Skip to main content

आचार्यकुंदकुंदस्य दार्शनिकमवदानम्

आचार्यकुंदकुंदस्य दार्शनिकमवदानम्
(First proof )

 (नवदेहलीस्थश्रीलालबहादुरशास्त्रिराष्ट्रीयसंस्कृतविश्वविद्यालयस्य जैनदर्शनविभागेन प्रदत्तं पाठ्यसामग्री - प्रो अनेकांत )

सर्वमान्यं निर्विवादञ्च तथ्यमिदं यत् जैनाचार्यपरंपरायां कुंदकुंदाचार्यः स्वकीयं महत्वपूर्णं स्थानं भजते। तस्य महत्त्वस्य गौरवस्याचार्यपरम्परायाञ्च तस्य स्थानस्यानुमानम्
 एकेनातिप्रसिद्धश्लोकेन कर्त्तुं शक्यते, सश्च-
 
मंगलं भगवान् वीरो मंगलं गौतमो गणी।
मंगलं कुन्दकुन्दार्यो जैनधर्मोऽस्तु मंगलम्।।

अर्थात् भगवान् महावीरः मङ्गलस्वरूपः, गौतमगणधरः मङ्गलस्वरूपः, कुन्दकुन्दाचार्यः मङ्गलस्वरूपः, जैनधर्मश्च मङ्गलस्वरूपः वर्तते।

उपर्युक्तश्लोके भगवतः महावीरत् गौतमगणधराच्चानन्तरं कुन्दकुन्दाचार्यस्य स्थानमस्ति येन सूच्यते यत् जैनाचार्येषु कुन्दकुन्दाचार्यस्य स्थानं सर्वोपरि विद्यते।
दक्षिण-देशेभ्य: प्राप्तेषु शिलालेखेषु 'कुन्दकुन्दान्वयः' इत्युल्लेख: प्राप्यते, यश्च सूचयति यत् जैनपरम्पराया: आचार्या: आत्मानं कुन्दकुन्दाचार्यस्य परम्परायां गणयंतः गौरवमनुभवन्ति स्म।
कुन्दकुन्दाचार्य-विरचितस्य नियमसार-ग्रंथस्य टीकाकारः कुन्दकुन्दाचार्यस्य प्रशस्तिं लिखन् कविवर-वृन्दावनदास: लिखति यत् कुन्दकुन्द-सदृश: अन्यः  कश्चित् भूत-भविष्यद्-वर्तमानकालेषु नाभवत्, नास्ति, न च भविष्यति।

आचार्यपरम्परायां यावत् सम्मानं श्रद्धा च कुन्दकुन्दाचार्यस्य विषये दृश्यते न तावदन्येषामाचार्याणाम्। कथमेतावत् महत्त्वं कुन्दकुन्दाचार्यस्य इति ज्ञातुमस्माभिः तस्य जीवनस्य सहित्यस्य चानुशीलनं कर्त्तव्यम्।

कुन्दकुन्दाचार्यस्य जन्मस्थानं-

इन्द्रनन्द्याचार्येणोक्तं यत् पद्मनन्दि: कुंडकुन्दपुर-वास्तव्यः आसीत्, तस्मादेव श्रवणबेलगोलायाः बहुषु शिलालेखेषु तस्य 'कांडकुंद' नाम्ना उल्लेख: प्राप्यते। श्री पी.बी. देशाई-महोदयेन कुन्दकुन्दाचार्यस्य जन्मस्थान-विषये लिखितं यत् गुटकन' इति रेलस्थानकात् कोशद्वयपरिमितं दूरं 'कोनकुंडन' इति नामकं स्थानम् अनन्तपुर-मंडलस्य 'गुटि' इत्युपमंडले स्थितमस्ति। शिलालेखे तस्य प्राचीनं नाम 'काडकुदै' इति प्राप्यते। अत्रत्या: जना: अद्यापि स्थानमिदं 'कांडकुदि' इति वदन्ति। कन्नडभाषायां 'कुण्ड' 'कोण्ड' च  इत्यनयोः शब्दयो: अर्थः पर्वत: इति भवति। परंतु शब्दोऽयं यदि कस्यचित् स्थानस्य नाम्ना सम्बद्ध: भवति चेत् तदा तस्य अर्थ: 'पर्वते तत्समीपे स्थित: वेति भवति। एषः अर्थः प्रकृत-स्थानस्य सन्दर्भे उपयुक्तः वर्तते। इदानीमपि एषः ग्राम: एकस्य पर्वतस्यात्यंत-समीप एव स्थितोऽस्ति। श्री पी.बीदेशाई-महोदयः स्वयमेतत्स्थानं गत्वा शोधं कृतवान्।
देशाई-महोदयः लिखति यत् प्राचीनतायाः दृष्ट्या स्थानस्यास्य महत्त्वमनुपममस्ति। इत: नैके शिलालेखा: प्राप्ता:। एकः शिलालेख: भग्नः अस्ति।  तृतीयपङ्क्तितः आरभ्य दशमपङ्क्तिपर्यन्तं स्थानास्यास्य वर्णनमस्तीति प्रतीयते। अस्मिन् शिलालेखे पद्मनन्दिः इति नाम वारद्वयमुल्लीखितं, येन सम्बद्धश्च 'चारण' इति शब्द: विशेषतामुद्वहति यतो हि अनेनैव शब्देन कुन्दकुन्दाचार्यस्य ग्रहणं भवति। अनन्तरं 'कुन्दकुन्दान्वय' इत्यस्यापि उल्लेख: अस्ति, श्रीदेशाई-महोदयानुसारमेतदेव कुन्दकुन्दाचार्यस्य जन्मस्थानमस्ति।

कुन्दकुन्दाचार्यस्य नामानि-

इदानीन्तनसमये कुन्दकुन्दाचार्यस्य पञ्च नामानि प्रसिद्धानि सन्ति। परंतु स्वनामोल्लेखप्रसङ्गे कुन्दकुन्दाचार्येण प्रायः मौनमेव साधितम्। ‘वारसाणुवेक्खा’ (द्वादशानुप्रेक्षा) इति ग्रन्थं विहाय अन्येषु ग्रन्थेषु तेन स्व-नामोल्लेख: न कृत:। ‘वारसाणुवेक्खा’ इति ग्रंथस्यान्तिमायां गाथायां तेन स्वाभिधानं कुन्दकुन्दः इत्युल्लिखितम्।

कुन्दकुन्दाचार्यस्य ग्रंथानामाद्यटीकाकारः अमृतचन्द्राचार्योऽपि ग्रंथ-कर्त्तु: नाम्न:, जीवनस्य, समयस्य च विषये किमपि नोल्लिखति। जयसेनाचार्येण पञ्चास्तिकायसंग्रहग्रन्थस्य टीकायामुक्तं यत् पद्मनन्द्यादीनि नामानि कुन्दकुन्दाचार्यस्य सन्ति।
षट्प्राभृत्-ग्रन्थस्य टीकायां श्रुतसागरसूरिणा (षोडशशताब्द्यां) कुन्दकुन्दाचार्यस्य पञ्च नामान्युल्लितानि, तानि च- कुन्दकुन्दाचार्यः, पद्मनन्दि:,वक्रग्रीवाचार्यः, एलाचार्यः गृद्धपिच्छाचार्यश्चेत्येतानि सन्ति। अन्येष्वपि शिलालेखेष्वातानि नामानि प्राप्यन्ते, यथा षडाशीत्युत्तरत्रयोदशशततमस्येस्वीवर्षस्य (१९८६ ई.)  नन्दिसंघसंबद्धविजयनगरस्थशिलालेखेऽपि एतानि पञ्च नामानि प्राप्यन्ते।
तथा च नन्दिसंघस्यैकस्यां पट्टावल्यामप्येतानि नामानि प्राप्यन्ते, परन्तु अन्यशिलालेखेषु द्वे नाम्नी एव प्राप्येते-  एकः पद्मनन्दि:, अपर: कुन्दकुन्द: कोण्डकुन्दः वा। एतयोः द्वयोरपि आद्यं मूलञ्च नाम पद्मनन्दि: इत्येवास्ति।
 नवत्युत्तरनवशतमविक्रमाब्द्यां (९९० वि.सं) विरचिते दर्शनसार-ग्रन्थे देवसेन: कुन्दकुन्दाचार्यस्य ‘पद्मनन्दि:’ इत्यनेनैव नाम्नोल्लेखं करोति। 
एतेषां प्रमाणानामाधारेण निष्कर्ष: प्राप्यते यत् कुन्दकुन्दाचार्यस्योपर्युक्तानि पञ्च नामानि चतुर्दश-शताब्द्यनन्तरमेव प्रचलितानि अभवन्। परम्परा-प्राप्तानि अन्यानि त्रीणि नामानि (वक्रग्रीवाचार्यः, एलाचार्यः, गृद्धपिच्छाचार्यश्च) विचारणीयानि सन्ति। 
एतेषां त्रयाणां नाम्नां विषये डॉ.ए.एन.उपाध्यायवर्येण प्रवचनसार-ग्रंथस्य प्रस्तावनायामनवेषणात्मकदृष्ट्या विचारः कृतः वर्तते तस्य संक्षेपेण सारोऽत्र प्रस्तूयते-

वक्रग्रीवाचार्यः-

वक्रग्रीवाचार्यस्यार्थ:- 
सहित्यावलोकनेन त्रय:  अर्था: प्राप्यन्ते- प्रथमस्तावत् सम्भवतः जन्मन: एव ग्रीवाया: वक्रतास्य वक्रग्रीवाचार्य: इत्याभिधानस्य कारणम्, यथेतिहासे अष्टावक्र:इति कश्चन विद्वान् प्रसिद्धोस्ति  यः जन्मन: एव अष्टाभिरङ्गैः वक्र: आसीत्, कालान्तरेऽङ्गानां वक्रतयैव सोऽभिहितोऽष्टावक्रः इति। तथैव कुन्दकुन्दाचार्यस्य विषयेऽपि ऊहितुं शक्यते।
ग्रंथप्रणयनसमये तस्य ग्रीवा वक्रा अभवदिति द्वितीयः पक्षः। ताड़पत्रेषु कण्टकेन छित्त्वा एतावत् व्यापक-साहित्यं तेन सृष्टं तस्मात् संभवतः तस्य ग्रीवा वक्राभवत्।
ए.एन.उपाध्यायवर्यस्य मतं-
वक्रग्रीवाचार्य: कुन्दकुन्दाचार्यस्य नामान्तरं न वा इत्यस्मिन् विषये सः वदति- शिलालेखेषु वक्रग्रीव: इति नामोल्लेखप्रसङ्गे तत् कुंदकुंदस्य नामान्तरमिति कुत्रापि नाभिहितम्। पुनश्च येषु शिलालेखेषु यत्र वक्रग्रीव: इत्यनेन सह 'संघ:' 'गण:' 'गच्छ:' इत्येषामुल्लेखः अस्ति तत्र 'द्रविड़संघ:' 'नंन्दिगण:' 'अरुङ्गलान्वयः’ इत्युल्लेखः अस्ति। अतः वक्रग्रीवाचार्य: नास्ति कुन्दकुन्द:, भिन्न: एव।

ऐलाचार्य:-

  कुन्दकुन्दाचार्यस्य नामान्तरेष्वन्यः एलाचार्यः।  एला ( उपस्कर-विशेष:) इव आकृतिरासीदतः एलाचार्यः इत्यभिधानम्। यथा एला आकृत्या लघ्वी भवति तथैव लघ्वाकृतिराचार्स्य तस्मात् एलाचार्यः इति। वस्तुतः अस्मिन् प्रसङ्गे कुंदकुंदस्य  विदेहक्षेत्रगमन-विषयककथावगन्तव्या। कथानुसारं कुन्दकुन्दाचार्य: विदेहक्षेत्रं गतवान् , तत्रत्यानां जनानाञ्च कायः बहुविशालः आसीत्, तेषां समक्षे आचार्यस्य कायः एलेव लघुः प्रतीयते स्म, तदारभ्य सः एलाचार्यः इत्यभिधानेन प्रसिद्धोभवत्। एलाचार्यः कुंदकुंदस्य नामान्तरमस्ति न वास्मिन् सन्दर्भे डॉ. ए. एन. उपाध्यायवर्येण प्रवचनसारस्य प्रस्तावनायां प्राप्तप्रमाणानां शिलालेखानाञ्चाधारेण विस्तरेण लिखितम् । तस्य कथनयस्य सार: वर्ततेऽयं-  यद्यपि कुन्दकुन्दाचार्य: एलाचार्यश्च इत्यनयोः पृथक् पृथक् उल्लेखः तु प्राप्यते परंतु कस्मिन्नपि शिलालेखे, इन्द्रनन्दिविरचिते श्रुतावतारे वा स्पष्टतया उल्लेखः नास्ति यत् कुन्दकुन्दाचार्य: एव एलाचार्यः। अन्यच्च, धवला-ग्रन्थस्य प्रशस्त्याम् ,इन्द्रनन्दिविरचिते श्रुतावतारे च  वीरसेनस्वामिन: गुरोः नाम ( यस्मात् स: सिद्धांतमधीतवान्) एलाचार्यः प्राप्यते, स: एव कुन्दकुन्द: इति न स्पष्टं, तथापि यदि एवं स्वीक्रियते चेत् कुन्दकुन्दाचार्यस्य काल: अष्टम-शताब्द्यां स्वीकर्त्तव्यः स्यात्, यश्चोचितं न प्रतीयते। 
अतः स्पष्ट-प्रमाणानामभावादेलाचार्यः एव कुन्दकुन्दः, तत् तस्यापरं नाम वेति वक्तुं न शक्यते।

गृद्धपिच्छाचार्य:-

कुन्दकुन्दाचार्यस्य अंतिममिदं नाम गृद्धपिच्छाचार्य: इति। दिगम्बर-जैन-साधवः अहिंसा-महाव्रतस्य पालनाय जीवरक्षणे सहायकत्वात् मयूर-पिच्छं स्वीकुर्वन्ति, यच्च मयूरेण निसर्गतया विसृष्टैः पक्षैः (पक्षतिभिः)  निर्मितं भवति। गृद्धपिच्छाचार्यस्य तात्पर्यमस्ति यः गृद्धपक्षैः निर्मितं पिच्छं धारयति तादृशः आचार्यः। अत्रापि एका कथा प्रायः उच्यते सा ज्ञातव्यास्ति, कथानुसारं यदा कुन्दकुन्दाचार्य: विदेहक्षेत्रं गच्छन् आसीत् तदा वायुवेगात् तस्य पिच्छं पतितं। साधवः पिच्छं विना गन्तुं नार्हन्ति तस्मादाचार्येण  तत्र पतितैः गृद्ध-पक्षैः निर्मितं पिच्छं स्वीकृतम्, कालान्तरे तत्पिच्छं तस्य चिह्नत्वेन प्रचलितम्  । वृत्तान्तमिममाश्रित्य तस्य नाम गृद्धपिच्छाचार्य: इति प्रचलितम्, अथवा नाम्नः सिद्धये वृत्तान्तं प्रचलितमिति स्पष्टतया वक्तुं न शक्यते।
गृद्धपिच्छाचार्यनाम्ना सम्बद्ध: शिलालेख: प्रमाणञ्च।श्रवणबेलगोलाया: नैकेषु शिलालेखेषु उमास्वामिनः गृद्धपिच्छाचार्य: इत्यभिधानमस्ति। तत्त्वार्थ-सूत्र-ग्रन्थस्यान्ते एकस्मिन् श्लोकेऽपि गृद्धपिच्छयुक्त: उमास्वामी तत्त्वार्थसूत्रस्य कर्त्तेत्युक्तं।
वीरसेनस्वामिनापि धवला-ग्रंथस्य टीकायां गृद्धपिच्छाचार्य: तत्त्वार्थसूत्रस्य कर्तृत्वेनोल्लिखित:, तत्र गृद्धपिच्छाचार्य: इत्यनेन सह 'उमास्वामी' 'उमास्वाति' वा इत्यनयोः उल्लेखः नास्ति।
उमास्वातेः सम्बन्धेऽपि गृद्धपिच्छाचार्य: इत्यभिधान-सम्बद्धा कथा कुन्दकुन्दस्य कथाइवास्ति।
गृद्धपिच्छाचार्यः कुन्दकुन्दाचार्य:   आसीत् उमास्वामी वा, अथवा उभौ आस्ताम्, उभाभ्यामन्यो वा कश्चिदासीदिति विद्वद्भिरन्वेष्टव्यः विषयः वर्तते।
कुन्दकुन्दाचार्यस्य समय:-  
कुन्दकुन्दाचार्यस्य कालनिर्णय-प्रसङ्गे श्री उपाध्येवर्येण प्रवचनसार-प्रस्तावनायां पूर्ववर्तिनां मतान् निरुप्य विस्तरेण ऊहा कृता, तद्यथा-

 परम्परागत-मतम्- 

 नंदिसंघस्य पट्टावल्यनुसारं कुन्दकुन्दाचार्य: एकोनपंचाशत- विक्रमाब्द्यां पट्टासीन: अभवत्। पट्टावल्याः विभिन्न-प्रतिषु पाठन्तराणि सन्ति। डॉ हार्नले-महोदायेन प्रकशितासु तिसृषु पट्टावलीषु 'इ' पट्टावल्यां कुन्दकुन्दाचार्यस्य पट्टाभिषेकसमयः एकोनपञ्चाशदुत्तरैकशतविक्रमाब्दिः प्राप्यते। 
 विद्वज्जन-बोधके एकस्मिन् श्लोके कुन्दकुन्दोमास्वामिनौ समकालिनौ कथितौ, तयो: स्थितिश्च सप्तत्युत्तरसप्तशततमे वीरनिर्वाण-संवत्सरे तदनुगुणं त्रिशततमविक्रमाब्द्यामुक्तंम्।  एकोनपंचाशत- विक्रमाब्द्यामेव तस्य समयः प्रायः स्वीक्रियते परम्परागत-मते।
श्रीप्रेमिवर्यस्य-मतम्-  
दशकेभ्य: पूर्वं 'जैन-हितैषी' इत्यस्य दशमभागे श्रीप्रेमिवर्य: कुन्दकुन्दाचार्यस्य विषये एकं निबंधं लिखितवान्। तस्मिन् निबन्धे तेन इन्द्रनन्द्याचार्य- विरचितश्रुतावताराधारेणोक्तं यत् वीरनिर्वाणात् त्र्यशीत्युत्तरषट्शततमं वर्षं यावदङ्ग-ज्ञान-परम्परासीत्, तत्पश्चात् क्रमशः  अर्हद्वली, माघनन्दिः, धरसेनाचार्यश्चाभवन्। धरसेनाचार्य: महाकर्म-प्रकृति-प्राभृत-ज्ञातासीत्। तत्प्राभृतं सः  भूतबलीपुष्पदन्तं पाठितवान्, ताभ्याञ्च षट्खण्डागमस्य सूत्राणि विरचितानि लिपिबद्धानि च कृतानि।
तदैव गुणभद्राचार्येण कसायपाहुड-ग्रन्थः निबद्धः, आर्यभिक्षुं नागहस्तिनञ्च पाठितः। ताभ्यां तानि सूत्राण्याधिगम्य यति-वृषभाचार्येण षट्सहस्र-प्रमाण-चूर्णि-सूत्राणि रचितानि। उच्चारणाचार्येण च तान्यधिगम्य द्वादशसहस्रप्रमाणोच्चारणवृत्ति लिखिता। एतद् ग्रन्थद्वयमधिगम्य कुन्दकुन्दपुरवासिपद्मनन्द्याचार्यः   षट्खण्डागमस्य त्रिखण्डान् आधारीकृत्य द्वादशसहस्रश्लोकप्रमाणटीकां लिखितवान्।
एतस्मात् स्पष्टं यत् कुन्दकुन्दाचार्यः वीरनिर्वाणाद् त्र्यशीत्युत्तरषड्शततमवर्षेभ्योऽनन्तरमभवत्
अतः कुन्दकुन्दाचार्यस्य कालः विक्रमस्य तृतीयशताब्द्या : अन्तिम चरणः इति श्री प्रेमीवर्यस्य निष्कर्षः।
प्रेमीमहोदयस्य मताधारान्या किम्वदन्ती विधते यदनुसारम् ऊर्जयन्तपर्वते कुन्दकुन्दाचार्यस्य विवाद: श्वेताम्बरैः सहाभवत् ।
कुन्दकुन्दाचार्यस्य सुत्तपाहुङग्रन्थेन ज्ञायते यत् कुन्दकुन्दस्य समये श्वेताम्बर- दिगम्बरयो: भेद: विद्यते स्म । 
देवसेनस्य दर्शनसारानुसारं श्वेताम्बरदिगम्बरयो भेद: विक्रमस्य षट्‌त्रिंशदुत्तरैकशततमे वर्षेऽभवत् । प्रेमीवर्येण तत्रोक्तविक्रमसंवत्सरः शालिवाहनशकसंवत्सरः इति भ्रान्तिवशादवगम्य श्वेताम्बरसम्प्रदायस्योत्पत्तेः कालः (136+135= 271) एकसप्तत्युत्तरद्विशततमविक्रमसंवत्सरे निर्धारितम्, निर्णयश्च कृतम् यत् कुन्दकुन्दाचार्य: एतस्मादनन्तरमेवाभवत् । एतदाधारेणापि कुन्दकुन्दस्य कालः विक्रमस्य तृतीयशताब्द्यामेव प्राप्यते, तन्मतानुसारं कुन्दकुन्दस्य कालः कथमपि  त्र्यशीत्युत्तरषट्शततमवीरनिर्वाणादनन्तरं स्वीकर्तुं न शक्यते।
डॉ पाठकवर्यस्य मतम्- 
'जैनसिद्धान्तप्रकाशिनी' इति संस्थातः प्रकाशितसमयसारस्य भूमिकायां श्री. के. वी. पाठकमहोदयस्य मतं प्रकाशितमासीत् । तेन कुन्दकुन्दाचार्यस्य काल: पञ्चाशीत्युत्तरपञ्चशतविक्रमाब्द्यां (वि.सं. ५८५)  स्वीकृतः ।  स्वमतपुष्टये सः लिखति यत् पञ्चविंशत्युत्तरसप्तशततमे शकसंवत्सरे (श.सं. ७२५) 
राष्ट्रकूटवंशीयः  तृतीयगोविन्दराजः  शासकः आसीत्, तत्कालीनताम्रपात्रे एतानि पद्यानि प्राप्यन्ते -
कोण्डकोन्दान्वयोदारो गणोऽभूद् भुवनस्तुतः ।
तदैतद् विषयविख्यातः शाल्मलीग्राममावसम् ॥
आसीत्तोरणाचार्यस्तपफलपरिग्रहः ।
तत्रोपशमसम्भूतभावनापास्तकल्मशः।।
पण्डितः पुष्पनन्दीति बभूव भुवि विश्रुतः ।
अन्तेवासी मुनेस्तस्य सकलश्चद्रमा इव ॥
प्रतिदिवसभवद्वृद्धिर्निरस्तदोषोव्यपेतहृदयमलः। 
परिभूतचन्द्रबिम्बस्तच्छिष्योऽभूत्प्रभाचन्द्रः ।।
तत्कालीनमेवान्यं ताम्रपत्रं षोडशोत्तरसप्तशततमस्य शकसंवत्सरस्य प्राप्यते, तस्मिन् इमानि पद्यानि सन्ति-
आसीत् तोरणाचार्यः कोण्डकुन्दान्वयोद्भवः ।
स चैतद्विषये श्रीमान् शाल्मलीग्राममाश्रितः ॥
निराकृततमोऽराति स्थापयन् सत्पथे जनान् ।
स्वतेजोद्योतितक्षौणिश्चण्डार्चिरिव यो बभौ।।
तस्याभूत् पुष्पनन्दी तु शिष्यो विद्वान् गणाग्रणी ।
तछिष्यश्च प्रमाचन्द्ररतस्येयं वसतिः कृता ।।
एतेषां श्लोकानामाशयोऽयमस्ति यत् कोण्डकोन्दान्वयस्य तोरणाचार्य: शाल्मलीनाम्नि ग्रामे न्यवसत् ,तच्छिष्यः पुष्पनन्दिः , पुष्पनन्देः शिष्यश्च प्रभाचन्द्रः आसीत् ।
पाठकमहोदयस्य तात्पर्यो ऽत्रास्ति यत् यतो हि तत्ताम्रपत्रं षोडशोत्तरसप्तशततमस्य शकसंवत्सरस्यास्ति तस्मात् तोरणाचार्यस्य काल : षट्शततमे शकसंवत्सरे(६०० श.सं.)  स्यात् तोरणाचार्यश्च कुन्दकुन्दान्वयेऽभवत् अतः कुन्दकुन्दाचार्यस्य काल: ततः प्रायः पञ्चाशदुत्तरेकशतकवर्षेभ्यः पूर्वं पञ्चाशदुत्तर चतुश्शततमे शकसंवत्सरे (४५०श.सं) मन्तव्य: ।
चालुक्यवंशीयकीर्तिमहाराजेन पञ्चशततमशकसंवत्सरे प्राचीनकदम्बवंशस्य विनाशः कृतः, तस्मान्निश्चीयते यत् ततः पञ्चाशत्वर्षेभ्य: पूर्वं कदम्बवंशीय: शिवमृगेशवर्म राज्यं कुर्वन्नासीत्। पञ्चास्तिकायग्रन्थस्य कन्नड़टीकाया: टीकाकार: बालचन्द्रः संस्कृतटीकाकार : जयसेनाचार्यश्च लिखति यत् एषः ग्रन्थः कुन्दकुन्दाचार्येण शिवकुमारमहाराजस्य बोधनाय रचित: । एषः शिवकुमारश्च शिवमृगेशवर्म एव इति प्रतीयते । अतः कुन्दकुन्दाचार्यस्य स्थिति: पञ्चाशदुत्तरचतुश्शततमे शकसंवत्सरे, (४५० श.सं) तदनुगुणं पञ्चाशीत्युत्तरपञ्चशतमविक्रमाब्द्यां (५८५ वि.सं.) स्वीकर्तव्या । इति पाठक-महोदयस्य मतम्।
डॉ ए. चक्रवर्तीमहोदयस्य मतम्
प्रो. ए. चक्रवर्तीमहोदयेन पञ्चास्तिकायग्रन्थस्य प्रस्तावनायां प्रो. हार्नलमहोदयसम्पादितनन्दिसंघपट्टावल्याधारेण कुन्दकुन्दाचार्यस्य कालः प्रथमशताब्द्यां स्वीकृतः । तन्मतानुसारं कुन्दकुन्दाचार्यः एकोनपञ्चाशतविक्रमाब्धामाचार्यपदासीनोऽभवत् । चतुश्चत्वारिंशत्-वर्षस्य वयसि स: आचार्यपदं प्राप्तवान्, दशमासाधिकैकपञ्चाशत् वर्षाणि यावत् सः तस्मिन् पदे प्रतिष्ठितः आसीत् । आहत्य तस्यायुः पञ्चदशदिनान्यधिक - दशमासोत्तरपञ्चनवतिवर्षाणि आसीत् ।
 चक्रवर्तीमहोदयानुसारं कुन्दकुन्दः द्रविड़संघस्यासीत्। स्वमतं समर्थयन् सः  मंत्रलक्षणनाम्नि पुस्तके उल्लिखमेकं श्लोकं प्रस्तौति-
दक्षिणदेशे मलये हेमग्रामे मुनिर्महात्मासीत् ।
एलाचार्यों नामा द्रविड़गणाधीशो धीमान् ॥
चक्रवर्तीमहोदयः कथयति यत् श्लोकोक्तप्रदेशा: द्रविड़देशे अन्वेष्टुं शक्यन्ते। द्रविड़देशीयकुन्दकुन्दाचार्यस्यापरं नाम एलाचार्यः आसीत्। जैनपरम्परानुसारमेलाचार्यः प्रसिद्धतमिलग्रन्थकुरलकाव्यस्य रचयितासीत्।
एलाचार्येण कुरलकाव्यं रचितं, तिरुवल्लुवरनाम्ने स्वशिष्याय च दत्तम्। तेन तत्काव्यं मदुरासंघाय समर्पितम्। एलाचार्यस्यापरनाम एलालसिंघोऽपि प्राप्यते। एलालसिंहः तिरुवल्लुवरस्य साहित्यिकसंरक्षकः आसीदिति मन्यते। कुरुलकाव्यं एलाचार्यविरचितमिति तथ्यैरन्यैरपि समर्थ्यते। यथा- कुरलकाव्यस्य नैतिकस्वरः,सर्वोत्तमव्यवसायरूपेण कृषिकर्मस्य वल्लुवजनानां समक्षे प्रशंसा च।
कुरलकाव्यस्य कर्ता कुन्दकुन्द: एलाचार्यो वा स्वीक्रियते चेत् कुरलकाव्यस्य काल: प्रथमशताब्द्यां मन्तव्यः । कुरलकाव्यं 'शिलप्पदिकरम्' 'मणिमेखलै" इत्याभ्यां प्राचीनमेवास्ति । शिलप्पादिकरमिति काव्यस्य रचयिता चेरवंशीसेंगुत्तवनसेषानुजः, मणिमेखलैकाव्यस्य च तत्कालीन: एव मित्रकुलवनिकन्-सत्तनर’ इत्यस्ति शिलप्पादिकरकाव्ये उल्लिखितदेवीमन्दिरप्रतिष्ठायां श्रीलंकाशासकगजबाहुरुपस्थितः आसीदतः कुरलकाव्यं तस्मादपि प्राचीनम् । अनेनापि पट्टावल्यामुक्तकालस्य समर्थनं भवति। 
चक्रवर्तीमहोदयेन पाठकवर्यस्य मतस्य निराकरणमपि कृतम्। यद्यपि सः स्वीकरोति यत् कुन्दकुन्दाचार्यः दिगम्बरश्वेताम्बरयोः भेदादनन्तरमभवत् परन्तु कदम्बवंशीय: शिवमृगेश: एव पञ्चास्तिकायनिर्दिष्टः शिवकुमार : इति तेन न स्वीकृतम् । यतो हि तन्मतानुसारं कदम्बवंशस्य काल: कुन्दकुन्दात् बहुवर्षेभ्योऽनन्तरमस्ति । पञ्चास्तिकायनिर्दिष्टः शिवकुमारः पल्लववंशीयः शिवस्कन्दः इति तेन स्वीकृतम्। तस्य कारणं सः प्रस्तौति यत् स्कन्दकुमारयोः शब्दयोः समानमेवार्थः, अन्यच्च शिवस्कुन्दः 'युवमहाराजः' इत्यप्युच्यते स्म, यस्यार्थ: कुमारमहाराज: इत्येवास्ति। पल्लवनरेशा: थोण्डमण्डलस्य शासका: आसन् तेषां राजधानी कांजीपुरमासीत् । सा भूमिः विदुषां भूमिः तत्रत्या: राजानश्च शिक्षाप्रेमिणः आसन् । कुरलकाव्यकर्त्तादय: नैके विद्वान्सः थोण्डमण्डले निवसन्ति स्म। तत्समीपस्थक्षेत्रे जैनधर्मस्य प्रसार: आसीदतः सम्भवतया 'प्रथमशताब्धां काञ्चीपुरस्य राजानः जैन धर्मावलम्बिनःसंरक्षकाः वा स्युः । अन्यच्च शिवस्कन्दवर्मणा दत्तदानस्योल्लेख: मयिदावोलदानपत्रे प्राकृतभाषायामस्ति तत्पत्रस्यारम्भः'सिद्धाणं'  इति पदेन भवति। अन्यैरपि शिलालेखै: स्पष्टमस्ति यत्, पल्लवानां राजभाषा प्राकृतभाषासीत्, कुन्दकुन्दाचार्येण च स्वग्रन्थानां रचना अस्यामेव भाषायां कृता, एतस्मात् कारणात् चक्रवर्ती महोदयेन इत्युक्तं यत् शिवस्कंद: एवं शिवकुमार:।
पं जुगलकिशोरमुख्तारमहोदयस्य मतम् –
एष: विद्ववर्यः समन्तभन्द्र- नाम्नि निबन्धे समन्तभद्रस्य कालनिर्णयप्रसङ्गे  कुन्दकुन्दाचार्यस्य कालनिर्णयमपि कृतवान्। प्रथमस्तावत् तेन विद्वज्जनबोधकोक्तश्लोकस्य विषये लिखितम्  तच्छलोकानुसारं वीरनिर्वाणात् सप्तत्युत्तर - सप्तशतवर्षानन्तरमुमास्वामिनः कुन्दकुन्दाचार्यस्य च स्थितिरासीत् | पट्टावल्यां तेन नैकाः विप्रतिपत्तयः प्रदर्शिताः तत्रोक्तकालोऽपि नैव स्वीकृतः।  तेन इन्द्रनन्दिविरचितश्रुतावताराधारेण प्रेमीमहोदयस्यमतमिव स्वमतं प्रस्तुतं यत् कुन्दकुन्दाचार्यः वीरनिर्वाणात् त्र्यशीत्युत्तर षट्शतवर्षेभ्यः पूर्वं भवितुं न शक्नोति,अपितु पश्चादेव तस्य स्थितिः आसीत्। कियत् पश्चादित्यस्मिन् विषये सः लिखति यत् यदि अन्तिमाचारांगधारीलोहाचार्यानन्तरं चतुर्ण्णामरातीयमुनीनां काल: आहत्य विंशति वर्षाणि स्वीक्रियन्ते, तत्पश्चात् अर्हद्वलि-माघनन्दि-धरसेन-पुष्पदन्त-भूतबलीमुनीनां, कुन्दकुन्दाचर्यस्य गुरोश्च, एकैकस्य काल: दशवर्षाणि स्वीक्रियते तर्हि वक्तुं शक्यते यत् कुन्दकुन्दाचार्यः उपर्युक्तकालात् (६८३ वी.नि.)  अशीतिवर्षानन्तरमथवा वीरनिर्वाणात् त्रिषष्ट्युत्तरसप्तशतवर्षेभ्यः पश्चादभवत् । अनेन निर्धारितकाले विद्वज्जनबोधकोक्तकाले च प्राय: सामीप्यमस्ति। 
तत्पश्चात् मुख्स्तारमहोदयः लिखति यत्  पट्टावल्यां वीरनिर्वाणात् भूतबलिपर्यन्तं या कालगणना कृता तामाधारीकृत्य यदि स्वीकुर्म: यत् त्र्यशीतित्युत्तरषट्शततमवीरनिर्वाणसंवत्सरे भूतबले: स्थितिरासीत्  तथा च  कुन्दकुन्दाचार्यः : सिद्धान्तज्ञानं गुरुपरम्परया प्राप्तवान् अतः भूतबलेरनन्तरमपि न्यूनातिन्यूनत्रिंशत् वर्षाण्युपर्युक्तकाले योजनीयानि।  एवं रीत्या कुन्दकुन्दाचार्यस्य काल:  वीरनिर्वाणात् त्र्योत्तरसप्तशतवर्षेभ्यः त्रयोदशोत्तरसप्तशतवर्षेभ्यः वानन्तरमवगन्तव्यः ।  परन्तु यदि पूर्वोक्तकालः एव स्वीक्रियते तर्हि  कुन्दकुन्दस्य काल: त्रयोदशोत्तरद्विशततम विक्रमसंवत्सरानन्तरमवगन्तव्यः । एतदेव नानूरामेत्यादिविदुषां मतमस्ति । अत्र मुख्तारवर्येर्णेदमप्युक्तं यद्यदि वीरनिर्वाणात् सप्तत्युत्तरचतुश्शत वर्षानन्तरं विक्रमस्य जन्म मन्यते, संवत्सरश्चायं राज्यसंवदिति मन्यते तर्हि ततः पञ्चनवत्युत्तरैकशतवर्षानन्तरं कुन्दकुन्दाचार्यस्य कालोऽवगन्तव्य: ।  यदि संवत्सरोऽयं मृत्युसंवदिति मन्यते तर्हि ततः त्र्यस्त्रिंशदुत्तरैकशतवर्षानन्तरं कुन्दकुन्दाचार्यस्य कालोऽवगन्तव्य: ।
पाठकोक्तमतस्य समीक्षां कुर्वन् मुख्तारमहोदयः वदति यत् मूलग्रन्थेऽमृतचन्द्रविरचितटीकायां च शिवकुमारविषयकोल्लेख: नास्ति, तस्मात् सः आधुनिकोल्लेख: एव प्रतीयते । तथाप्यनेन शिवकुमारस्य शिववर्मणा साकं साम्यस्थापकमतादधिकं शिवकुमारस्य शिवस्कन्देन सह साम्यस्थापनं प्रशंसितम्।
कुन्दकुन्दस्यापरनामैलाचार्योऽपि न स्वीकृतमनेन। चक्रवर्तीमहोदयनिर्धारितकालेऽपि विप्रतिपत्तयः प्रदर्शिताः । अन्तिमे च पट्टावल्यामुक्तं भद्रबाहो: कालं युक्तियुतमगणयन् बोधपाहुडस्यैकषष्टितमगाथाधारेण कुन्दकुन्दं द्वितीयभद्रबाहो: शिष्यं स्वीकृतम्।
एतान् सर्वान् मतान् प्रस्तुत्य निम्नलिखिताः विचारणीयाः बिन्दवः उपस्थापिता: उपाध्येवर्येण-
- श्वेताम्बरदिगम्बरयो: भेदानन्तरं कुन्दकन्दोऽभवत्।
- कुन्दकुन्दाचार्य: भद्रबाहो: शिष्य: ।
 -इन्द्रनन्दिविरचितश्रुतावतारानुसारं द्वयोः सिद्धान्तग्रन्थयो: ज्ञानं गुरुपरम्परया पद्मनन्दिः प्राप्तवान् षट्खण्डागमस्याद्येषु त्रिषु खण्डेषु टीकाञ्च रचितवान् ।
-जयसेनबालचन्द्रयोः टीकयोरुल्लेखानुसारं कुन्दकुन्दः शिवकुमारमहाराजस्य समकालीनः आसीत् ।
- कुन्दकुन्दः तमिलग्रन्थ-कुरलकाव्यस्य रचयितास्ति।
एते बिन्दवः पक्षद्वये विभक्तुं शक्यते, प्रारम्भिकबिन्दुद्वयं कुन्दकुन्दसाहित्याधारिताः सन्ति,शेषाणामाधारः अन्यकृतोल्लेखः अस्ति।
 तत्राद्यपक्षाधारेण विचारः -
संघभेदादनन्तरं कुन्दकुन्दोऽभवत् →
पूर्वोद्धृत-बोधपहुड़स्य द्वाभ्यां गाथाभ्यां स्पष्टमेवास्ति यत् कुन्दकुन्दाचार्य: भद्रबहो: शिष्यः आसीत् भद्रबाहो. काले च श्वेताम्बरदिगम्बरयो : भेदोऽभवत् । भगवतः महावीरस्य निर्वाणादनन्तरं त्रयः केवलिनः अभवन् गौतमगणधर:, सुधर्माचार्यः, जम्बूस्वामी च तदनन्तरं पञ्च श्रुतकेवलिन: अभवन्,तेष्वन्तिम: भद्रबाहुरासीत् । दिगम्बरश्वेताम्बरावुभौ भद्रबाहुं स्वधर्मगुरुमुररीकुर्वन्ति । परन्तु श्वेताम्बर: स्थविरपरम्परां भद्रबाहुसम्बद्धां न स्वीकुर्वन्ति, अपितु तस्य गुरुभ्रातुः सम्भूतविजयस्य शिष्येण स्थूलभद्रेण सम्बद्धेति स्वीकुर्वन्ति तस्य गणना च श्रुतकेवलीषु कुर्वन्ति। 
भद्रबाहो: समये उत्तरभारते द्वादशवर्षात्मकदुर्भिक्षः आपतितः आसीत्  तथ्यमिमं श्वेताम्बर - साहित्यमपि स्वीकरोति। दिगम्बर- परम्परानुसारं भद्रबाहुः स्वशिष्यचन्द्रगुप्तेन सह संसंघः दक्षिणभारतं गतवान्,तत्र च  मैसूरप्रदेशे श्रवणबेलगालायां स्थिते कटवप्रनाम्नि पर्वते इदानीं चन्द्रगिरिनाम्न: ख्याते भद्रबाहो: स्वर्गवास: अभवत् । परन्तु श्वेताम्बर परम्परानुसारं ते ततः नेपालदेशं गतवन्तः । दुर्भिक्ष समाप्त्यानन्तरं यदा  पाटलीपुत्रे  एकत्रितसाधुसंघे उपस्थितानां सर्वेषां स्मृत्याधारेण एकादशाङ्गानां सङ्कलनं जायमानमासीत् तदा दृष्टिवादनामकद्वादशतमाङ्गस्य संकलने कोपि समर्थः नासीत्, यतोहि तस्य ज्ञाता केवलं भाबाहुरेवासीत् तदा संघस्थमुनिषु संदेशयुतौ द्वौ मुनी भद्रबाहो: समीपे आगमनाय निवेदयितुं प्रेषितौ तदा भद्रबाहुना प्रतिसंदिष्टं  यत् तेन द्वादशवर्षात्मक: महाप्राण-व्रतं स्वीकृतमतः तेनागन्तुं न शक्यते । अननोत्तरेण क्षुब्धसंघेन पुनः मुनी प्रेषितौ तौ च संघेनैवं शिक्षितौ यत् भवन्तौ  भद्रबाहुमेवं पृच्छतां  यत् यः मुनिः साधुसंघस्याज्ञापालनं न करोति तस्मिन् कथं व्यवहारः करणीयः, यदि सः वदेत् यत् एतादृशः मुनिस्तु दण्डार्हः,तर्हि भवन्तौ तं प्रत्युत्तरं यच्छतां यत् भवानेव दण्डार्हः ।
तत्र गत्वा मुनीभ्यां तथैवानुष्ठितम् । 'तित्थोगाली पइन्नय'. इत्यत्रोक्तं यत् भद्रबाहोः पूर्वानुमानितमुत्तरं प्राप्य स्थविरैरुक्तं यत् श्रमणसंघ: इदानीं त्वयि बहिर्भूते इव व्यवहरिष्यति।
अनेन वृत्तान्तेन सुनिश्चित: भवति यत् भद्रबाहो: समये निश्चयेन एतादृशः वृत्तान्तः अभवत् येनाखण्डपरम्परायां भेदः जातः तस्य भेदस्य च मुख्यकारणं वस्त्रमासीत् यथा दिगम्बरश्वेताम्बरनामभ्यामेव स्पष्टमस्तिा स्त्रीमुक्तेः प्रश्नोऽपि तत्सम्बद्ध: एव । आरम्भे एतौ द्वौ प्रश्नावेव भेदस्य मुख्यकारणवास्ताम् तस्मात् कुन्दकुन्दाचार्येणाप्येतयोः स्वसाहित्ये दृढतया निषेधं कृतम्। उदाहरणरूपेण सूत्रप्राभृतग्रन्थे एवं द्रष्टुं शक्यते, तत्रोक्तं यत् तीर्थकरोऽपि यदि सवस्त्रमस्ति तर्हि स:  मुक्तिं नार्हति, नग्नतैव मोक्षमार्गोऽस्ति, अन्यत्सर्वमुन्मार्गः। इत्यादि- वर्णनै: ज्ञायते यत् कुन्दकुन्दः संघभेदादन्तरमभवत् ।
दर्शनसारानुसारं विक्रमस्य मृत्योः षड्‌त्रिंशदुत्तरैकशतवर्षानन्तरं सौराष्ट्रस्य वल्लभीनगर्यां श्वेतपटसंघ: उत्पन्नोऽभूत् । श्वेताम्बरानुसारं वीरनिर्वाणात् नवोत्तरषट्शतवर्षानन्तरमर्थात् षड्‌त्रिंशदुत्तरैकशतवर्षानन्तरं 'वोटिकानामु'त्पत्तिरभवत् ।
यतो हि जैनग्रन्थेषु विक्रमसंवत्सर: विक्रमस्य मृत्योरनन्तरं प्रवर्तितं मन्यते, श्वेताम्बर साहित्ये च वीरनिर्वाणात् सप्तत्युत्तर - चतुश्शतवर्षानन्तरं प्रारब्धं मन्यते । तस्मादु भयोः मते परम्पराभेदकालविषयकः त्रिवर्षाणामन्तरं दृश्यते। परन्तु तात्पर्योऽयमत्र नास्ति यत् षट्‌त्रिंशदुत्तरैकशतविक्रमसंवत्सरे संघभेदः जातः । तस्य सूत्रपातस्तु भद्रबाहो: समये एवाभवत् अत्रोक्तकाले भद्रबाहोश्च काले चतुश्शतवर्षाणामन्तरालोऽस्ति । एतस्मिन्नतराले सः भेद:वृद्धिङ्गतः।
दर्शनसारे लिखितं यत् पञ्चोत्तरद्विशततमविक्रमाब्द्यां यापनीयसंघः स्थापितोऽभवत् | संघस्यास्य नाम्नैव यथा प्रतीयते तथैव संघोऽयं निर्वाहपरकसंघः आसीत्.यः दिगम्बरश्वेताम्बरयोः कतिपयनियमान् पालयति स्म । अस्य मुनयः नग्नाः तिष्ठन्ति स्म परन्तु संघोऽयं स्त्रीमुक्तिं स्वीकरोति स्म । अतः द्वितीयशताब्द्यां स्त्रीमुक्ति - नग्नता चानयोः विषयोरुपरि वादविवादः प्रचलति स्म, कुन्दकुन्देन च स्वसाहित्ये तयोः विषयेलिखितं तस्मात् कुन्दकुन्देन तत्कालीनेनैव भवितव्यम्।
द्वितीयपक्षस्य प्रथममताधारेण विचार:- 
कुन्दकुन्दस्य साहित्येतरै: प्रमाणै: मुख्तारमहोदयसदृशैरन्यैः विद्वद्भिः कालनिर्णयस्य प्रयासः कृतः। इन्द्रनन्दिविरचितश्रुतावतारानुसारं कुन्दकुन्दपुरवास्तव्यः पद्मनन्दि: सिद्धान्तज्ञानं प्राप्तवान् । एषः पद्मनन्दिः कुन्दकुन्दः एव यतो हि कुन्दकुन्दपुर- सम्बद्धोऽअन्यः कोऽपि मुनिः न श्रूयते । पुरस्य नाम्नैव पद्मनन्दिः कुन्दकुन्दः इत्याख्यातः। इन्द्रनन्दि: कुन्दकुन्दाचार्येण षट्खण्डागमस्य त्रिखण्डान् आधारीकृत्यविरचितग्रन्थं परिकर्मनामकं टीकाशब्देन व्यवहितं न करोति, यथा शामकुण्डाचार्यस्य कृतिं पद्धतिः, तुम्बुलाचार्यस्य कृतिं व्याख्या, समन्तभद्राचार्यस्य कृतिं च स्पष्टरूपेण टीकाशब्देन व्याहरति।
परिकर्मग्रन्थस्य तत्कर्तुश्च विषये विचार:-
धवलायामस्य परिकर्मग्रन्थस्योल्लेख: बहुधा कृतः वर्तते । तत्रास्मात् ग्रन्थात्  बहून्युद्धरणान्यपि स्वीकृतानि वर्तन्ते । परन्तु केन रचितोऽयं ग्रन्थः कस्य ग्रन्थस्य वा टीकेत्यस्मिन् विषये तत्रोल्लेख: नास्ति । परन्तु धवलाग्रन्थे बहुधोल्लेखं द्रष्ट्वा इदमत्र ज्ञातव्यं भवति यत् तत्रोल्लिखितः परिकर्मग्रन्थः इन्द्रनन्द्युल्लिखः एव अन्यो वेति ज्ञातुं धवलाग्रन्थे प्रदत्तान्युद्धरणानि प्रेक्षणीयानि सन्ति ततः परमिदमपि ज्ञातव्यं यत् धवलायाः प्रथम खण्डे जीवट्ठाणनामके बहुधास्योल्लेखः वर्तते । खण्डेऽस्मिन् द्रव्यप्रमाणानुगमनामकानुयोगद्वारे जीवसंख्यायाः कथनमस्ति, तत्समर्थनाय च परिकर्मग्रन्थस्योद्धरणानि प्रदत्तानि । उद्धरणैः ज्ञायते यत् ग्रन्थोऽयं गणितप्रधान: आसीत् यथा ग्रन्थस्य नाम्नैव स्पस्टमस्ति । अत्र कानिचनोद्धरणानि प्रस्तूयन्ते -
१ ‘ण च एधं वक्खाण 'जत्तियाणि दीवसागररूवाणि जवूदीवछेदणाणि च रूवाहियाणिन्ति परियम्मसुत्तेण सह विरुज्झदि त्ति' - पु० ३, पृ० ३६ ।
इत्यत्र ‘परियम्मसुत्तेण’ इत्यस्य ‘परिकर्मसूत्रेण’ इत्यर्थः।
२ ‘जं त गणणासखेज्ज तं परियम्मे वुत्त’ 
- पु० ३, पृ० १२४ । 
इत्यत्र ‘परियम्मे इत्यस्य ‘परिकर्मणि’ इत्यर्थः।
३ 'रज्जू सत्त गुणिदा जगसेढि, सा वग्गिदा जगपदर, सेढीए गुणिदं जगपदर घणलोगो होदिति' परियम्मसुत्तेण सव्वाइरियसम्मदेण विरोहप्पर - गादो च । पु०४, पृ० १८४ 
इत्यत्र ‘परियम्मसुत्तेण’ इत्यस्य ‘परिकर्मसूत्रेण’ इत्यर्थः।
४ 'जदि सुदणाणिरस विसओ अणंतसखा होदि तो जमुकस्सखेज्जं विसओ चोद्दसपुव्विरसेत्ति परियम्मे धुत्त त कध घडदे ११ – पु० ६, पृ० ५६ 
इत्यत्र ‘परियम्मे इत्यस्य ‘परिकर्मणि’ इत्यर्थः।
५ एदे जोगाविभागिपडिच्छेदा य परियम्मे वग्गणसमुट्ठिदा त्ति परविदा -- पु० १०, पृ० ४८३ 
अत्रापि तथैव।
६ ‘अपदेस णैव इदिए गेझ' इति परमाणूण गिरवयवत्त परियम्मे वुत्तमिदि णासकणिज्ज, पदेसो खाम परमाणू, सो जम्हि परमाणुम्हि उमबदभावेण णत्थि सो परमाणु अपदेसओत्ति परियम्मे वुत्तो । तेण रण णिरवयवत्तं तत्तो गम्मदे-पु० १३, पृ०१८ ।
उक्तोद्धरणैः स्पष्टं यत् परिकर्मग्रन्थस्य प्रधानप्रतिपाद्यः विषयः सैद्धान्तिकगणितमस्ति, यतो हि उपर्युक्तोद्धरणानि क्षेत्रविषयकगणनासम्बद्धानि सन्ति। तत्र द्रव्य- क्षेत्र - काल-भावानां चतुर्ण्णां प्रमाणानां वर्णनमस्तीति प्रतीयते।
'अपदेस णेव इंदिए गेज्झ' इत्यनेन द्रव्यविषयक चर्चेयमिति प्रतीयते । तथा चैतद् गाथांशः इति भासते तस्मात् तत्र गाथाः अपि स्युः।
वीरसेनाचार्येण सः ग्रन्थः सर्वाचार्यसम्मतः इत्युक्तः येनानुमीयते यदन्यग्रन्थेष्वपि प्रमाणारूपेण तस्य ग्रन्थस्योद्धरणानि दत्तानि स्युः। परन्तु वर्तमानसमये धवलातिरिक्तं कुत्रापि तस्योल्लेखः न दृश्यते, संभवतः वीरसेनाचार्यस्य पार्श्वे षट्‌खण्डागमस्य या: टीकाः आसन् तासु सर्वासु ग्रन्थस्यास्योद्धरणानि स्युः तस्मात्तेन तथोक्तम्।
किन्तु, 'परिकर्म' इति षट्‌खण्डागमस्य टीकाग्रन्थः एतादृशः उल्लेख: धवलायां नास्ति। तत्र च कतिपयोद्धरणानि 'परिकर्मसूत्र' इति नाम्ना तत्रोद्धृतानि सन्ति । येन तु प्रतीयते यत् सः स्वतन्त्रग्रन्थः स्यात् परन्तु कतिपयस्थानेषु विपरीतभावोऽपि प्रकटित: दृश्यते। यथा- वेदनाखण्डे वेदनाभावविधानाधिकारकस्य   अष्टोत्तरद्विशततमसूत्रं दृष्टव्यमस्ति । तत्रोक्तं यत्
एकोनजघन्यासंख्यातवृद्धिद्वारा संख्यातभागवृद्धि: भवति। अस्य धवलाटीकायामुक्तं यत् 'एकोनजघन्यासंख्यात'इत्युक्ते उत्कृष्टसंख्यातसंख्याया: ग्रहणं भवति। अस्मिन् विषये ऊहापोहं कुर्वन् धवलाकारेणोक्तं –
'परिकम्मादो उक्कस्स संखेज्जयस्स पमाणमवगदमिदि ण पञ्चवट्टाण कादु जुत्त तस्स सुत्तत्ताभावादो । एदस्स णिस्सेसस्स आइरियाणुग्गाहेण पदविणिग्ग यस्स एदम्हादो पुधत्तविरोहादी वा ग तदो उक्कस्ससखेज्जयस्स पमाण सिद्धी - ( पु० १२, पृ० १२४ ) ।
उक्तकथने परिकर्मग्रन्थः न सूत्रं न च सः षट् खण्डागमादन्योऽस्ति इत्युक्तम् । परन्तु कथं भिन्नः नास्ति इति न स्पष्टं।  केनाचार्येण ग्रन्थोऽयं प्रणीतः, 'पदविनिर्गत' शब्देन धवलाकारस्य कोऽभिप्राय: एते प्रश्ना: अनुत्तरिताः एवं सन्ति । तथापीदन्तु स्पष्टमेव यत् परिकर्मग्रन्थः षट्‌खण्डागमेन सम्बद्धोऽस्ति।
इतोपि बहून्युद्धरणानि परिकर्मतः धवलायामुद्धृतानि द्रष्टुं शक्यन्ते।
उक्तोद्धरणैः स्पष्टं यत् 'परिकर्म' ग्रन्थः षट्खण्डागमस्य सूत्राधारितः आसीत् तथापि सूत्राणां केवलं व्याख्यात्मक : नासीत्। इदानीमपि ग्रन्थस्यास्य कर्तृत्वविषयकप्रश्नोऽनुत्तरितः एव। वीरसेनास्वामिना त्वस्मिन् विषये किमपि नोक्तं, इन्द्रनन्धाचर्येण च परिकर्मविषये यदुक्तं तस्य समर्थन- मुपर्युक्तोद्धरणैः भवत्येवतः कर्तृत्वविषयेऽपि तस्य वचनं प्रमाणं स्यात्। कुन्दकुन्दस्योपलब्धग्रन्थेषु द्रव्यानुयोगचरणानुयोग- विषये तस्य पाण्डित्यं स्पष्टमेवास्ति एतादृशः आचार्य: करणानुयोगविषये मूक: स्थातुं न शक्नोति, अत: ग्रन्थस्यास्य कर्त्रा कुन्दकुदेनैव भवितव्यम् । परिकर्मणः एकेनोद्धरणेनापि समर्थनमस्य भवति । तद्यथा- '"अपदेस णेव इंदिए गेज्झं' इति परमाणूण णिरवयवत्तं परियम्मे भणिदमिदि" इत्यस्मिन् 'अपदेस णेव इंदिए गेज्झं' कस्यापि गाथायाः पूर्वार्द्ध: स्यात् तत्र' 'अपदेस' इति पदस्य  पूर्वांश: त्यक्तः प्रतीयते। 'णेव इंदिए गेज्झं' इति पदं नियमसारेऽपि प्राप्यते-
अतादि अत्तमज्झ अत्तत णेव इन्दिए गेज्झ ।
जं दव्व अविभागी तं परिमाणुं वियाणीहि ॥
उभयत्रापि पक्तिरियं परमाणुस्वरूपवर्णने लिखिता एतावदेवान्तरंमस्ति यत् 'अन्तादि अंतमज्झ अत्तत' इयं पङ्क्ति तत्र नास्ति। अतः पङ्क्तिरियं कुन्दकुन्दरय प्रतीयते ।  अस्य समर्थने प्रमाणान्तरमप्यस्ति - 
तिलोयपण्णत्तिग्रन्थे पञ्चास्तिकाय- प्रवचनसार समयसारेभ्यः यथावत् गाथाः गृहीता: इति विद्वज्जनसमाजे विदितमेवास्ति,ताः  कुन्दकुन्दाचार्यस्य ग्रन्थेभ्य: तत्रोद्धृताः न तु ततःकुन्दकुन्दग्रन्थेष्विति, तिलोयपण्णत्तिग्रन्थस्थ प्रस्तावनायां "कुन्दकुन्द और यतिवृषभ में पूर्ववर्ती कौन" इत्याख्ये मुख्तारमहोदयविरचितलेखे च सप्रमाणं सिद्धं कृतं वर्तते।
तिलोयपण्णत्तिग्रन्थस्य प्रथमाधिकारे परमाणुस्वरूप-वर्णने पञ्चनवतितः एकाधिकैकशततमगाथापर्यन्तावलोकनेना वभासते यत् तद्‌विषयका: गाथाः यत्र-कुत्रापि ग्रन्थकारेण प्राप्ताः ताः सर्वाः तत्र संकलिताः। तत्रोक्ता पञ्चनवतितमा, सप्तनवतितमा, एकाधिकशततमा च गाथा पञ्चास्तिकाय सङ्ग्रहस्य क्रमश: पञ्चसप्ततितमा, एकाशीतितमा, अष्टाशीतितमा च गाथास्ति। एकान्या गाथा एवमस्ति-
अत्तादिमझ हीण अपदेस इंदिएहि ण हुं गेज्झ ।
न दव्य अविभत्त तं परमाणु कहति जिणा ॥ १८ ॥
अस्याः गाथायाः पूर्वार्धस्थान्तिमभागः परिकर्मोद्धरणेऽपि प्राप्यते। तिलोयपण्णत्तिग्रन्थे ग्रन्थान्तरेभ्यः उद्धृतगाथासु किञ्चित् पाठभेद: भवत्यतः "णेव  इन्दिए गेज्झ' इत्यस्य स्थाने 'इंदिएहि ण हु गेज्झ इति पाठः प्राप्यते । अर्थभेदस्तु नास्त्येव। अत्तादिमज्झहीणं' इति पदः यदि परिकर्मोक्तोद्धरणस्य 'अपदेस' पदस्य पूर्वे योजयामश्चेत् तत्रापि गाथापङ्क्तिः पूर्णा भविष्यति। अतः तिलोयपण्णत्तिग्रन्थे गाथैषा तथैव गृहीता यथान्याः गाथाः पञ्चास्तिकायात् । अनेनापि सिद्ध्यति यत् परिकर्म' कुन्दकुन्दस्य कृतिरस्ति। एवं सिद्धे सति सः ग्रन्थः कुन्कुन्दस्य कालनिर्णये महत्वपूर्णाधार: भवितुं शक्नोति।
द्वितीयपक्षस्य द्वितीय-तृतीय-बिन्दूनामाधारेण विचारः-
कुन्दकुन्दाचार्यस्य ग्रन्थेषु एतादृशः उल्लेख: नास्ति यत् कमपि राजानमुद्दिश्य कोऽपि ग्रन्थः प्रणीतः स्यात्, टीकाकारोऽमृतचन्द्राचार्यः विषयेऽस्मिन् मूक: एव ।
जयसेनाचार्येण च पञ्चास्तिकाये शिवकुमार - बोधाय ग्रन्थोऽयमिति कथितं परन्तु तस्मिन्नेव ग्रन्थान्ते कुन्दकुन्दाचार्यः वदति यत् प्रवचनभक्ति- वशात् मार्गप्रभावनायै मयायं लिखितः। अतः शिवकुमार विषयक - प्रमाणं कालनिर्णये सहायकं नास्ति। कुरलकाव्याधारोऽपि सन्देहास्पदः यतो हि तस्य कर्ता एलाचार्यः भवितुं शक्नोति परन्तु सः कुन्दकुन्दः एवेति न सिद्धम्।
चक्रवर्तीमहोदयेन च कुन्दकुन्दाधारेण कुरलस्य कालनिर्णयप्रयासः कृतः न तु कुरलाधारेण कुन्दकुन्दस्य। अतः मतद्व्यमपि कालनिर्णयसाधकं नास्ति, केवलं श्रुतावतारोक्तप्रमाणमेवात्र सहायकम् ।  तन्मतञ्च उपाध्येवर्येण स्वीकृतं नास्ति, तस्य कारणानि तेनैतानि प्रोक्तानि-
एतादृशी टीका उपलब्था नास्ति । 
धवला जयधवलायामपि स्पष्टोल्लेखः नास्ति।
उत्तरकालीन साहित्येऽपि अस्याः टीकाया: उल्लेख: नास्ति।

ग्रन्थेषु प्रमाणं नास्ति यत् कुन्दकुन्दाचार्येण षट्खंडागममाधारीकृत्य टीका लिखिता।
विबुधश्रीधरोऽपि स्वश्रुतावतारे इन्द्रनन्देः मतमस्वीकारं करोति, तन्मतानुसारं कुन्दकुन्दादधिगम्य कुन्दकीर्तिना परिकर्मग्रन्थः रचितः।
अन्तिमे इन्द्रनन्देः मतमस्वीकुर्वन् उपाध्येवर्यः वदति यदहं कुन्दकुन्दं व्याख्याकारापेक्षया सिद्धान्तविवेचक- रूपेणैव पश्यामि ।
किन्तु उपाध्येवर्येणोक्त - कारणानि बलयुतानि न प्रतीयन्ते यतो हि 
श्रुतावतारे इदं नोक्तं यत् परिकर्म टीकाग्रन्थो प्रत्युत् तत्र तु परिकर्मणः ग्रन्थमात्ररूपेणैवोल्लेखः। 
तथा च परिकर्मग्रन्थस्य नैकान्युद्धरणानि  धवलायां प्रदर्शितानि सन्ति । 
श्रीधरस्य यन्मतं तेनोपस्थापितं तत् नितान्तमसाधुः।कुन्दकुन्दस्य कुन्दकीर्तिरिति नाम्नः शिष्यस्य कुत्रापि उल्लेख: नास्ति,    श्रीधरविरचितश्रुतावतारे च इतिहासविरुद्धानि  बहूनि कथनानि सन्ति ।
उपाध्येवर्येण यदा उपर्युक्तानि कारणानि प्रस्तुतानि तदा धवलाया: प्रकाशनं नाभवत्, कालान्तरे धवलां दृष्ट्वा तेन स्वमतं परिवर्तितम् ।
हीरालालमहोदयेनापि इन्द्रनन्दिकृतोल्लेख: साधार: स्वीकृतः-
"कुन्दकुन्दसम्बद्ध तथ्याः षट्‌खण्डागमस्य कालनिर्णये सहायका: सन्ति, श्रुतावतारानुसारं कर्मप्राभृत- कषाय प्राभृतयो: प्रणयने सति कोण्डकुन्दपुरे गुरुपरम्पराप्राप्तसिद्धान्तज्ञानं पद्मनन्दिः षट्खण्डागमस्य त्रिषु खण्डेषु परिकर्मनामक - द्वादशसहस्रश्लोक प्रमाणं टीकाग्रन्थं रचितवान् । पद्मनन्दि कुन्दकुन्दस्यापरं नाम आसीत् श्रुतावतारे च कोण्डकुन्दपुरस्य उल्लेखत्त्वात् निश्चियेन तत्र कुन्दकुन्दः एव गृहीतः।"
श्रुतावताराधारेण कुन्दकुन्दस्य कालनिर्णय: -
तिलोयपण्णत्ति - हरिवंशपुराण- धवला- जयधवलादिपुराणोत्तरपुराण- श्रुतावतार - जम्बूद्वीपप्रज्ञप्तिषु महावीरानन्तरं पूर्वविदामाचार्याणां सूची कालगणनया साकं दत्ता वर्तते । तदनुसारं महावीरात् द्विषष्टिः वर्षानन्तरं त्रय: श्रुतकेवलिन: अभवन्, तदनन्तरं शतवर्षाणामवधौ पञ्च केवलिनः,तदनन्तरं त्र्यशीत्युत्तरैकशतवर्षाणामवधौ एकादशाङ्गानां दशपूर्वाणाञ्च ज्ञातार:,  तदनन्तरं द्वाविंशत्युत्तरद्विशतवर्षाणामवधौ पञ्च एकादशाङ्गानां वेत्तारः, तदनन्तरं एकादशवर्षाणामवधौ चत्वारः आचाराङ्गगधारिणः क्रमशः अभवन्। एवं त्र्यशीत्युत्तरषट्शतवर्षाणि यावत् आचार्यपरम्परा दत्तास्ति तत्रान्तिम: लोहाचार्योऽभवत्।
किन्तु नन्दिसंघस्य पट्टवल्यामंगविदाचार्याणां या गणनासूची दत्ता सा काचित् विशिष्टा तस्यां प्रत्येकमाचार्यस्य काल: पृथक्-पृथक् दत्तः तथा गणनायां पुष्पदन्त-भूतबल्याचार्यौ सम्मिल्लितौ । अनयोराचार्ययोः काल: पञ्चाशत् वर्षाणि स्वीकृतः, तदनुसारं वीरनिर्वाणात् त्र्यशीत्युत्तरषट्शततमे वर्षे, अर्थात् त्रयोदशोत्तरद्विशतविक्रमाब्द्यां षट्खण्डागमस्य रचना सम्पन्ना जाता, तद्‌ग्रन्थाधारेण परिकर्मग्रन्थस्य कर्त्ता ततः पूर्वं भवितुं न शक्नोति अतः कुन्दकुन्दाचार्यस्य कालावधे: पूर्वसीमा त्रयोदशोत्तरद्विशतविक्रमाब्दिरेव निश्चीयते।
श्रुतावतारानुसारं कुन्दकुन्दः षट्‌खण्डागमाधारेण  ग्रन्थप्रणयने प्रथमः तदनन्तरमेव शामकुण्डादिभिः टीका: लिखिताः, अतः कुन्दकुन्दाचार्यः उपर्युक्तावधे- रधिकसमयानन्तरं भवितुं न शक्नोति, अत्र च विद्वज्जनबोधके उद्धृतः श्लोकः नूनमेव दृष्टव्यः-
वर्षे सप्त शते चैव सप्तत्या च विब्भृतौ।
उमास्वामिमुनिजीत कुन्दकुन्दस्तथैव च ।।
श्लोकेऽस्मिन् मुख्यतया उमास्वामिनः कालनिर्णय:.कृतः यश्च सप्तत्युत्तरसप्तशततमवीरनिर्वाणसंवत्सरे, तदनुसारं त्रिशतविक्रमाब्द्यां स्वीकृत:, समकालीनत्वात् कुन्दकुन्दाचार्यस्य नामापि श्लोके योजितः।
परन्तु प्रमाणसिद्धं यत् कुन्दकुन्दः उमास्वामिनः पूर्ववर्ती, तस्यान्वये च उमास्वामी अभवत् । तथाप्यनयोः मध्ये कस्यापि आचार्यस्य नाम न श्रूयते, तस्मादुभयो : मध्ये कालान्तराल: अधिक : न प्रतीयते । नन्दिसंघपट्टावल्यां तु कुन्दकुन्दानन्तरं उमास्वामिनः आचार्यपदप्रतिष्ठोक्ता, तदनुसारं उमास्वामी कुन्दकुन्दस्य शिष्य: प्रतीयते, शिष्य: स्यात् न वा परन्तु समकालिनौ तावास्ताम् नास्त्यत्र संशयः । एवं निर्णीते कुन्दकुन्दस्य काल: विक्रमस्य तृतीयशताब्द्या: पूर्वार्धः, ईसाया: द्वितीयशताब्द्याः उत्तरार्धः वा स्यात् । प्रेमी-मुख्तार - हीरालालादयः विद्वांसः, उपाध्येवर्यश्चात्र सहमता: दृश्यन्ते।
कुन्दकुन्द : यतिवृषभश्च-
श्रुतावतारानुसारं परिकर्मग्रन्थस्य कुन्दकुन्दकृत्कत्वं सिद्धम्। गुणधराचार्यश्च.धरसेनाचार्यादर्वाचीन: न प्रतीयते तस्मात्तस्य कसायपाहुडस्य  गाथाः अपि कुन्दकुन्देन प्राप्ताः स्युः परन्तु गुणधराचार्यस्य गाथासूत्रेषु यतिवृषभकृतचूर्णिसूत्राण्यपि तं प्राप्तान्यासन् इति विचारणीयम्।
तिलोयपण्णत्तिग्रन्थे या राज्यकालगणना वर्तते तस्याः आधारेण सः ग्रन्थः विक्रमस्य षट्शताब्द्याः  पूर्वं रचितः न शक्यते । तस्य वर्तमानस्वरूपश्च यदि यतिवृषभकृत: तर्हि तस्य कालोऽपि कुन्दकुन्दात् त्रिशताब्द्यनन्तरं विक्रमस्य षष्ठी शताब्दिरेव । किन्तु जयधवलानुसार श्रुतावतारानुसारञ्च आर्यभिक्षुनागहस्तिभ्यां गुणधररचित सूत्राणि पठित्वा यतिवृषभ: चूर्णिसूत्राणां रचनां कृतवान्, दिगम्बरपरम्परायामाभ्यां नामभ्यां अन्यः कश्चिद् न श्रूयते, श्वेताम्बरीय - नन्दिसंध- स्थविरावल्याम् आर्यमंगुः आर्यनागहस्तिश्च इत्यनयोः उल्लेख : अस्ति परन्तु तत्र तौ समकालिनौ नोक्तौ । उभयो: मध्ये द्वयो: शताब्द्यो: कालान्तरालः अस्ति ।मथुराया: कुषाणकालीनशिलालेखेनानुमीयते यत् षट्‌खण्डागमस्य रचनाकालः नागहास्तिनश्च कालः समानमेव। तत्समये महाकर्मप्रकृतिप्राभृतं वर्तमानमासीत् तस्य लोप: न स्यात् तस्मादेव धरसेनाचार्येण भूतबलिपुष्पदन्तौ पाठितौ। नन्दिसंघस्यस्थविरावल्यांनागहस्तिनं 'कम्मपयडिप्रधान' इत्याख्यातं, यतिवृषभाचार्य : च चूर्णिसूत्रेषु 'कम्मपयडीसु' इति लिखित्वा महाकर्मप्रकृतिप्राभृतस्य निर्देशः करोति। अतः यतिवृषभः नागहस्तिनः शिष्यः भवितुं शक्नोति यद्येवमस्ति तर्हि सः कुन्दकुन्दस्य समकालीन: स्यात् तथा कुन्देकुन्देन  चूर्णिसूत्राणि प्राप्तानि स्युः  किन्तु चूर्णिसूत्राणामुच्चारणावृत्ति कुन्दकुन्दस्य समक्षे उपस्थिता आसीतदिति भवितुं न शक्यते।

मूलसंघ: कुन्दकुन्दान्वयश्च -
भगवतः महावीरस्य समये जैनसाधवः निर्ग्रन्थसम्प्रदायररूपेण प्रसिद्धाः आसन्, तस्मादेव बौद्धानां त्रिपिटकेषु महावीरस्य परिचये 'निगठ नाट पुत्त' इत्येतानि पदानि प्राप्यन्ते । अशोकस्य शिलालेखेऽपि 'निगठ' शब्देन तस्य निर्देशः कृतः। किन्तु धारवाड़जनपदात् प्राप्तकदम्बवंशीयशिवमृगेशवर्मणः शिलालेखे श्वेतपटमहाश्रमणसंघस्य निर्गुन्थमहासंघस्य च पृथक् निर्देशोऽस्ति, तस्मात् स्पष्टं यत् ईसायाः चतुर्थ्यां पञ्चम्यां वा शताब्धां दिगम्बर सम्प्रदायः निर्ग्रन्थनाम्ना ख्यातः आसीत्। 
गंगवंशीयद्वितीयमाधववर्मण: तत्पुत्रस्याविनीतस्य च शिलालेखे मूलसंघस्योल्लेख: प्राप्यते । यतो हि जैनपरम्पराया: मूलनाम निर्ग्रन्थः दिगम्बरसम्प्रदायं प्राप्तमासीत् अत: तदेव मूलसंघेनाभिधीयते ।वट्टकेराचार्य-प्रणीत - मूलाचारोऽपि मूलसंघसम्बद्ध: अतः ततः पूर्वमपि मूलसंघ इति नाम प्रचलितमासीत्, मूलाचारस्योल्लेख : पञ्चमशताब्द्याः तिलोयपण्णत्तिग्रन्थे प्राप्यते अत: मूलाचारग्रन्थः मूलसंघ इति नाम च ततः पूर्वं चतुर्थशताब्द्यां प्रचलितः स्यात् ।अतः स्पष्टं यत् कुन्दकुन्दात् द्विशताब्द्यनन्तरं मूलसंघ इति पदस्योल्लेख: प्राप्यते । अस्य पदस्य स्थापनायां कुन्दकुन्दाचार्यस्य साक्षात् योगदानमासीत् न वा इति तु वक्तुं न शक्यते परन्त्वाधारशिला तेनैव स्थापिता यतो हि तस्य ग्रन्थेषु उक्ताः नग्नतास्त्रीमुक्तीत्यादयःविषयाः एव मूलशब्दविषयकाः, तैरेव दिगम्बरसम्प्रदायः मूलसंघ - नाम्ना ख्यातः अस्ति।
कुन्दकुन्दाचार्यस्य प्राचीनोल्लेख: मर्कराया: यस्मिन्  ताम्रपत्रे प्राप्यते तस्यासाधुत्वं गुलाबचन्द्रवर्येण प्रतिपादितं । परन्तु तत्पत्रं चतुर्नवतितमशिलालेखेन साम्यमनुहरति । चतुर्नवतितमशिलालेखानुसारं यं मूलसंघप्रमुखचन्द्रनन्द्याचार्याय   कोंगुणीवर्मणा भूमिदानं दत्तं तस्यैव दानविषयकोल्लेखः मर्कराताम्रपत्रेऽपि विद्यते । तत्र तस्य गुरुपरम्परामुल्लिखन् तस्य गणना देशीयगणकुन्दकुन्दान्वये कृता वर्तते । ताम्रपत्राङ्किततिथिः कदाचित् मिथ्या स्यात् , देशीय गणस्योल्लेखोऽपि कालान्तरे योजितः भवेत् परन्तु तत्पत्रे दत्ता, चन्द्रनन्दिगुरुपरम्परा मिथ्या भवितुं न शक्नोति तस्याः किमपि आधारः स्यादेव। चन्द्रनन्दे: गुरुपरम्परा एवमस्ति- गुणचन्द्र - अभयनन्दि - शीलभद्र - जयनन्दि-गुणनन्दि-चन्द्रनन्दिश्च। एतेषु नन्द्यन्तः नामानि श्रूयन्ते कुन्दकुन्दस्यय च मूलनाम पद्मनन्दिरस्ति, अतः उक्तगुरुपरम्परया सह कुन्दकुन्दान्वयस्योल्लेखे आश्चर्यः नास्ति। अथवा यत् गुलाबचन्द्रमहोदयेनोक्तं तदनुसारं कुन्दकुन्दान्वयेन सह देसियगण - शब्दः कालान्तरे योजित: संभावितः। कुन्दकुन्दस्योत्तरकालीनप्रभावं.दृष्ट्वा प्रतीयते यत् कुन्दकुन्दस्य नाम्नैव कुन्दकुन्दान्वयः प्रचलित: तस्मिन् स्थानस्य नाम तु स्वतः आगतमेव । कोंगुणीवर्माविनीतस्य पुत्रः दुर्विनीत: पूज्यपादस्वामिनः शिष्य: आसीत् । पूज्यपादेन च वारसाणुवेक्खा-ग्रन्थतः सर्वार्थसिद्धिग्रन्थे गाथा: उद्धृता:। कुन्दकुन्दान्तरं पूज्यपादेनैव श्वेताम्बरीय मान्यतानां खण्डनं कृतं । कुन्दकुन्दः केवलं वस्त्रसहितसाधुत्वस्य स्त्रीमुक्तेश्च विरोधे लिखितवान् परन्तु पूज्यपादः कवलाहारविषयेऽपि लिखितवान्। अतः पूज्यपादशिष्यस्य दुर्विनीतस्य पितुः शिलालेखे कुन्दकुन्दान्वयस्योल्लेख: संभवत्येव । अस्यां स्थितौ ताम्रपत्राङ्कितषण्मुनीनां काल: आहत्य शतवर्षाणि स्वीक्रियते चेत् चतुर्थशताब्द्यां कुन्दकुन्दान्वयः प्रवर्तितः मन्तव्यः । ऐतिहासिक - प्रमाणैश्च स्पष्टमेव यत् चतुर्थशताब्द्यामेव मूलसंघस्य स्थापनाभवत् । इत्थं मूलसंघ- कुन्कुन्दान्वयोश्च प्रवृत्तिः समकाल एवाभवत्। तयोरुद्भवे मूलरूपेण कुन्दकुन्दः एव लक्षितः भवति एतस्मादेव कारणाद्  कुन्दकुन्दस्य महत्त्वमस्ति।
कुन्दकुन्दाचार्यस्य विदेहगमनम्-
कुन्दकुन्दाचार्यस्य विदेहक्षेत्रगमनविषयकप्राचीनतमोल्लेखः नवत्युत्तरनवशतविक्रमाब्द्यां (९९०वि.सं.) देवसेनविरचित-दर्शनसारग्रन्थेऽस्ति,  तस्यान्ते च सङ्कलनात्मकोऽयं ग्रन्थ: इत्युक्ततत्वादनुमीयते यत् सा कथा ततोऽपि पूर्वं प्रचलितासीत्।
जयसेनाचार्येणापि पञ्चास्तिकायसंग्रहग्रन्थस्य टीकायामस्याः कथायाः विषये 'प्रसिद्धकथान्यायेन' इत्युक्त्वोल्लेखः कृतः। श्रवणबेलगोलायाः शिलालेखे  तं चारणर्द्धिसम्पन्नं कथितम्। ग्रन्थेषु ऋद्धिष्वन्यतमा चारणर्द्धि बहुभेदयुता प्रतिपादितास्ति।
पृथिव्याः  चतुरङ्गुलप्रमाणाकाशे योजनानि गम्यन्ते यया सा चारणर्द्धिः। पद्मासनेन कायोत्सर्गस्थित्या वा पदसञ्चालनं विनाकाशगमनं यया भवति साकाशगामिन्यृद्धि। पुराणेषु एतादृशामृद्धिसम्पन्नानां मुनीनां कथाः सन्ति, परन्तु  यदि कुन्दकुन्दाचार्य: सीमन्धरस्वामिनः दिव्यध्वनिं श्रुत्वा ग्रन्थप्रणयनं कृतवान् तर्हि तेन समयसारः श्रुतकेवलिभणितः इत्युक्तः न स्यात्, श्रुतकेवलिञ्च स्वगमकगुरुं नोक्त्वा सीमन्धरस्वामिनं केवलिनं वा गुरुरूपेण स्मृतं स्यात्। अतः किम्वदन्तीयं नात्यर्वाचीना, प्राचीना एव, परन्तु कुन्दकुन्दाचार्यस्य ग्रन्थैरस्याः पुष्टिः न भवति।

प्रवचनसारस्य तृतीयगाथायां  कुन्दकुन्दाचार्यः मनुष्यक्षेत्रे वर्तमानान् अर्हन्तान् नमस्करोति, तामाश्रित्य उपाध्येवर्यः लिखति यत्- ' गाथामिमां तस्या: किम्वदन्त्याः उद्गमस्थलरूपेण वक्तुं लुब्धोऽस्मि। यतोहि कुन्दकुन्दाचार्यः इतः विदेहक्षेत्रस्थितं सीमन्धरस्वामिनं नमस्कृतवान्, अनेन ज्ञायते यत् स: तत्र गतवान्।
इदमत्रावधेयमस्ति यदेतादृशी किम्वदन्ती पूज्यपादोमास्वामिनोः विषयेऽपि वर्तते। मुम्बईत: प्रकाशिततत्त्वार्थश्लोकवार्तिकस्य प्रस्तावनायां लिखितं यत् शंकासमाधानार्थमुमास्वामी विदेहक्षेत्रं गतवान्। तस्य गृद्धपिच्छाचार्याभिधानसम्बद्धः उल्लेखोपि तत्रास्ति। औषधलेपप्रभावात् पूज्यपादः विदेहक्षेत्रं गतवान् इति ‘राजावलिकथे’ इति नाम्नि ग्रन्थे लिखितम्। श्रवणबेलगोलाया: एकस्मिन् शिलालेखे पूज्यपादस्य प्रशस्त्यां लिखितं वर्तते यत् सोऽनुपमौषधर्द्धिसम्पन्नः विदेहस्थजिनदर्शनात् पवित्रकायोऽभवत् यस्य च पादप्रक्षालनजलस्पर्शप्रभावात् लौहमपि स्वर्णं जातम्।
पूज्यपादोमास्वामिविषयकः उल्लेखः दर्शनसारादर्वाचीनोऽस्ति। पूज्यपादस्य प्रशस्तिस्तु दर्शनसारात् पञ्चशतवर्षेभ्योऽनन्तरं नवत्युत्तरचतुर्दशशततमविक्रमाब्द्यां (१४९०वि.सं) रचिता वर्तते। अतः प्रचीनतममपि कुन्दकुन्दविषयकं कथनमैतिहासिकतथ्यरूपेण स्वीकर्तुं न शक्यते, तद्विषये इतोऽप्यनुसंधानमावश्यकम्।
कुन्दकुन्दाचार्यस्य गुरु: -
पञ्चास्तिकायसंग्रहस्य जयसेनाचार्यकृतटीकायां कुन्दकुन्दाचार्यस्य गुरोर्नाम कुमारनन्दिसिद्धान्तदेवः, नन्दिसंघस्य पट्टावल्याञ्च जिनचन्द्राचार्यः इति प्राप्यते। 
श्रवणबेलगोलायाः सप्तविंशत्युत्तरद्विशततमे शिलालेखे विद्यानन्दिविरचितप्रमाणपरीक्षायाञ्च कुमारनन्देरुल्लेखोस्ति  परन्तु सस्तु कश्चित् दार्शनिक:, तस्य कालोऽपि नातिप्राचीनः। ‘सिद्धान्तदेव’  इति विशेषणस्यापि तस्य नाम्ना सहोल्लेखः नास्ति। तथा च सिद्धान्तदेव इति विशेषणमपि प्राचीनं न प्रतीयते यतो हि श्रवणबेलगोलायाः शिलालेखेषु दशमशताब्द्याः केषाञ्चन विदुषां नाम्ना सह एतदेव विशेषणं प्राप्यते यथा- प्रभाचन्द्रसिद्धान्तदेव:, देवेन्द्रसिद्धांतदेव:, शुभचन्द्र-सिद्धांतदेवश्च। अतः जयसेनाचार्यस्य मतं सम्यक् न प्रतिभाति। पट्टावल्यामुल्लिखितः जिनचन्द्रश्च माघनन्देः शिष्यः आसीत्, सः कुन्दकुन्दस्य गुरुरिति यद्यपि प्रमाणान्तरैः समर्थितः नास्ति तथापि पट्टावल्याधारेण तथा स्वीकर्तुं शक्यते।
कुन्दकुन्दाचार्यश्च बोधपहुड़ग्रन्थे आत्मानं भद्रबाहोः शिष्यत्वेन प्रतिपादयति- 
सद्दविआरो हूओ भासासुत्तेसु जं जिणे कहियं।
सो तह कहियं णायं सीसेण य भद्दबाहुस्स ॥६१॥
वारसअंगवियाणं चउदस पुव्वंग विउलवित्थरणं ।
सुयणाणि भद्दबाहू गमयगुरू भयवओ जयओ ॥६२॥
प्रथमगाथायामुक्तं यत्-  भगवता जिनेन्द्रणार्थरूपेण यत् कथितं तद् भाषासूत्रेषु शब्दविकारत्वं प्राप्तं, मया भद्रबाहुशिष्येण तत्तथैवावगतमुक्तञ्च।  द्वितीयगाथायामुक्तं यत्- द्वादशाङ्गचतुर्दशपूर्वस्य वेत्ता भगवान् भद्रबाहुः जयतु।  अत्रोक्तः भद्रबाहुः न कश्चिदन्यः, अन्तिमश्रुतकेवली भद्रबाहुरेव इति द्वितीयगाथया स्पष्टमस्ति, तथ्यस्यास्य समर्थनञ्च समयसारस्य प्रथमगाथायाः उत्तरार्धेनापि भवति, तत्रोक्तं 'श्रुतकेवलीभणितं समयसारं वक्ष्यामि'।  एषः श्रुतकेवली भद्रबाहोरन्यः कोपि भवितुं न शक्नोति। श्रवणबेलगोलायाः नैकेषु शिलालेखेष्वुल्लेखोस्ति यत् स्वशिष्यचन्द्रगुप्तेन सार्धं  भद्रबाहुः दक्षिणदेशं  गतवान् तत्रैव च एकस्यां गुहायां तस्य स्वर्गवासो ऽभवत् । ऐतिहासिकतथ्यत्वेनेदं  विद्वद्भिः स्वीक्रियते एव। तथा च कुन्कुन्देन तस्य स्मरणं गुरुरूपेण कृतं तस्मादपि तस्याः घटनायाः प्रामाणिकता ज्ञायते,  अंगविदां परम्परायां तस्य गणनाभावादिति ज्ञायते  यत् कुन्दकुन्दः भद्रबाहो: समकालीन:.नास्ति, तथापि सः तथ्येनानेन परिचितोऽस्ति यत् स्वशिष्य-प्रशिष्यैः सह सः  दक्षिणदेशं गतवान् तैरेव च तत्र जैनधर्मस्य प्रसारः कृतः। तस्मादेव सः तं गमकगुरुरूपेण स्मरति, परम्पराप्राप्तज्ञानञ्च 'श्रुतकेवलीभणितमिति कथयति। अतः बोधपाहुडस्यान्तिमगाथासु स्मृतः श्रुतकेवली भद्रबाहुरेव।
किन्तु जुगलकिशोरमुख्तार-वर्येण उपर्युक्तं गाथाद्वयं पृथक् पृथक् गृहीतं न च सम्बद्धम्। समन्तभद्राख्ये स्वनिबन्धे  केवलं प्रथमगाथामुद्धृत्य तेनोक्तं यत्
"गाथायां ‘सीसेण य भद्दबाहुस्स' (शिष्येण भद्रबाहो:) इति पदेन ध्वन्यते यत् सः शिष्य: ग्रन्थकर्ता - कुन्दकुन्दादन्यः कश्चित नास्ति । यदि सा गाथा निश्चयेन तस्य एव ग्रन्थस्यास्ति तर्हि कुन्दकुन्देन स्ववाक्यानां प्रामाणिकतास्थापनार्थं भद्रबाहो: स्मरण कृतं प्रतीयते, अन्यत् किमपि प्रायोजनं नास्ति।
'भद्रबाहो: शिष्येण' इति पदस्य टीकाकारश्रुतसागरेण कृता व्याख्या सम्यक् न प्रतीयते। तेन  भद्रबाहो: शिष्यस्य विशाखाचार्यस्य कल्पनां कृत्वा प्रकरणेनासम्बद्धत्वेऽपि उल्लेख: कृतः। इदमिदानीं द्रष्टव्यमस्ति यत् कुन्दकुन्देन गुरुत्वेन स्मृतः भद्रबाहुः  कः आसीत् । श्रुतकेवली तु सः न प्रतीयते यदि, तं श्रुतकेवलीं स्वीकुर्मः तर्हि कुन्दकुन्दस्य समय: विक्रमात् त्रिशतवर्षेभ्यः पूर्वं स्वीकर्तव्यः। तथा स्वीकृते च तस्मिन् समये दशपूर्वविदामुपस्थितौ कुन्दकुन्दान्वयस्य प्रतिष्ठाभवदिति सम्यक् न प्रतीयते । अतः कुन्दकुन्देन तस्य भद्रबाहो: शिष्येण भवितव्यं यं विद्वान्सः आचारांगवित्सु तृतीयः मन्यन्ते। पट्टावल्यां च यदनन्तरं गुप्तिगुप्त-माघनन्दी- जिनचन्द्रस्य च कल्पना कृता"।
अत्र मुख्तारमहोदयेन द्वितीयगाथायाः विषये किमपि नोक्तं परन्त्वन्यस्मिन्  ''श्री कुन्दकुन्द और यतिवृषभ में पूर्ववर्ती कौन"  इत्याख्यनिबन्धे तेन प्रथमगाथायाः उपर्युक्तविषयः संक्षेपेणोक्त्वा लिखितं यत्- 
अत्र वक्तुं शक्यते यत् प्रथमगाथायामुल्लिखितः भद्रबाहुः श्रुतकेवली भद्रबाहुरेव न तु द्वितीयः भद्रबाहुः। कुन्दकुन्देन चात्मनं तस्य परम्परया शिष्यं प्रतिपादितं ।  परन्तु एवं नास्ति।  प्रथमगाथायामुल्लिखित: भद्रबाहुः श्रुतकेवली न प्रतीयते यतो हि श्रुतकेवलीभद्रबाहो: काले जिनकथितश्रुतौ एतादृशः विकारः उत्पन्नः नाभवत् यत् गाथायामुक्तं “सद्दविआरो हूओ भासासुत्तेसु जं जिणे कहियं” इति। तदा तु जिनकथिततत्वमवच्छिन्नमासीत् ।
मुख्तारमहोदयेन अस्याः पङ्क्तेरर्थः एवं कृतः -
जिनेन्द्र: महावीर: वा अर्थरूपेण यत् कथनं कृतवान् तद् भाषासूत्रेषु शब्द विकारत्वं प्राप्तं ,इत्युक्ते विभिन्नै: शब्दैः ग्रथितम्। अस्मिन्नर्थे जिनकथितश्रुतौ विकारोत्पत्ते: संकेतमात्रोऽपि नास्ति अतः उक्तकथनेन द्वितीयभद्रबाहुविषयकः  काल्पनिक - पक्षः अपाकृतः।
यद्यपि श्रुतसागरेण भद्रबाहो शिष्यस्यार्थः विशाखाचार्यः गृहीतः तथापि तस्य मतेनेदं तु स्पष्टमेव यत् श्रुतसागरोऽपि गाथास्मृतं  भद्रबाहुं श्रुतकेवलिनमेव स्वीकरोति।
द्वितीयगाथायाः अभावे विचारणीयमासीत् यत् कुन्दकुन्दः कस्य भद्रबाहो: शिष्यः परन्तु, द्वितीयगाथास्ति,   तया च स्पष्टमस्ति यत् कोऽयं भद्रबाहु: स्यात्। प्रथमगाथायामन्यस्य भद्रबाहोः  उल्लेखः अपरस्यामपरस्य चेति अपरस्य विवाहे अपरस्य गानमिवासङ्गतिः सम्यक् न प्रतीयते। अतोऽसन्दिग्धोऽयं विषयःयत् कुन्दकुन्देन गुरुरूपेण श्रुतकेवलिनः भद्रबाहोरेव स्मरणं कृतम् । द्विषष्टितमगाथायां सः तं गमकगुरुं कथयति, व्याकरणानुसारं गमकशब्दस्यार्थः प्रबोधकर्ता इति भवति तेनापि प्रमाणितः.भवति यत् कुन्दकुन्दाचार्यः  परम्परया श्रुतकेवलिनः भद्रबाहोः प्रबोधं प्राप्तवान्  तस्मादेव तेन समयसारं श्रुतकेवलीभाणितं कथितम्। 
द्वितीयभद्रबाहो: स्थितिः सन्दिग्धा । त्रिलोकप्रज्ञप्ति- धवला- जयधवलास्वंगविदां नामावलिसु यशोबाहुरिति नाम विद्यते श्रुतावतारे जयबाहुरिति च विद्यते । आदिपुराणे नन्दिसंघपट्टावल्याञ्च भद्रबाहुरिति नाम प्राप्यते । पट्टावल्यामपि द्वितीयभद्रबाहो: परम्परायां चतुर्थस्थाने कुन्दकुन्दस्योल्लेखः । तद्नुसारं कुन्दकुन्द : द्वितीयभद्रबाहोरपि परम्परया एव शिष्यः प्रतीयते । किन्तु श्रवणबेलगोलाया: चत्वारिंशततमे शिलालेखे कुन्दकुन्दस्य स्थानं भद्रबाहो: चन्द्रगुप्ताच्चानन्तरं विद्यते, तदनुसारं कुन्दकुन्दः भद्रबाहोरन्वये आसीत् । बोधपाहुड़ेनापि अस्य समर्थनं भवति। निष्कर्षरूपेण वक्तुं शक्यते यत् कुन्दकुन्देन गुरुरूपेण स्मृतः भद्रबाहुः श्रुतकेवली भद्रबाहुरेवास्ति।
कुन्दकुन्दाचार्यस्य कथा-
प्रेमीमहोदयेन ज्ञानप्रबोधत: एका कथा उद्धृता-
मालवादेशे वारापुरनगरे राजा कुमुदचन्द्रः राज्यं करोति स्म, तस्याः राज्ञी कुमुदचंद्रिका आसीत् । तस्मिन राज्ये कुन्दश्रेष्ठी - नामक: वणिक् निवसति स्म । तस्य पत्नी कुन्दलतासीत्।  तयो: 'कुन्दुकुन्दः' इत्याख्यः पुत्रो जातः । एकदा स्वमित्रै: सह क्रीडता तेन बालकेन उद्याने एक: मुनिः दृष्टः तस्य मुनेरुपदेशं श्रुत्वा  एकादशवर्षीयः सः बालकः तच्छिष्योऽभवत् । मुनेः नाम जिनचन्द्रः इत्यासीत् । यदा सः शिष्यः त्र्यस्त्रिंशद -वर्षीयः आसीत् तदा जिनचन्द्रेण आचार्यपदे प्रतिष्ठापिता । एकदा कुन्दकुन्दस्य मनसि तत्वविषये काचित् शंकाभवत्, तदा तेन शुद्ध- मनोवचनकायै: सीमन्धरस्वामिनः स्मरणं कृतम् । सीमन्धरस्वामिना च तस्मै सद्धर्मवृद्धिरस्तु इति आशीर्वचांसि उक्तानि इति ध्यानमग्नेन तेन श्रुतम्। एतद् दृष्ट्वा समवशरणे उपस्थिताः जनाः चकिताः आसन्  यत् अत्र तु केनापि नमस्कारं न कृतं, तर्हि कस्मै भगवता आशीर्वाद: दत्ता, तदा सीमन्धरस्वामी उक्तवान् यत् मया भरतक्षेत्रस्थकुन्दकुन्दमुनये आशीर्वचांसि उक्तानि । तदा चारणर्द्धिसम्पन्नौ मुनी, यौ पूर्वभवे कुन्दकुन्दस्य मित्रे आस्ताम, कुन्दकुन्दं विदेहक्षेत्रं नीतवन्तौ ।
आकाशमार्गेण - गमनसमये कुन्दकुन्दस्य मयूरपिच्छं पतितं तदा तेन गृद्धपिच्छनिर्मितपिच्छं धारितं । एक सप्ताहात्मक : काल: कुन्दकुन्देन  तत्र व्यतीतः शंकाया: समाधानं च प्राप्तम्। प्रत्यागच्छता तेन एकं पुस्तकमपि नीयमानासीत् परन्तु तत् समुद्रे पतितम् । बहूनां तीर्थक्षेत्राणां वन्दनां कुर्वन् सः प्रत्यागतः धर्मोपदेश्च प्रारब्धः। सप्तशतश्रावकश्राविकाश्च तत्सन्निधाने दीक्षां धारितवन्त: । किञ्चित् समयानन्तरं तस्य गिरनारपर्वते श्वेताम्बरै: सह विवादे ब्राह्मीदेव्या स्वीकृतं यत् निर्ग्रन्थमार्गः एव समीचीनमार्गः ।अन्ते च स्वशिष्यमुमास्वामिनमाचार्यपदे उपस्थाप्य सः दिवङ्गतः।
एकान्या कथा चक्रवर्तीमहोदयेन पञ्चास्तिकायसंग्रहस्य प्रस्तावनायां प्रस्तुता, तस्य लेखानुसारमेषाकथा पुण्यास्रवकथानामकग्रन्थे शास्त्रदानस्य फलं वर्णयितुमुदाहरणरूपेण प्रस्तुता -
भारतखण्डस्य दक्षिणदेशे पिडथनाडू' प्रदेशोऽस्ति तस्यान्तर्गते- 'कुरुमरई' इत्यस्मिन् ग्रामे 'करमण्डु' इत्याख्यः वैश्यः आसीत्। तत्पत्नी श्रीमती आसीत् । तेषां समीपे एक: गोप: निवसति स्म, तस्य नाम 'मतिवरन' इत्यासीत्। एकदा पशून् वने चारयन्नासीत् तदा सः दृष्टवान् यत् सम्पूर्णमपि वनं दावाग्निना दह्यमानमस्ति परन्तु मध्ये केचनवृक्षाः यथावदासन् तत्र गत्वा सः ज्ञातवान् यत् कस्यापि मुनेः निवासस्थानमेतत् ,  तत्रैव च एकस्यां पेटिकायां ग्रन्थाः निक्षिप्ताः आसन् । सः पठितुं न शक्यते स्म तथापि एतेषां ग्रन्थानां प्रभावादेव स्थानमेततदप्रभावितमिति विचिन्त्य सः तान् ग्रन्थान् ततः नीत्वा पवित्रस्थले तान् निक्षिप्य सः प्रतिदिनं तेषां पूजां करोति स्म ।  एकस्मिन् दिने एक: मुनि: नगरे आगतवान्, वैश्य: सादरं तस्मै मुनये आहारदानं दत्तवान् तदा सः गोपः तान् ग्रन्थान् तस्मै मुनये दत्तवान्, ग्रन्थान् प्राप्य प्रसन्नमनसा मुनिना वैश्यायाशीर्वादं दत्तं यदेषः गोपः तस्य पुत्रत्वेनोत्पन्नः भविष्यति। वैश्यस्य तदा कश्चित् पुत्रः नासीदतः सः प्रसन्नः अभवत् । आशीर्वादानुसारं वैश्यगृहे पुत्रः जातः कालान्तरे च कुन्दकुन्दाख्यः मुनिरभवत्। तदनन्तरं विदेहगमनकथापि पूर्ववत् तत्रास्ति । 
शास्त्रदानस्य फलस्योदाहरणरूपेण एका कथा ब्रह्मनेमिदत्तविरचिताराधनाकधाकोशेऽपि, पूर्वोक्तकथेवास्ति।-
भारतक्षेत्रे कुरुमरई-ग्रामे गोविन्दनामकःगोपः निवसति स्म। एकदारण्ये गुहायां निक्षिप्तमेकं ग्रन्थं सः  दृष्टवान् । गोपेन तच्छास्त्रं ततः गृहीत्वा पद्मनन्दिमुनये दत्तं। तस्य शास्त्रस्य वैशिष्ट्‌यमासीत् यत् तदनेकैराचायैः दृष्टं व्याख्यातञ्चासीत् तदनन्तरं तैराचार्यैः तस्यामेवगुहायां स्थापितमासीदतः पद्मनन्दिमुनिनापि तत्रैव स्थापितम्। गोपः प्रतिदिन तं पूजयति स्म। एकस्मिन् दिने स गोपः व्यालेन हतः निदानवशात् सः ग्रामपते: गृहे पुत्रोऽभवत्। कालान्तरे पद्मनन्दिमुनेः दर्शनेन सः पूर्वभवं स्मृत्वा जिनदीक्षां धारितवान्।
ततः समाधिमरणं कृत्वा कोण्डेशनामको राजाभूत् तत्रापि सर्वान् सुखान् परित्यज्य जिनदीक्षां गृहीतवान्। जिनदेवजिनगुर्वोश्चाराधनाप्रभावात् स: श्रुतकेवली अभवत्।

रत्नकरण्डश्रावकाचारे शास्त्रदानप्रसङ्गे 'कौण्डेश' इत्याख्यस्य राज्ञः श्लोके उल्लेखोस्ति टीकायाञ्चोपर्युक्ता कथा वर्णितास्ति। 
पण्डिताशाधरवर्येणापि सागारधर्मामृतग्रन्थे शास्त्रदानस्य फलं वर्णयता कौण्डेशस्योदाहरणं दत्तं टीकायाञ्च सः पूर्वभवे गोविन्दगोपः आसीदित्यपि वर्णितमस्ति।
अस्याः कथाया: सन्दर्भे उपाध्येवर्य: लिखति यत् नाम्नां सादृश्यतावशादेषा कथा कुन्दकुन्दस्य कथारूपेण प्रसिद्धाभवत् ।
परन्तु वस्तुतः इयं कथा कुन्दकुन्दसम्बद्धा स्यादिति कौण्डेशनाम्ना ज्ञायते।
त्रिपञ्चाशदुत्तराष्टशततमे - शकसंवत्सरे हरिषेणविरचित बृहत्कथाकोशे कुन्दकुन्दस्य नामापि नोल्लिखितं तस्मादनुमीयते यत् ताः कथा: पश्चादवर्तिकाले प्रचलिताभवन् । एताभिः कथाभि: तत्समये कुन्दकुन्दस्य लोकप्रियता सूच्यते। तासामाधारा: कतिपयघटनाः स्युः, ताः सर्वथाः काल्पनिकाः इति वक्तुं न शक्यते।
कुन्दकुन्दस्य ग्रन्थाः तेषां महत्त्वञ्च – 
            दिगम्बर-जैन-परम्परायां कुन्दकुन्दचार्य-विरचित-ग्रन्थानां महत्त्वपूर्णं स्थानमस्ति। तस्य वर्णनशैली सुबोधास्ति यया पाठकाः वस्तुस्वरूपं सरलतयावगच्छन्ति। अनावश्यक-विस्तरं विना संक्षिप्तैः सार्थकैश्च पदैः वर्णनमेतेषां ग्रन्थानां विशिष्टता वर्तते। कुन्दकुन्दस्य वाणी हृदयस्पर्शिनी विद्यते। निम्नलिखिताः ग्रन्थाः कुन्दकुन्दाचार्येणैव रचितेति निर्विवादं स्वीक्रियते, तेषु च जैनानां महती श्रध्दास्ति-
पञ्चास्तिकायः
समयसारः
प्रवचनसारः 
नियमसारः
अष्टपाहुडम् ( दंसणपाहुडम्, चरित्रपाहुडम्. सुत्तपाहुडम्, बोधपाहुडम्, भावपाहुडम्, मोक्खपाहुडम्, सीलपाहुडम्, लिंगपाहुडञ्च)
       रयणसारोऽपि कुन्दकुन्दविरचितः इति प्रसिध्दः, परन्तु तस्य बहून् पाठभेदान् दृष्टवा विदुषां मतमस्ति यत् रयणसारः कुन्दकुन्दस्य कृतिः नास्ति। ‘भांडारकर रिसर्च इन्स्टिट्यूट्’ पूनातः पञ्चविंशत्युत्तराष्टादशतयसंवत्सरस्य एकं हस्तलिखितं संस्करणं प्राप्तमासीत्। परन्तु तस्मिन् संस्करणे, मुद्रितसंस्करणे च परस्परं भेदं प्राप्तम्। मुद्रितसंस्करणे नैकाः गाथाः त्यक्ताः नैकाश्च नूतनगाथाः योजिताः वर्तन्ते। पूनातः प्राप्त-हस्तिलिखितसंस्करणे रचयितुः नामापि नास्ति,ग्रन्थालयस्य सूच्यामपि तस्य कर्तुः नाम नासीत्।
परमानन्दशास्त्रिणोक्तं यत् तेन प्रायः अशीति संस्करणानि दृष्टानि, परन्तु सर्वेषां स्थितिः तथैवासीत्। मुद्रितसंस्करणेऽपभृंशभाषायामेकः ’दोहा’ अपि मुद्रितः आसीत् नैकाश्च गाथाः कुन्दकुन्दस्य मतात् विपरीतमतस्य पोषकाः अप्यासन्। तस्मादेव तस्य ग्रन्थस्यात्र संग्रहः न कृतः। श्रुतावतारानुसारं कुन्दकुन्दाचार्येण षट्खण्डागमस्योपरि ’परिकर्म’ इत्याख्यः ग्रन्थः रचितः , वीरसेनस्वामिनापि टीकायां तस्य ग्रन्थस्य बहुधोल्लेखः कृतः तेन ज्ञायते यत् वीरसेनस्वामिनः समये परिकर्मग्रन्थः विद्यमानः आसीत् परन्तु इदानीं सः ग्रन्थः नोपलभ्यते, ग्रन्थालयेषु, प्रधानतया दक्षिणदेशस्य संग्रहालयेषु सः ग्रन्थः अन्वेषणीयः अस्ति। मूलाचारोऽपि कुन्दकुन्दविरचितः मन्यते, यतो हि तस्य पुष्पिकायां “इति मूलाचार्य विवृतौ द्वादशोऽध्यायः” “कुन्दकुन्दचार्य-प्रणीत-मूलाचाराख्य विवृतिः” “कृतिरियं वसुनन्दिनः श्रमणस्य” एतादृशाः  उल्लेखाः प्राप्यन्ते। सन्दर्भेस्मिन् पुरातनवाक्यसूच्याः प्रस्तावनायां जुगलकिशोरमुख्तारमहोदयेन लिखितः सन्दर्भः पठितव्यः वर्तते।

Comments

Popular posts from this blog

जैन ग्रंथों का अनुयोग विभाग

जैन धर्म में शास्त्रो की कथन पद्धति को अनुयोग कहते हैं।  जैनागम चार भागों में विभक्त है, जिन्हें चार अनुयोग कहते हैं - प्रथमानुयोग, करणानुयोग, चरणानुयोग और द्रव्यानुयोग।  इन चारों में क्रम से कथाएँ व पुराण, कर्म सिद्धान्त व लोक विभाग, जीव का आचार-विचार और चेतनाचेतन द्रव्यों का स्वरूप व तत्त्वों का निर्देश है।  इसके अतिरिक्त वस्तु का कथन करने में जिन अधिकारों की आवश्यकता होती है उन्हें अनुयोगद्वार कहते हैं। प्रथमानुयोग : इसमें संयोगाधीन कथन की मुख्यता होती है। इसमें ६३ शलाका पुरूषों का चरित्र, उनकी जीवनी तथा महापुरुषों की कथाएं होती हैं इसको पढ़ने से समता आती है |  इस अनुयोग के अंतर्गत पद्म पुराण,आदिपुराण आदि कथा ग्रंथ आते हैं ।पद्मपुराण में वीतरागी भगवान राम की कथा के माध्यम से धर्म की प्रेरणा दी गयी है । आदि पुराण में तीर्थंकर आदिनाथ के चरित्र के माध्यम से धर्म सिखलाया गया है । करणानुयोग: इसमें गणितीय तथा सूक्ष्म कथन की मुख्यता होती है। इसकी विषय वस्तु ३ लोक तथा कर्म व्यवस्था है। इसको पढ़ने से संवेग और वैराग्य  प्रकट होता है। आचार्य यति वृषभ द्वारा रचित तिलोयपन्नत्ति में तीन लोक तथा उ

सम्यक ज्ञान का स्वरूप

*सम्यक ज्ञान का स्वरूप*  मोक्ष मार्ग में सम्यक ज्ञान का बहुत महत्व है । अज्ञान एक बहुत बड़ा दोष है तथा कर्म बंधन का कारण है । अतः अज्ञान को दूर करके सम्यक ज्ञान प्राप्त करने का पूर्ण प्रयास करना चाहिए । परिभाषा -  जो पदार्थ जैसा है, उसे वैसे को वैसा ही जानना, न कम जानना,न अधिक जानना और न विपरीत जानना - जो ऍसा बोध कराता है,वह सम्यक ज्ञान है । ज्ञान जीव का एक विशेष गुण है जो स्‍व व पर दोनों को जानने में समर्थ है। वह पा̐च प्रकार का है–मति, श्रुत, अवधि, मन:पर्यय व केवलज्ञान। अनादि काल से मोहमिश्रित होने के कारण यह स्‍व व पर में भेद नहीं देख पाता। शरीर आदि पर पदार्थों को ही निजस्‍वरूप मानता है, इसी से मिथ्‍याज्ञान या अज्ञान नाम पाता है। जब सम्‍यक्‍त्व के प्रभाव से परपदार्थों से भिन्न निज स्‍वरूप को जानने लगता है तब भेदज्ञान नाम पाता है। वही सम्‍यग्‍ज्ञान है। ज्ञान वास्‍तव में सम्‍यक् मिथ्‍या नहीं होता, परन्‍तु सम्‍यक्‍त्‍व या मिथ्‍यात्‍व के सहकारीपने से सम्‍यक् मिथ्‍या नाम पाता है। सम्‍यग्‍ज्ञान ही श्रेयोमार्ग की सिद्धि करने में समर्थ होने के कारण जीव को इष्ट है। जीव का अपना प्रतिभास तो निश

जैन चित्रकला

जैन चित्र कला की विशेषता  कला जीवन का अभिन्न अंग है। कला मानव में अथाह और अनन्त मन की सौन्दर्यात्मक अभिव्यक्ति है। कला का उद्भव एवं विकास मानव जीवन के उद्भव व विकास के साथ ही हुआ है। जिसके प्रमाण हमें चित्रकला की प्राचीन परम्परा में प्रागैतिहासिक काल से ही प्राप्त होते हैं। जिनका विकास निरन्तर जारी रहा है। चित्र, अभिव्यक्ति की ऐसी भाषा है जिसे आसानी से समझा जा सकता है। प्राचीन काल से अब तक चित्रकला की अनेक शैलियां विकसित हुईं जिनमें से जैन शैली चित्र इतिहास में अपना विशिष्ट स्थान रखती है। जैन चित्रकला के सबसे प्राचीन चित्रित प्रत्यक्ष उदाहरण मध्यप्रदेश के सरगुजा राज्य में जोगीमारा गुफा में मिलते है। जिसका समय दूसरी शताब्दी ईसापूर्व है।१ ग्यारहवीं शताब्दी तक जैन भित्ति चित्र कला का पर्याप्त विकास हुआ जिनके उदाहरण सित्तनवासल एलोरा आदि गुफाओं में मिलते है। इसके बाद जैन चित्रों की परम्परा पोथी चित्रों में प्रारंभ होती है और ताड़पत्रों, कागजों, एवं वस्त्रों पर इस कला शैली का क्रमिक विकास होता चला गया। जिसका समय ११वीं से १५वी शताब्दी के मध्य माना गया। २ जैन धर्म अति प्राचीन एवं अहिंसा प्रधान