदि सम्मदिठ्ठी तं सव्वं णिज्जरणिमित्तं॥
सम्यग्दृष्टिजीवेन इन्द्रियैः चेतनाचेतनपदार्थनामुपभोगः क्रियते सः उपभोगः निर्जरानिमित्तं भवति। अहो! आश्चर्यमेतत्, सम्यग्दृष्टिजीवस्य पूर्वबद्धकर्मणामुदयजनितोपभोगः भवति परन्तु तेन नूतनः बन्धः न भवति, पूर्वबद्धकर्माणि फलानि प्रदाय निर्जरिनि भवन्ति। सम्यग्दृष्टिजीवः कर्मफलानां ज्ञाता द्रष्टा तु भवति परन्तु भोक्ता न भवति, भोक्ता तु सः केवलं स्वज्ञायकस्वभावस्यैव, तस्मादेव तस्य प्रवृत्तिः निर्जराकारणम्।
सम्यग्दृष्टेः ज्ञानवैराग्ययोरद्भुतसामर्थ्यं भवति। ज्ञानसामर्थ्यस्य महिमानं वर्णयन् कुन्दकुन्दाचार्यः कथयति यत् यथा विषं भुञ्जानोऽपि वैद्यः मरणमपन्नः न भवति तथैव पुद्गलकर्मणामुदयं भुञ्जानोऽपि ज्ञानी बन्धं न प्राप्नोति। वैराग्यसामर्थ्यं वर्णयन् आचार्येणोक्तं यत् यथा अरतिभावेन मद्यं सेव्यमानोऽपि पुरुषः मत्तः न भवति तथैव अरतिभावेन कर्मणामुदयं सेव्यमानोऽपि ज्ञानी बन्धं न करोति। एतादृशी महिमास्ति ज्ञानवैराग्ययोः यत् तयोः सत्योः केवलं निर्जरा भवति। नास्रवः, न च बन्धः। ग्रन्थान्तरेषु एतस्य कारणं तपश्चरणमित्युक्तं परन्तु कुन्दकुन्दस्वामिना ज्ञानवैराग्ययोः प्राधान्यमुक्तं याभ्याञ्च तपश्चरणं सम्यक् तपश्चरणसंज्ञा प्राप्नोति। ज्ञानवैराग्यहीनं तपश्चरणं निर्जराकारणं न भवति अपितु शुभबन्धकारणं भवति। ज्ञानवैराग्यं विना तपश्चरणमात्रेण जीवः ग्रैवेयकपर्यन्तमपि गच्छति परन्तु संसारभ्रमणनाशः कर्तुं न प्रभवति।
इदानीं प्रश्नः यत् किं सम्यग्दृष्टेः निर्जरैव भवति उत बन्धोऽपि भवति? करणानुयोगानुसारं सम्यग्दृष्टिविरतानन्तापियोजक- दर्शनमोहक्षपकोपशमशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशो-ऽसङ्खेयगुणनिर्जराः – इत्थं गुणश्रेणीनिर्जरायाः दशस्थानानि उक्तानि। अत्र उत्तरोत्तरवृद्धिङ्गता निर्जरा भवति। सम्यग्दृष्टेः निर्जरा बन्धश्चोभयं भवतः। निर्जराकारणैः निर्जरा बन्धकारणैः बन्धः भवति बन्धाभावात् यत्र केवलं निर्जरैव भवति एतादृशं स्थानं तु केवलं चतुर्दशं गुणस्थानमस्ति। ततः पूर्वं चतुर्थ गुणस्थानादारभ्य त्रयोदशं गुणस्थानं यावत् उभयं भवतः परन्तु तत्र उत्तरोत्तरगुणस्थाने निर्जरायाः अधिकता बन्धस्य च न्यूनतास्ति इति विशेषः। सम्यग्दृष्टेः ज्ञानवैराग्यशक्त्योः प्राधान्यात् बन्धकारणानाञ्चामुख्यतत्त्वात् तस्य निर्जरा भवति बन्धः न भवति इति कथनं क्रियते। अधिकारेऽस्मिन् सम्यग्दर्शनस्य अष्टाङ्गानां विशदवर्णनं विद्यते।
एषः अधिकारः त्रिनवत्युत्तरैकशतगाथातः षड्त्रिंशदुत्तर-द्विशतगाथापर्यन्तमस्ति।
बन्धाधिकारः –
आत्मा पौद्गलिकं कर्म चोभयमपि स्वतन्त्रं, उभयोश्च मध्ये चेतनाचेतनापेक्षया महान् भेदोऽपि वर्तते। तथाप्युभयोरनादितः संयोगोऽस्ति। यथायस्कान्तः लोहमाकर्षति, लोहञ्चायस्कान्तमाकर्षति, तथैवात्मनि कर्मपुद्गलान् कर्मपुद्गलेषु चात्मानमाकर्षयितुं योग्यतास्ति। अस्याः योग्यतायाः कारणात् उभयोः एकक्षेत्रावगाहसम्बन्धः भवति तदेव बन्धः इत्युच्यते। अस्य बन्धस्य प्रमुखकारणत्वेन रागः एवाचर्येण प्रतिपादितः। सः वदति यत् – यथा रेणुबहुलस्थले कोऽपि मनुष्यः तैलमर्दनं कृत्वा व्यायमं करोति, विविधास्त्रैः तमालादिवृक्षाणां छेदनं भेदनं करोति तर्हि सः स्नेहवशात् रेणुयुक्तः भवति, तथैवात्मा इन्द्रियविषयेषु व्यापारं करोति, तस्मात् कर्मरेणुः तेनात्मना सम्बद्धा भवति, तस्य कारणमात्मनि स्थितः स्नेहः अर्थात् रागः विद्यते। एषः रागभावः जीवस्य स्वभावः नास्ति, विभावः अस्ति, सोऽपि द्रव्यकर्मणामुदया- वस्थावशादुत्पन्नोऽस्ति।
आस्रवाधिकारे ये मिथ्यात्वादयः आस्रवप्रत्यया इत्युक्ताः ते एवात्र बन्धप्रत्ययाः। तेषाञ्च संक्षेपेण रागद्वेषं अध्यवसानं वा इति नाम वर्तते। एतेषामध्यवसानभावानामभावे सति शुभाशुभकर्मणां बन्धोऽपि न भवति। यथोक्तम्
एदाणि णत्थि जेसिं अज्झवसाणाणि एवमादीणि।
ते असुहेण सुहेण व कम्मेण पुणो ण लिंपति॥
अहं कञ्चिद् हिनस्मि, कश्चित् मां हिनस्ति। अहमन्यान् जीवामि, अन्ये मां जीवन्ति। अहमन्यस्य सुखं दुःखञ्च करोमि, अन्ये मम सुखं सुःखञ्च कुर्वन्ति – एते सर्वे भावाः अध्यवसानभावाः सन्ति, मिथ्यादृष्टिः अध्यवसानभावान् कृत्वा कर्मबन्धं करोति, सम्यग्दृष्टिश्च एतान् परित्यजति। सम्यग्दृष्टिः बन्धस्य वास्तविककारणान् एतान् अध्यवसानभावान् जानाति अतः तान् परित्यज्य निर्बन्धावस्थां प्राप्नोति मिथ्यादृष्टिश्च एतान् न जानाति तस्मात् कोटिवर्षाणि तपश्चरणं कुर्वन्नपि ‘धम्मं भोगणिमित्तं ण दु सो कम्मक्खयणिमित्तं’ अर्थात् धर्म भोगनिमित्तं न तु कर्मक्षयनिमित्तमित्यानुसारं निष्फलारम्भमेव करोति।
केचनजीवाः वदन्ति यत् आत्मनि रागादयः स्वयमेव भवन्ति, तत्र द्रव्यकर्मणामुदयः निमित्तं नास्ति, ते बन्धाधिकारस्य एताः गाथाः पठेयुः – 
जह फलिहमणी सुद्धो ण सयं परिणमइ रायमाईहिं।
रंगिज्जइ अण्णेहिं दु सो रत्तादीहिं दव्वेहिं ॥
एवं णाणी सुद्धो ण सयं परिणमइ रायमाईहिं।
राइज्जइ अण्णेहिं दु सो रागादीहिं दोसेहिं ॥
यथा शुद्धोऽपि स्फटिकमणिः स्वयं रागरूपेण(लालिमारूपेण) न परिणमति परन्तु रागादिद्रव्यैः तथा परिणमति, तथैव ज्ञानी जीवः शुद्धोऽपि स्वयं रागादिविभावरूपं न परिणमति परन्तु द्रव्यकर्मोदयजनितरागादिविकारैः रागादिविभावरूपेण परिणमति।
अमृतचन्द्राचार्येणापि उक्तभावः प्रकटितः-
न जातु रागादिनिमित्तभावमात्मात्मनो याति यथार्ककान्तः।
तस्मिन्निमित्तं परसङ्ग एव वस्तुस्वभावोऽयमुदेति तावत्।।
ज्ञानी जीवः स्वभावविभावयोः भेदमवगच्छति, सः स्वभावमकारणं विभावञ्च सकारणं मन्यते, स्वभावे स्वबुद्धिः विभावे च परबुद्धिः स्थापयति तस्मादेव सः बन्धनमुक्तः जायते।
एषः अधिकारः सप्तत्रिंशदुत्तर-द्विशतगाथातः सप्तशीत्युत्तरद्विशतगाथापर्यन्तं प्रचलति।
मोक्षाधिकारः –
आत्मनः सर्वकर्मरहितावस्था मोक्षः। मोक्षशद्बेन पूर्ववर्तीबद्धावस्था सूच्यते। अधिकारेऽस्मिन् मोक्षप्राप्त्युपायानां वर्णनमस्ति। आचार्यः लिखति- यथा चिरकालात् बद्धः कश्चित् मनुष्यः बन्धनस्य तीव्रमन्दमध्यमस्वभावं जानाति बन्धनस्य कारणमपि जानाति परन्तु यदि बन्धनछेदनाय प्रयासः न करोति तर्हि बन्धनमुक्तः न भवति तथैव चिरकालबद्धः जीवः बन्धनस्य प्रकृतिप्रदेशस्थित्यनुभागञ्च जानाति परन्तु बन्धनं छेत्तुं पुरुषार्थं न करोति चेत् बन्धनमुक्तः न भवति।
कुन्दकुन्दाचार्यः विषयेऽस्मिन् महाव्रताचरणरूपसम्यक्‍चारित्रस्य महत्वमुपस्थापयन् वदति यत् जीव! कर्मबन्धबद्धोऽस्मीति श्रद्धानं तेऽस्ति, बन्धनकारणानपि जानासि परन्तु केवलं श्रद्धा ज्ञानं वा मुक्तये न प्रभवति, मुक्तिस्तु यथार्थश्रद्धया ज्ञानेन च सह सम्यक्‍चारित्ररूपपुरुषार्थेन भवति। पुरुषार्थ कर्तुञ्च आत्मनः बन्धस्य च ज्ञानमावश्यकं, कुन्दकुन्दाचार्येणोक्तम्-
जीवो बंधो य तहा छिज्जंति सलक्खणेहिं णियएहिं।
बंधो छेएदव्वो सुद्धो अप्पा य घेत्तव्वो॥
स्वस्वलक्षणैः जीवः बन्धश्च ज्ञायन्ते, तत्र बन्धः छेतव्यः जीवश्च ग्राह्य अस्ति।
आत्मा कथं गृहितव्यः इत्यस्योपायोऽपि आचार्यः वदति-
कह सो घिप्पइ अप्पा पण्णाए सो उ घिप्पए अप्पा।
जह पण्णाइ विहत्तो तह पण्णा एव घित्तव्वो॥
आत्मा भेदज्ञानेन गृहीतव्यः यथा भेदज्ञानेन विभक्तः तथैव भेदज्ञानरूपी प्रज्ञया गृहीतव्यः। 
पण्णाए घित्तव्वो जो चेदा सो अहं तु णिच्छयदो।
अवसेसा जे भावा ते मज्झ परेत्ति णायव्वा॥
प्रज्ञया गृहीतव्यः चिद्रूपोऽहम्, अन्ये सर्वे परभावाः इति तात्पर्यः।
एवं स्वपरभेदविज्ञानयुक्तं चारित्रं मोक्षप्राप्तये वास्तविकं पुरुषार्थः। मोहक्षोभरहितः आत्मपरिणतिः चारित्रमस्ति। व्रत-समिति-गुप्तीत्यादयः यथार्थ-चारित्रस्य प्राप्तौ सहायकत्वात् चारित्रमित्युच्यते।
अष्टाशीत्युत्तरद्विशतगाथातः सप्तोत्तरत्रिशतगाथापर्यन्तमेषः अधिकारः प्रचलति।
सर्वविशुद्धज्ञानाधिकारः –
आत्मनः अनन्तगुणेषु ज्ञानमेव प्रमुखम्। ज्ञाने कथमपि विकारः शेषः न स्यात् तदर्थ पूर्वोक्ताधिकारेषु उक्तानुक्तानां पुनः विचारं कृत्वा सर्वथा निर्दुष्टं ज्ञानं प्रदर्शयितुमधिकारोऽयमारब्धः।
प्रत्येकमपि द्रव्यं स्वगुणपर्यायैः परिणमति, न त्वन्यद्रव्यरूपेण, तस्मात् तत् परद्रव्यस्य कर्ता न भवति स्वगुणपर्यायाणामेव कर्ता भवति। तस्मादात्मा परद्रव्यकर्तृत्वरहितोऽस्ति। कर्मणां कर्ता पुद्गलद्रव्यः यतो हि ज्ञानावरणादिरूपपरिणमनं पुद्गलद्रव्येषु भवति, तथैव रागादिनां कर्ता अत्मैव, न तु परद्रव्यम्, यतो हि रागादिरूप- परिणमनमात्मा करोति। निमित्तप्रधानदृष्टिमधिकृत्य पूर्वं पुद्गलजन्यत्वात् रागः पौद्गलिकः इत्युक्तः, अत्रोपादानदृष्टिप्रधानं कथनमस्ति। अमृतचन्द्राचर्येण तु एतावदुक्तं यत् ये जनाः रागादिनमुत्पतौ परद्रव्यं निमित्तत्वेनाङ्गिकुर्वन्ति ते शुद्धबोधविधुराधबुद्धि मोहनदीं न तरन्ति-
रागजन्मनि निमित्ततां परद्रव्यमेव कलयन्ति ये तु ते।
उत्तरन्ति न हि मोहवाहिनीं शुद्धबोधविधुरान्धबुद्धयः ॥
केचन श्लोकमिमं स्वीकृत्य स्वयैकान्तमतं समर्थयितुं अस्यावतरणं कुर्वन्ति, ते श्लोकस्थं एव शब्दं न पश्यन्ति। आचर्येण स्पष्टतयोक्तं यत् ये जीवाः रागोत्पत्तौ परद्रव्यमेव निमित्तं स्वीकरोति, स्वद्रव्यं न मन्यते ते मोहवाहिनीं नोत्तरन्ति। रागादीनामुत्पतौ परद्रव्यं निमित्तकारणं स्वद्रव्यञ्चोपादानकारणम्। ये पुरुषाः स्वद्रव्यरूपोपादानकारणमस्वीकुर्वन्तः मात्रं परद्रव्यमेव मुख्यतया कारणं मन्यन्ते ते मोहनदीं नोत्तरन्ति इति भावः। यद्यपि निमित्तं स्वयं कार्यरूपेण न परिणमति परन्तु कार्योत्पत्तिः भवति, इति जिनागमस्य सनातन-मान्यतास्ति। अत्रावधेयमस्ति यत् येन कर्मणा यस्यान्वयव्यत्तिरेकौ भवतः तदेव निमित्तशब्देनाभिधीयते।
आत्मा कर्मणां कर्ता नास्तीति उक्‍त्वा कर्मचेतनारहितं जीवः सिद्धं कृतम्, तथैव ज्ञानी जीवः स्वज्ञायकस्वभावस्यैव भोक्ता, कर्मफलस्य भोक्ता नास्ति इत्युक्त्वा कर्मफलचेतनारहितं जीवमिति सिद्धं कृतम्। ज्ञानी तु केवलं ज्ञानचेतनासंयुक्तोऽस्ति, तत्रैव तस्य स्वबुद्धिः भवति।
अधिकारान्ते कुन्दकुन्दस्वामिः कथयति यत् केचन जनाः मुनिलिङ्गमथवा गृहस्थानां नानालिङ्गान् मोक्षमार्गमित्युक्त्वा लिङ्गं धारयितुं प्रेरयन्ति, परन्तु लिङ्गः मोक्षमार्गः नास्ति मोक्षमार्गस्तु रत्नत्रयात्मकोऽस्ति अत एव- 
मोक्खपहे अप्पाणं ठवेहि तं चेव झाहि तं चेया।
तत्थेव विहर णिच्चं मा विहरसु अण्णदव्वेसु ॥
मोक्षमार्गे आत्मानं योजयेत्, तस्यैव ध्यानं कुरु, तस्यैव चिन्तनं कुरु, तस्मिन्नेव च् विहारं कुरु, अन्यत्र कुत्रापि मा विहर।
अस्यार्थोऽयं नास्ति यत् कुन्दकुन्दस्वामिना मुनिलिङ्गस्य श्रावकलिङ्गस्य वा निषेधो कृतः, यथा च कुन्दकुन्दाचर्येणापि नयविवक्षा स्पष्टिकृता-
ववहारिओ पुण णओ दोण्णि वि लिंगाणि भणइ मोक्खपहे।
णिच्छयणओ ण इच्छह मोक्खपहे सव्वलिंगाणि॥
अर्थात् व्यवहारनयः द्वयमपि लिङ्गं मोक्षमार्गः प्रतिपादयति परन्तु निश्चयनयः मोक्षमार्गे कमपि लिङ्गं न स्विकरोति।
एवं विवादयोग्यस्थलानि कुन्दकुन्दाचार्यः स्वयमेव स्पष्टानि करोति। जिनागमः नयविवक्षानुसारोऽस्ति व्याख्यानसमये वक्ता यदि स्वविवक्षां स्पष्टां कुर्यात् श्रोता च विवक्षानुसारमवगच्छेत् तर्हि विसंवादायावकाशोऽपि नास्ति।
अधिकारोऽयम् अष्टोत्तरत्रिशतगाथातः पञ्चदशोत्तरचतुश्शत- गाथापर्यन्तं प्रचलति।
स्याद्वादाधिकारः उपायोपेयभावाधिकारश्च-
एतावधिकारावमृतचन्द्राचार्येणात्मख्यातिटीकायाः अङ्गरूपेण लिखितौ। एतत्तु स्पष्टमेव यत् समयप्राभृतम् अध्यात्मग्रन्थः वर्तते। अध्यात्मग्रन्थानां वस्तुतत्त्वं साक्षादात्मवस्तुनः सम्बद्धः भवति तस्मात् तस्य कथनेषु निश्चयनयस्य प्राधान्यं दृश्यते, परपदार्थसम्बद्धव्यवहारनयस्य गौणतात्र भवति। ये श्रोतारः पाठकाः वा उभयोः मुख्यगौणभावं न जानन्ति ते भ्रमिताः जायन्ते। तेषां भ्रमस्य निराकरणं कर्तुम् अमृतचन्द्राचार्येण एतावाधिकारावतरितौ।
स्याद्वादाधिकारे तेन स्यद्वादवाच्यभूतानेकान्तस्य समर्थनाय तदतत् सदसत्, एकानेक, नित्यानित्य, इत्यादिभिः नयैरात्मतत्त्वस्य निरूपणं कृतम्। अन्ते च श्लोकैरयैव समर्थनं कृतम्। अमृतचन्द्राचार्यः अनेकान्तं परमागमस्यप्राणं समस्तनयविरोधविध्वंसकमिति स्वीकरोति। यथा च तेन पुरुषार्थसिद्ध्‍युपायग्रन्थस्य मङ्गलाचरणे उक्तम् –
परमागमस्य जीवं निषिद्धजात्यन्धसिन्धुरविधानम्।
सकलनयविलसितानां विरोधमथनं नमाम्यनेकान्तम्॥
आत्मख्यातिटीकायाः आरम्भेऽपि एषः भावः तेन व्यक्तः –
अनन्तधर्मणस्तत्वं पश्यन्ती प्रत्यगात्मनः।
अनेकान्तमयी मूर्तिनित्यमेव प्रकाशताम्॥
अस्मिन्नधिकारे तेन जीवत्वादिसप्तचत्वारिंशद्‌-शक्तीनां व्याख्यानं कृतं, यत् नयविवक्षां विना सिद्धं न भवति।
उपायोपेयाधिकारे उपायोपायभावविषयकव्याख्यायाः सारोऽत्र प्रस्तूयते-
प्राप्यं वस्तु येन प्राप्यते सः उपायः, उपायेन च यत् वस्तु प्राप्यते तत् वस्तु उपेयः। आत्मा यद्यपि ज्ञानमात्रं विद्यते तथापि तस्मिन् उपायोपेयभावः विद्यमानोऽस्ति। यतो हि एकस्मिन्नपि आत्मवस्तुनि साधक- सिद्ध भेधाभ्यां द्विधा परिणामः दृश्यते अर्थात् आत्मैव साधक आत्मैव सिद्धः। तयोः द्वयोः परिणामयोः यः साधकः स उपायः यश्च सिद्धः सः उपेयः। अनादितः एषः जीवः मिथ्यादर्शन-ज्ञान-चारित्रवशात् संसारभ्रमणं कुर्वन्नस्ति। यावदेषः व्यवहाररत्नत्रयमङ्गीकृत्य अनुक्रमेण स्वरूपानुभवस्य वृद्धिं कुर्वन् निश्चयरत्नत्रयस्य पूर्णतां प्राप्नोति तावत् साधकभावः, निश्चयरत्नत्रयस्य च पूर्णतया समस्तकर्मक्षयात् मोक्षः भवति, सः सिद्धभावः। एतदुभयमपि परिणामं ज्ञानमेव तस्मात् ज्ञानमेवोपायः ज्ञानमेवोपेय इति। गुणप्रधानतया कथनमेतत्।
समयसारस्य संस्कृतटीकाग्रन्था:-
  समयसारमधिकृत्य लिखिताः निम्नलिखिताः संस्कृतटीकाग्रन्थाः इदानीं यावत् प्राप्ता: सन्ति:-
आत्मख्याति टीका आचार्य: अमृतचन्द्रन्द्रः
समयसार-कलश - टीका आचार्य: अमृतचन्द्रः
तात्पर्यवृत्तिः जयसेनाचार्यः
अध्यात्मतरंगिनि शुभचन्द्रः
समयसार- टीका देवेन्द्रकीर्ति
कलश-टीका नित्यविजय

Comments

Popular posts from this blog

जैन ग्रंथों का अनुयोग विभाग

जैन धर्म में शास्त्रो की कथन पद्धति को अनुयोग कहते हैं।  जैनागम चार भागों में विभक्त है, जिन्हें चार अनुयोग कहते हैं - प्रथमानुयोग, करणानुयोग, चरणानुयोग और द्रव्यानुयोग।  इन चारों में क्रम से कथाएँ व पुराण, कर्म सिद्धान्त व लोक विभाग, जीव का आचार-विचार और चेतनाचेतन द्रव्यों का स्वरूप व तत्त्वों का निर्देश है।  इसके अतिरिक्त वस्तु का कथन करने में जिन अधिकारों की आवश्यकता होती है उन्हें अनुयोगद्वार कहते हैं। प्रथमानुयोग : इसमें संयोगाधीन कथन की मुख्यता होती है। इसमें ६३ शलाका पुरूषों का चरित्र, उनकी जीवनी तथा महापुरुषों की कथाएं होती हैं इसको पढ़ने से समता आती है |  इस अनुयोग के अंतर्गत पद्म पुराण,आदिपुराण आदि कथा ग्रंथ आते हैं ।पद्मपुराण में वीतरागी भगवान राम की कथा के माध्यम से धर्म की प्रेरणा दी गयी है । आदि पुराण में तीर्थंकर आदिनाथ के चरित्र के माध्यम से धर्म सिखलाया गया है । करणानुयोग: इसमें गणितीय तथा सूक्ष्म कथन की मुख्यता होती है। इसकी विषय वस्तु ३ लोक तथा कर्म व्यवस्था है। इसको पढ़ने से संवेग और वैराग्य  प्रकट होता है। आचार्य यति वृषभ द्वारा रचित तिलोयपन...

णमोकार महामंत्र के 9 रोचक तथ्य

9 अप्रैल 2025 विश्व नवकार सामूहिक मंत्रोच्चार पर विशेष – *णमोकार महामंत्र के 9 रोचक तथ्य* डॉ.रूचि अनेकांत जैन प्राकृत विद्या भवन ,नई दिल्ली १.   यह अनादि और अनिधन शाश्वत महामन्त्र है  ।यह सनातन है तथा श्रुति परंपरा में यह हमेशा से रहा है । २.    यह महामंत्र प्राकृत भाषा में रचित है। इसमें कुल पांच पद,पैतीस अक्षर,अन्ठावन मात्राएँ,तीस व्यंजन और चौतीस स्वर हैं । ३.   लिखित रूप में इसका सर्वप्रथम उल्लेख सम्राट खारवेल के भुवनेश्वर (उड़ीसा)स्थित सबसे बड़े शिलालेख में मिलता है ।   ४.   लिखित आगम रूप से सर्वप्रथम इसका उल्लेख  षटखंडागम,भगवती,कल्पसूत्र एवं प्रतिक्रमण पाठ में मिलता है ५.   यह निष्काम मन्त्र है  ।  इसमें किसी चीज की कामना या याचना नहीं है  । अन्य सभी मन्त्रों का यह जनक मन्त्र है  । इसका जाप  9 बार ,108 बार या बिना गिने अनगिनत बार किया जा सकता है । ६.   इस मन्त्र में व्यक्ति पूजा नहीं है  । इसमें गुणों और उसके आधार पर उस पद पर आसीन शुद्धात्माओं को नमन किया गया है...

सम्यक ज्ञान का स्वरूप

*सम्यक ज्ञान का स्वरूप*  मोक्ष मार्ग में सम्यक ज्ञान का बहुत महत्व है । अज्ञान एक बहुत बड़ा दोष है तथा कर्म बंधन का कारण है । अतः अज्ञान को दूर करके सम्यक ज्ञान प्राप्त करने का पूर्ण प्रयास करना चाहिए । परिभाषा -  जो पदार्थ जैसा है, उसे वैसे को वैसा ही जानना, न कम जानना,न अधिक जानना और न विपरीत जानना - जो ऍसा बोध कराता है,वह सम्यक ज्ञान है । ज्ञान जीव का एक विशेष गुण है जो स्‍व व पर दोनों को जानने में समर्थ है। वह पा̐च प्रकार का है–मति, श्रुत, अवधि, मन:पर्यय व केवलज्ञान। अनादि काल से मोहमिश्रित होने के कारण यह स्‍व व पर में भेद नहीं देख पाता। शरीर आदि पर पदार्थों को ही निजस्‍वरूप मानता है, इसी से मिथ्‍याज्ञान या अज्ञान नाम पाता है। जब सम्‍यक्‍त्व के प्रभाव से परपदार्थों से भिन्न निज स्‍वरूप को जानने लगता है तब भेदज्ञान नाम पाता है। वही सम्‍यग्‍ज्ञान है। ज्ञान वास्‍तव में सम्‍यक् मिथ्‍या नहीं होता, परन्‍तु सम्‍यक्‍त्‍व या मिथ्‍यात्‍व के सहकारीपने से सम्‍यक् मिथ्‍या नाम पाता है। सम्‍यग्‍ज्ञान ही श्रेयोमार्ग की सिद्धि करने में समर्थ होने के कारण जीव को इष्ट है। जीव का अपना प्रतिभ...