प्रवचनसारस्य दार्शनिकवैशिष्ट्य म् (First proof ) (नवदेहलीस्थश्रीलालबहादुरशास्त्रिराष्ट्रीयसंस्कृतविश्वविद्यालयस्य जैनदर्शनविभागेन प्रदत्तं पाठ्यसामग्री - प्रो अनेकांत ) दर्शनजगति आचार्यकुंदकुंदविरचितप्रवचनसारस्य महत्त्वपूर्णम् स्थानं वर्तते ।आद्य टीकाकारामृतचन्द्राचार्यानुसारं ग्रन्थेऽस्मिन् पञ्चसप्तत्युत्तर-द्विशतगाथाः सन्ति, तथा चायं ज्ञानाधिकारः ज्ञेयाधिकारः, चारित्रधिकारश्च इति त्रिषु स्कन्धेषु विभक्तोऽस्ति। प्रथमस्कन्धे द्विनवतिगाथाः, द्वितीये अष्टोत्तरैकशतगाथाः, तृतीये पञ्चसप्ततिगाथाः सन्ति। द्वितीयः टिकाकारः श्रीजयसेनाचार्यानुसारं ग्रन्थेऽस्मिन् एकादशोत्तर-त्रिशतगाथाः सन्ति, तत्र प्रथमे स्कन्धे एकाधिकैकशत-गाथाः, द्वितीये द्वादशाधिकैकशतगाथाः, तृतीये च सप्तनवतिगाथाः सन्ति। अत्र प्रतिपादिताः विषयाः संक्षेपेण प्रस्तूयन्ते – ज्ञानाधिकारः – चारित्रं द्विविधं सरागचारि...