Skip to main content

प्रवचनसारस्य दार्शनिकवैशिष्ट्यम्

                                                       प्रवचनसारस्य दार्शनिकवैशिष्ट्यम्


(First proof )

 (नवदेहलीस्थश्रीलालबहादुरशास्त्रिराष्ट्रीयसंस्कृतविश्वविद्यालयस्य जैनदर्शनविभागेन प्रदत्तं पाठ्यसामग्री - प्रो अनेकांत )

दर्शनजगति आचार्यकुंदकुंदविरचितप्रवचनसारस्य महत्त्वपूर्णम् स्थानं वर्तते ।आद्य टीकाकारामृतचन्द्राचार्यानुसारं ग्रन्थेऽस्मिन् पञ्चसप्तत्युत्तर-द्विशतगाथाः सन्ति, तथा चायं ज्ञानाधिकारः ज्ञेयाधिकारः, चारित्रधिकारश्च इति त्रिषु स्कन्धेषु विभक्तोऽस्ति। प्रथमस्कन्धे द्विनवतिगाथाः, द्वितीये अष्टोत्तरैकशतगाथाः, तृतीये पञ्चसप्ततिगाथाः सन्ति। द्वितीयः टिकाकारः श्रीजयसेनाचार्यानुसारं ग्रन्थेऽस्मिन् एकादशोत्तर-त्रिशतगाथाः सन्ति, तत्र प्रथमे स्कन्धे एकाधिकैकशत-गाथाः, द्वितीये द्वादशाधिकैकशतगाथाः, तृतीये च सप्तनवतिगाथाः सन्ति। अत्र प्रतिपादिताः विषयाः संक्षेपेण प्रस्तूयन्ते – 
ज्ञानाधिकारः – 
चारित्रं द्विविधं सरागचारित्रं, वीतरागचरित्रञ्च। उभयोः फलं वर्णयन् आचार्यः कथयति यत् दर्शनज्ञानयुक्तचारित्रेण जीवः देव-धरणेन्द्र-चक्रवर्तीत्यादीनां विभवं निर्माणञ्च प्राप्नोति। अर्थात् सरागचारित्रेण स्वर्गादिकं वीतरागचारित्रेण निर्णाणञ्च प्राप्नोति। जीवस्य च परमं प्रयोजनं निर्वाणमेवातः तत्साधकं वीतरागचारित्रमेवोपादेयोऽस्ति,स्वर्गादिप्रप्तिसाधकञ्च सरागचारित्रं हेयम्।
चरित्रस्य स्वरुपं वर्णयन् आचार्यः कथयति-
चारित्रं खलु धम्मो,धम्मो जो सो सयो त्रि णिद्दिट्ठो।
मोहक्खोहविहिणो परिणामो अप्पणो हु समो॥७॥
अर्थात् चारित्रमेव वास्तविकं धर्म विद्यते, आत्मनः समभावः धर्म इत्युच्यते, मिथ्यात्वरागद्वेषरहितः आत्मपरिणामः समभावः। एवं चारित्रस्य धर्मणश्च एकत्वं प्रतिपादयन् उक्तं यत् आत्मनः मोहजन्यविकाररहितपरिणतिः एव चारित्रं तदेव धर्म। एतादृशं चारित्रं प्राप्य जीवः निर्वाणं प्राप्नोति। एतादृशः एव भावः पण्डित दौलतरामवर्येणापि प्रतिपादितः – 
जो भावमोह ते न्यारे, दृग-ज्ञान-व्रतादिक सारे।
सो धर्म जबहि जिय धारे तब ही सुख अचल निहारे॥
मोहात् पृथक् दर्शनज्ञानव्रताद्यः आत्मभावाः एव धर्मं, तद् धर्म धृत्वा जीवः अचलाविनाशीमोक्षसुखं प्राप्नोति।
        अनया परिभाषया धर्मणः पुण्यात् पृथक्करणं भवति, अर्थात् शुभोपयोगरूपः पुण्यभावः मोहजन्यविकारत्वात् धर्म नास्ति तत्तु निश्चयधर्मकारणत्वात् व्यवहारेण धर्म इत्युच्यते।
         चारित्रपरिणतात्मा यदि शुध्दोपयोगसंयुक्तः भवति तर्हि सः निर्वाणसुखं प्रप्नोति, यदि शुभोपयोगसहितः भवति तर्हि स्वर्गादिकं सुखं प्रप्नोति,।स्वर्गसुखं च लक्ष्यं नास्ति तस्मात् हेयम्। अशुभ-शुभ-शुध्दभेदैः उपयोगः त्रिविधः। अशुभोपयोगेन जीवोऽयं कुमनुष्य-तिर्यञ्च-नारकादीषु पर्यायेषु दुःखं भुङ्क्ते, शुभोपयोगेन च देव-चक्रवर्ती-त्यादीनामुत्तमगतीनां सुखं भुङ्क्ते । शुध्दोपयोगस्य फलं वर्णयन् कन्दकुन्दस्वामिनोक्तं यत् – 
अइसयमादसमुत्थं विसयातीदं अणोवममणंतं ।
अव्वुच्छिण्णं च सुहं सुद्धवयोगप्पसिद्धाणं ॥ १३ ॥
          शुध्दोपयोगेन कृतकृत्यमरहन्तं सिध्दञ्च यत्सुखं प्राप्तं भवति तत् अतिशयपूर्णमात्मोत्थं विषयेभ्योऽतीतं,अनुपममनन्तं व्युच्छत्तिरहितञ्चास्ति।
         शुध्दोपयोगस्य फलेन जीवः सर्वज्ञतां प्राप्नोति, तदास्य किमपि परोक्षः न भवति, सः लोकालोकस्य समस्तपदार्थान् युगपदेव जानाति। सर्वज्ञतात्मस्वभावोऽस्ति परन्तु रागपरिणतिवशात् प्रकर्तितः न भवति, दशमगुणस्थाने यदा जीवः रागपरिणतिं विनश्यति तदान्तर्मुहूर्तमात्रे निश्चयेन सर्वज्ञः भवति। आगमे वीतरागतायः कालः अन्तर्मुहूतमेवोक्तः वीतरागसर्वज्ञस्य च सिध्दपर्यायापेक्षया साद्यनन्तः इत्युक्तः वेदान्तादिदर्शनेषु आत्मा व्यापकः इति प्रतिपादितः परन्तु कुन्दकुन्दाचार्येण ज्ञानापेक्षयैव आत्मनः व्यापकत्वं सिध्दं कृतम्। आत्मा लोकालोकं जानाति अतः लोकालोकव्याप्तोऽस्ति प्रदेशविस्तारापेक्षया तु आत्मा शरीरप्रमाणम्।
         ज्ञानं ज्ञेयं जानाति, तथाप्युभयोः मध्ये पृथकत्वमस्ति, ज्ञानस्य स्वच्छतायाः एव फलमेतत् उक्तञ्च – 
ण पबिट्ठो णाणिट्ठो णाणी णेयेसु रूवमिव चक्खू ।
जाणदि पस्सदि णियदं अक्खातीदो जगमसेसं ।।२९ ।।
यथा चक्षुः रुपं जानाति परन्तु रुपे प्रविष्टः न भवति, रुपमपि चक्षुषि प्रविष्टं न भवति, तथैवा इन्द्रियातीतज्ञानवान् आत्मा जगज्जान्नपि तस्मिन् प्रविष्टः न भवति। ज्ञानज्ञेययोः प्रदेशाः परस्पर प्रविष्टाः न भवन्ति मात्रं ज्ञानज्ञेययोरपेक्षयैव प्रविष्टः इति व्यवहारः।
          केवलज्ञानी पदर्थान् जानन्नपि पदार्थरूपेण न परिणमति, न च तान् गृहणाति, न च तेषु उत्पन्नः भवति, तस्मादेवाबन्धकः इत्युक्तः। वस्तुतः ज्ञानस्य हीनाधिकता बन्धकारणं नास्ति, तस्मिन् काले उपस्थिता रागद्वेषपरिणति बन्धकारणम्। केवलज्ञानी च रागद्वेषपरिणतिरहितः अत एव अबन्धकः। सयोगकेवलीदशायां यद्यपि सातावेदनीयकर्मणः बन्धः भवति परन्तु स्थित्यनुभागबन्धाभावात् तस्य इवात्र नास्ति, उक्तञ्च – 
ण वि परिणमदि ण गेण्हदि उप्पज्जदि णेव तेसु अत्थेसु।
जाणण्णवि ते आदा अबंधगो तेण पण्णत्तो ॥५२॥
यथा ज्ञानमात्मनोऽनुजीवीगुणः तथैव सुखोऽपि आत्मनोऽनुजीवीगुणः। तेषां प्रत्येकस्यामवस्थायामनन्तं सुखमस्ति परन्तु तत्र आत्मनः लक्ष्यं नास्ति। अज्ञानावस्थायामात्मा शरीरादिपरपदार्थेषु सुखान्वेषणं करोति, परपदार्थं सुखस्थानं मत्वा तेषु रागभावं करोति। एतादृशीं त्रुटीं निवारयितुमाचार्यः वदति यदेषः आत्मा स्पर्शनादीन्द्रियैः इष्टविषयान् प्रप्य स्वयमेव सुखरुपेण परिणमनं करोति शरीरादिपदार्थेषु सुखं नास्ति, न च शरिरादयः सुखस्य कारणानि सन्ति। जडऽस्वभावात् शरीरात् चैतन्याविनाभावीसुखस्योत्पत्तिः भवितुं न शक्नोति। विषयेषु सुखं नास्ति,विषयेऽस्मिन् आचार्येणोक्तम्-
तिमिरहरा जइ दिट्ठी जणस्स दीवेण णत्थि कादव्वं ।
तध सोक्खं सयमादा विसया किं तत्थ कुव्वंति ।।६७।।
यथा यस्य दृष्टिरन्धकारमपाकर्तुं समर्थास्ति तस्य दीपकेन किं प्रयोजनं, तथैव यस्य आत्मा स्वयं सुखरूपमस्ति तस्य विषयैः किं प्रयोजनम्? इत्युक्ते किमपि प्रयोजनं नास्ति।
          ज्ञानसुखयोः प्रगाढसम्बन्धः वर्तते, अरहन्तावस्थायामतीन्द्रियसुखमस्ति अतः तत्रातीन्द्रियसुखमस्ति। अनन्तज्ञानेन सहानन्तसुखं भवति। अनन्तसुखमात्मजन्यमस्ति, इन्द्रियाणां तत्र किमपि कर्तृत्वं न विद्यते। एतदात्मजन्यं सुखमरहन्त-सिध्दावस्थायामेवोत्पन्नं भवति। स्वाभाविकसुखं देवाः न भुङ्क्ते यतो हि ते पञ्चेन्द्रियात्मकशरीरवेदनादुःखिताः रमणीयपदार्थेषु सुखान्वेषणं कुर्वन्ति तावत् स्वाभाविकं सुखमाप्तुं न शक्‍नुवन्ति।आत्मजन्यमेतत्सुकं शुध्दोपयोगेन प्रप्तव्यं न तु शुभोपयोगेन। शुभोपयोगेन इन्द्रचक्रवर्तीपदप्राप्ताः जीवाः सुखिनः अवभासन्ते परन्तु वस्तुतः सुखिनः न सन्ति, यदि वस्तुतः सुखिनः स्युः तर्हि सांसारिकभोगोपभोगेषु सन्तुष्टाः कथं न भवन्ति?
इन्द्रियजन्य-सुखस्य विषये उक्तम्
सपरं बाधासहियं विच्छिण्णं बंधकारणं विषमं ।
जं इंदिएहि लद्धं तं सोक्खं दुक्खमेव तहा।।७३ ।।
             इन्द्रियैराप्तसुखं पराधीनं, क्षुधातृषादिबाधासहितम्,विच्छिन्नम्, बन्धकारणं विषमञ्च विद्यते, वस्तुतः तत् दुःखमेव न तु सुख़म्।
इन्द्रियजन्यं सुखं दुःखमेव इत्युक्ते पापपुण्ययोः कोऽपि भेदः न प्रतीयते, उभावपि दुःखकारणौ अतःसमानौ। सांसरिकदुःखसागरमुत्तीर्य शाश्वत्सुखमाप्तुं शुध्दोपयोगमेव शरणं ग्राह्यञ्च। पुण्यपापयोः समानतां प्रतिपादयन् कथयति – 
ण हि मण्णदि जो एवं णत्थि विशेषो त्ति पुण्णपावाणं ।
हिंडदि घोरमपारं संसारं मोहसंछण्णो।।७७ ।।
       पुण्यपापयोः विषमता नास्ति, समानतास्ति, यः एवं न मन्यते मोहाच्छादितः सः संसारभ्रमणं करोति।
       मोहात् कथं निर्मुक्ताः भवितुं शक्नुमः, अस्य समाधानाय वदति- 
जो जाणदि अरहंतं दव्वत्तगुणत्तपज्जयत्तेहिं ।
सो जाणदि अप्पाणं मोहो खलु जादि तस्स लयं ।।८० ।।
यः द्रव्यगुणपर्यायापेक्षयारहन्तं जानाति सः आत्मानं जानाति, यश्चात्मानं जानाति नियमेन तस्य मोहः विनश्यति। तात्पर्योऽयं यत् मोहमुक्तये जीवः शुध्दात्मस्वभावं लक्ष्यं कुर्यात्। यथैषः जीवः स्वभावं लक्ष्यं करोति तथैव बुध्दिपूर्वकजायमानाः – जायमानाः रागादयः विनष्टाः भवन्ति, उक्तञ्च – 
जीवो ववगदमोहो उवलद्धो तच्चमप्पणो सम्मं ।
जहदि जदि रागदोसे सो अप्पाणं लहदि सुद्धं ।।८९ ।।
मोहरहितः जीवः यदि रागद्वेषान् त्यजति तर्हि शुध्दात्मानं प्राप्नोति। इदानीं यावत् ये अर्हन्ताः अभवन् ते चतुर्ण्णां घातिकर्मणामभावं कृत्वा उपदेशं प्रदाय निर्वाणं प्राप्तवन्तः। 
मोक्षोपायं वदति आचार्यः – 
जिणसत्थादो अट्ठे पच्चक्खादीहिं बुज्झदो णियमा ।
खीयदि मोहोवचयो तम्हा सत्यं समधिदव्वं ।।८६ ।।
यः पुरुषः प्रत्यक्षादिप्रमाणैः जिनप्रणीतशास्त्रैः वा जीवाजीवादिपदार्थान् जानाति तस्य मोहक्षयः नियमेन भवति, अतः शास्त्राध्ययनं कर्तव्यम्।
द्रव्य-गुण-पर्यायाः अर्थः इत्युच्यन्ते संसारस्य प्रत्येकोऽपि पदार्थः एतेषु सम्मिलिताः अतः एतेषां ज्ञानमावश्यकम्। तज्ज्ञानञ्च जिनेन्द्रप्रतिपादितशास्त्रैः भवति, तस्मात् शास्त्राध्ययनमावश्यकम्।
मोक्षोपायविषये इतोऽपि वदतिआचार्यः – 
माणप्पगमप्पाणं परं च दव्वत्तणाहिसंबद्धं ।
जाणदि यदि णिच्छयदो जो सो मोहक्खयं कुणदि।।८९।।
ये जीवाः द्रव्यत्वसम्बध्द-ज्ञानस्वरूपात्मानं, शरीरादिपरद्रव्यञ्च जानान्ति ते निश्चयेन मोहक्षयं कुर्वन्ति। स्वपरभेदविज्ञानं मोक्षकारणमिति तात्पर्यः। 
मोक्षप्राप्तये उपर्युक्ताः त्रयः उपायाः वस्तुतः भिन्नाः न सन्ति, अपितु परस्पर- सम्बध्दाः एव। प्रथमोपाये आत्मलक्ष्यं कर्त्तुं प्रेरणा प्रदत्ता, आत्मलक्ष्यस्य च माध्यमः अरहन्तभगवतः ज्ञानमित्युक्तम्। अर्थात् अरहन्तस्य द्रव्य-गुण-पर्यायाणामात्मनश्च द्रव्य-गुण-पर्यायाणां तुलनात्मकावलोकनेन, जीवः परलक्ष्यं त्यक्‍त्वा स्वलक्ष्यं करोति, स्वलक्ष्ये कृते मोहक्षयोऽचिरमेव भवति, यः पुरुषः दर्पणे स्वमुखं मलिनं पश्यति सः तं प्रमार्ष्टुं यत्नं न कुर्यादिति संभवः नास्ति। मोहक्षयात् तज्ज्न्यरागद्वेषादयोऽपि स्थिराः न भवन्ति, मिथ्यात्वं मूलं, रागद्वेषादयः च तस्य शाखाः , मूले नष्टे शाखाः समृध्दाः न भवन्ति। प्रथमोपायेन जीवेन स्वलक्ष्यं कृतं परन्तु आगमज्ञानं विना स्वलक्ष्ये स्थितिः भवितुं न शक्नोति अतः द्वितीयोपायेन शास्त्राध्ययनस्य प्रेरणा कृता। वीतरागसर्वज्ञदेवप्रणीतैः संसारशरीरभोगनिर्विण्णपरमर्षिरचितशास्त्रैः स्वरुपश्रध्दा वर्धते। स्वाध्यायस्य च फलं स्वपरभेदविज्ञानम्, एकादशाङ्गनवपूर्वपरिमितं श्रुतमधिगम्यापि यः आत्मानं न जानाति तस्याध्ययनं निष्फलमतः तृतीयोपाये स्वपरभेदविज्ञानं कर्तुं प्रेरणा दत्ता। यत्र स्वज्ञानं भवति तत्र परज्ञानं स्वयमेव भवति, अतः स्वपरभेदविज्ञानं शास्त्राध्ययनप्रयोजनं, मोहक्षयस्य प्रमुखसाधनञ्च। एवं त्रयोऽपि उपायाः सम्बध्दाः।
अध्यायान्ते उक्तम् – 
जो णिहदमोहदिट्ठी आगमकुसलो विरागचरियम्मि।
अब्भुट्ठिदो महप्पा धम्मो त्ति विसेसिदो समणो ।। ९२ ।।
यः मिथ्यात्वं नष्टं कृतवान् यः आगमकुशलः आगमस्य यथार्थज्ञाता, विरागचरित्रे च उद्यमवान् एतादृशः श्रेष्ठात्मा साधुरेव धर्म। अत्र धर्मधर्मिणोरभेद-विवक्षया कथनं कृतम्।
ज्ञेयतत्त्वाधिकारः – 
ज्ञानविषयः ज्ञेयतत्वः, ज्ञानविषयश्चार्थः, अर्थः द्रव्यमयः, द्रव्यः गुणपर्यायवान्, एवं रीत्या द्रव्यगुणपर्यायाः ज्ञानविषयाः अतः ते एव ज्ञेयाः तेषामेव च द्वितीयेऽधिकारे वर्णनं कृतम्। गुणः सामान्यविशेषभेदाभ्यां द्विविधः। अस्तित्व-वस्तुत्व-प्रमेयत्वागुरुलघुत्वादयः सामान्यगुणाः सर्वद्रव्यसम्भवात्, चेतनत्व-मूर्तत्वामूर्तत्वादयः विशेषगुणाः विशिष्टद्रव्यसम्भवात्। गुणः द्रव्यस्य सहभावी विशेषः , पर्यायस्य च क्रमभावीपरिणामः। यः पर्यायेषु इष्टानिष्टबुध्दिं कृत्वा रागं द्वेषाञ्च करोति सः  ᳚पज्जयमूढा हि परसमया᳚ इत्यादि शब्दैः पर्यायमूढः परसमयः इत्यभिहितः। स्वसमयपरसमययोः विभागं दर्शयन् आचार्यः वदति- 
जे पज्जयेसु विरदा जीवा परसमयिगत्ति णिद्दिट्ठा।
आदासहावम्मि ठिदा ते सगसमया मुणेयव्वा ।।२।।
        ये जीवाः पर्यायनिरताः ते परसमयाः उक्ताः ये च आत्मस्वभावस्थिताः ते स्वसमयाः ज्ञातव्याः। ज्ञाता द्रष्टात्मस्वभावः रागः द्वेषः विभावः नरनारकाद्यवस्थाः आत्मनः पर्यायाः सन्ति। यः जीवः पदर्थानां ज्ञाता द्रष्टास्ति, तान् विरागभावेन जानाति पश्यति च, सः स्वसमयः, परन्तु यः परपदार्थेषु रागं द्वेषं करोति तत्कले नरनारकाद्यवस्थासु भ्रमणं करोति सः परसमयः इति।
द्रव्यलक्षणं वदति आचार्यः – 
अपरिचत्त सहावेणुप्पादव्वयधुवत्तसंबद्धं ।
गुणवं च सपज्जायं जत्तं दव्वत्ति वुच्चंति ।।३।।
            स्वस्वभावमजहत् यत् उत्पादव्ययध्रौव्ययुक्तं गुणपर्यायसहितं तत् द्रव्यम्। सत् द्रव्यलक्षणम्, उत्पाद-व्यय-ध्रौव्ययुक्त सत्। उत्पादं विना व्ययः व्ययं विनोत्पादः, ध्रौव्यं विनोभयं न भवतः तस्मात् सिध्दं यत् एते त्रयः परस्पराविनाभावमापन्नाः सन्ति। यधप्युत्पादादयः पर्याये भवन्ति परन्तु पर्यायः द्रव्यादभिन्नः तस्मात् उत्पादादयः द्रव्यस्योच्यन्ते। द्रव्यं गुणी सत्ता गुणः , एतयोः प्रदेशभेदः न भवत्यतः एतयोः पृथकत्वं नास्ति परन्तु गुणगुणिनोः संज्ञालक्षणादिकृतः भेदः वर्तते तस्मादन्यत्वमस्ति एतयोः। 
पृथक्‍त्वान्यत्वयोः लक्षणमुच्यते – 
पविभत्तपदेसत्तं पुथत्तमिदि सासणं हि वीरस्स।
अण्णत्तमतब्भावो ण तब्भवं भवदि कथमेगं ।।१४।।
अविभक्त-प्रदेशत्वं पृथक्‍त्वम्, प्रदेशभेदाभावेऽपि तद्रूपाभावः अतद्भावः।
       एवं द्रुव्यस्य लक्षणमुक्त्वा तस्य चेतनाचेतनाभ्यां द्वौ भेदो कृतौ। चेतनस्तावत् जीवः एव, अचेतनद्रव्यं पुद्गलधर्माधर्माकाशकालभेदैः पञ्चधा।एतानि द्रव्याणि मूर्तामूर्तापेक्षया लोकालोका-पेक्षया वापि विभज्यन्ते। अलोकः आकाशमयः, षड्‍द्रव्यात्मको लोकः इति। मूर्तं पुद्गलद्रव्यं, शेषाणि अमूर्तानि। पुद्गलस्य मूर्तत्वात् तस्य स्पर्शरसगंधरूपादयः गुणाः अपि मूर्ताः, जीवादिद्रव्याणि अमूर्तानि अतः तेषां गुणाः अपि अमूर्ताः।
         स्वतः सिध्दानि जीवादिद्रव्याणि लोकाकाशे एकक्षेत्रावगाहरूपेण स्थितान्यपि स्वतंत्रतां न परित्यजन्ति। एतेषु कालद्रव्यमेकप्रदेशीति ज्ञातव्यम्। शेषाणि च बहुप्रदेशयुतानि सन्ति। बहुप्रदेशीद्रव्यमस्तिकायः, एकप्रदेशीद्रव्यमनस्तिकायः इत्युच्यते।
        यद्यपि जीवद्रव्यं स्वभावापेक्षया कर्मरूपपुद्गल्र्भ्यः भिन्नः एव तथापि अनादितः तयोः सम्बध्दोऽप्यस्ति। कर्मरूपपुद्गलद्रव्यैः सम्बध्दः जीवः मलिनं भूत्वा पुनः पुनः इन्द्रियादिप्राणान् धारयति, उक्तञ्च – 
आदा कम्ममलिमसो धारदि पाणे पुणो पुणो अण्णे ।
ण जहदि जाव ममत्तं देहपधाणेसु विसयेसु ।।५८।।
कर्ममलिनात्मा यावत् शरीरादिविषयेषु ममत्वभावं न त्यजति तावत्पुनः पुनः प्राणान् धारयति।
कः प्राणान् न धारयति इत्युच्यते – 
जो इंदियादिविजई भवीय उवओगमप्पगं ज्ञादि ।
कम्मेहि सो ण रज्जदि किह तं पाणा अणुचरंति ।।५९।।
          यः इन्दियजयं कृत्वा उपयोगस्वरुपात्मनः ध्यानं करोति सः कर्मानुरक्तः न भवति, सश्च प्राणान् न धारयति।
          षङ्द्रव्येषु प्रयोजनभूतः जीवः एव अतः तस्य विस्तृतवर्णनमभीष्टम्। जीवः उपयोगात्मकः। ज्ञानदर्शनभेदाभ्यामुपयोगः द्विविधः। शुध्दाशुध्दभेदाभ्यामपि द्विविधः उपयोगः। पुनश्चाशुध्दोपयोगः शुभाशुभभेदाभ्यां विभज्यते। अरहंत-सिध्द-साध्वादि-परमेष्ठिनः श्रध्दा-भक्ति-रक्तः जीवानुकम्पासहितः शुभोपयोगः, विषयकषायपूर्णः मिथ्याशास्त्र-श्रवण-दुर्ध्यान-दुर्गोष्ठी-सहितः, उन्मार्गप्रवृत्तः अशुभोपयोगः। शुभाशुभभावभिन्नः ज्ञानदर्शनस्वभावध्यानलग्नः शुध्दोपयोगः। शुभोपयोगेन पुण्यकर्मणां सञ्चयः अशुभोपयोगेन पापकर्मणां सञ्चयः, शुभाशुभभावाभावरूप-शुध्दोपयोगेन कर्मसञ्चयाभावः भवति। शुध्दोपयोगः कर्मबन्धकारणं नास्तीति अभिप्रायः।
      शुध्दोपयोगाय जीवेन शरीरादिद्रव्येभ्यः पृथगात्मतत्वस्य चिन्तनं करणीयं भवति, यथोक्तं – 
नाहं देहो न मणो ण चेव वाणी ण कारणं तेसिं ।
कत्ता ण ण कारयिता अणुमंता णेव कत्तीणं ।। ६८ ।।
       नाहं शरीरः, नाहं मनः, नाहं वाणी, न च एतेषां कारणं , न कर्ता, नानुमन्तास्मि। एते सर्वे पुद्गलद्रव्यस्य परिणामाः, तेषां कर्ताहं कथं भवेयमिति चिन्तनं कर्तव्यम्।
        पुद्गलद्रव्यं परमाणुस्कन्धभेदाभ्यं द्विविधः। परमाणुः एकप्रदेशी एकरूपरसगंधसंयुक्तः शीतोष्णयोः एकः स्निग्धरुक्षयोः चैक इत्थं द्विस्पर्शयुक्तः शब्दरहितोऽस्ति। द्वयादि-संख्यातासंख्यतानन्तपरमाणुपिण्डः स्कन्धः इत्युच्यते। परमाणुः स्निग्धरुक्षगुणवशाद्यन्यैः परमाणुभिः सह युक्तो भूत्वा स्कन्धावस्थां प्रप्नोति। स्निग्धरुक्षगुणयोः एकतोऽनन्तपर्यन्तमविभागप्रतिच्छेदः भवन्ति। एतेषु अगुरुलघुरूपान्तरंगकारणेन कालद्रव्यरूपबहिरंगकारणेन च षड्‌-गुणहानिवृध्दिः प्रचलति। अस्मिन् क्रमे यदा स्निग्धरुक्षगुणयोरेकोऽविभागप्रतिच्छेदः अवशिष्यते तदा जघन्यगुणयुक्तः परमाणुः इत्युच्यते एतादृशः परमाणुः अन्येन् सह बन्धं न प्राप्नोति। पुनः वृध्दिक्रमेण यदा सोऽविभागप्रतिच्छेदः एकाधिकसंख्यां प्राप्नोति तदा पुनः बन्धयोग्यः भवन्ति। द्वयाधिकगुणवन्तः परमाणवः बन्धयोग्याः भवन्ति, समानगुणेषु सदृशगुणव्रतां बन्धः नास्ति। स्निग्ध-स्निग्धयोः रूक्षरूक्षयोः,स्निग्धरूक्षयोः वा बन्धः शक्यते। इदमत्र विशेषोऽस्ति यत् जघन्यगुणवतां परमाणूनां बन्धः नास्ति, यथोक्तं कुन्दकुन्दाचार्येण – 
णिद्धा वा लुक्खा वा अणुपरिणामा समा व विसमा वा।
समदो दुराधिगा जदि वज्झंति हि आदि परिहीणा ।।७३ ।।
सन्दर्भेऽस्मिन् चतुस्सप्ततितमगाथायाः टीकायां एते प्राचीनगाथाः उध्दृताः – 
'णिद्धा णिद्धेण बज्झंति लुक्खा लुक्खा य पोग्गला।
णिद्ध लुक्खा य बज्झंति रूवा रूवी य पोग्गला।।'
"णिद्धस्स णिद्धेण दुराहियेण लुक्खस्स लुक्खस्स दुराहियेण ।
णिद्धस्स लुक्खेण हवेइ बंधो जहण्णवज्जे विसमे समे वा।।'
पुद्गलपरमाणूनामेषा बन्धप्रक्रिया अनादितः एवमेव प्रचलितास्ति।
      एवं नोकर्मवर्गणानिर्मितशरीरे ममत्वभावं त्यक्‍त्वा यः स्थिरः भवति सः कर्मनोकर्मसम्बन्धेभ्यः पृथग् भूत्वा निर्वाणावस्थां प्राप्नोति। शरीरादिभ्यः भेदविज्ञानाय आत्मनः शुध्दस्वरूपं वारम्वारं चिन्तयितव्यम्।
      किमर्थमात्मना सह कर्मबन्धः भवति – 
रत्तो बंधदि कम्मं मुंचदि कम्मेहिं रागरहिदप्पा ।
एसो बंधसमासो जीवाणं जाण णिच्छयदो।।८७।।
  रागी जीवः कर्म बध्नाति रागसहितश्च, कर्मभ्यः मुक्तः भवति निश्चयेन एषः संक्षेपः कर्मबन्धनस्थ।
      वस्तुतः जीवस्य रागपरिणतिः एव बन्धकारणमतः वीतरागभावस्य लक्ष्यं कृत्वा रागमपाकर्तुं पुरुषार्थः कर्त्तव्यः।शरीरधनशत्रुमित्रादयः जीवस्य न सन्ति, एते विनश्वराः, एकः उपयोगररूपात्मा एव ध्रुवः इति चिन्तयन् यः स्वपरभेदविज्ञानं कुर्वन् स्वध्यायं करोति स एव मोहं नष्टं करोति, स एव च रागद्वेषं विनश्य, श्रमणावस्थां धृत्वा स्वाधीनसुखं प्राप्नोति।
     एवं द्वितीये स्कन्ध ज्ञेयतत्वानां वर्णनं कृत्वा स्वलक्ष्यं कर्तुं प्रेरणा दत्ता। परद्रव्यं ज्ञेयं भवितुं शक्नोति ग्राह्यं कदापि न, ग्राह्यं तु शुध्दात्मैव।
चारित्राधिकारः –
चारित्राधिकारम्भे कुन्दकुन्दाचार्येणोक्तं
पडिवज्जइसामण्णं जदि इच्छसि दुक्खपरिमोक्खं
दुःखेभः मोक्षमिच्छति एत् मुनिपदं धारयेत्।
सम्यग्दर्शनेन मोक्षमार्गः प्रारभ्यते सम्यग्चारित्रेण च तत्पूर्णं भवति। यावत् सम्यक्‌-चारित्रं च यथाख्यातचारित्रं न जायते तावत् जीवः मोक्षं न प्रप्नोति। तस्मात् मोक्षस्य साक्षात्कारणं चारित्रमिति विचिन्त्य तदर्थं यत्नः करणीयः। इदमत्र स्मरणीयं यत् पूर्वमेवाचार्येण मोहक्षोभरहितात्मपरिणतिः साम्यभावः एव चारित्रमित्युक्तम्। एतादृशचारित्रेणैव कर्मक्षयात् शाश्वतसुखं प्राप्यते। चारित्रस्य च पूर्णविकासः मुनिदशायां भवति तस्मादाचार्येण मुनिपदं धारयितुं भव्याः सम्बोधिताः। यः भव्यः मुनिपदं धारयितुमुत्सुकः, तेनाद्यं किं कर्तव्यमिति वदति आचार्यः – 
आपिच्छ बंधुवग्गं विमोइदो गुरुकलत्तपुत्तेहिं ।
आसिज्ज णाणदंसणचरित्ततववीरियासारं ।।२।।
बन्धुवर्गं पृष्‍ट्वा मातापितास्त्रीपुत्रेभ्यश्च विमुक्तः ज्ञानदर्शनचारित्रतपवीर्यरूपपञ्चाचारान् धारयेत्। बन्धुवर्गं मातापितरं गुरुजनं वा कथमापृच्छेदिति अमृतचन्द्राचार्येण वर्णितम् – 
'एवं बन्धुवर्गमापृच्छते- अहो इदंजनशरीरबन्धुवर्गवर्तिन आत्मानः अस्य जीवस्य आत्मा न किञ्चिदपि युष्माकं भवतीति निश्चयेन यूयं जानीत। तत आपृष्टा यूयं अयमात्मा अद्योद्भिन्नज्ञानज्योतिः आत्मानमेवात्मनोऽनादिबन्धुमुषसर्पति ।'
एवं सर्वान् पृष्टवा गृहबन्धनमुक्तः शिष्यः गुणिनं, कुलरूपवयोभिः योग्याचार्यं समया गत्वा तस्मै निवेदयेत – हे भगवन् मह्यं चरणाश्रयं प्रददातु। मया निश्चितं यदहमन्यस्यान्यो वा मम नास्ति, कस्मिन्नपि मम ममत्वभावः नास्ति तस्मादहं यथाजातदिगम्बरमुद्रां धारयितुमिच्छामि।
        शिष्यस्य योग्यतां दृष्टवाचार्यः तस्मै पञ्चमहाव्रतादिमूलगुणानामुपदेशं प्रयच्छति। सः निर्ग्रन्थवेषः मूर्च्छारम्भरहितः मोक्षहेतुश्च भवति।
        मुनिमुद्रां धृत्वा भव्यजीवः स्वभावे लीनः अष्टाविशतिमूलगुणानां निरतिचारं पालनं करोति। प्रमादं त्यक्‍त्वा गमनादिकं करोति, यतो हि जिनागमस्य कथनं वर्तते जीवानां घातः स्यात् वा न वा, परन्तु यः अयत्नाचारपूर्वकक्रियां करोति तस्य हिंसादोषः भवत्येव। यश्चायत्नाचारपूर्वकं विचरति तस्य जीवघातेऽपि हिंसा न भवति।
          साधुना एतादृशः त्यागः परपदार्थानामपेक्षां विनैव कर्तव्यः यतो हि सापेक्षत्यागेकृते अभिप्रायस्तावत् शुध्दः न भवति, अशुध्दाभिप्रायेण च कर्मक्षयः न भवति। गृहीप्रवृत्तौ यदि दोषः भवति तर्हि आचार्यसमक्षं तस्य प्रतिक्रमणं प्रत्याख्यानञ्च करोति।
          निर्ग्रन्थः साधुः आगमाध्यनेन स्वश्रद्धां सुदृढां चारित्रञ्च निर्दोषं करोति, आगमाध्ययनस्योपयोगितां वर्णयन् आचार्यः वदति – 
आगमहीणो समणो णेवप्पाणं परं वियाणादि ।
अविजाणंतो अत्थे खवेदि कम्माणि किध भिक्खू ।।३३ ।।
आगमज्ञानरहितः साधुः आत्मानमपरञ्च न जानाति, भेदविज्ञानं न करोति, भेदविज्ञानं विना कर्मक्षयः कथं सम्भवति?
आगमचक्खू साहू इंदियचक्खूणि सव्वभूदाणि ।
देवा य ओहिचक्खू सिद्धा पुण सव्वदो चक्खू।।३४।।
मुनिरागमचक्षुरस्ति, संसारिणः जीवाः इन्द्रियचक्षूंषि सन्ति देवोऽवधिचक्षुः, सिध्दश्च सर्वतश्चक्षुरिति। अर्थात् साधवः आगमज्ञानेन सर्वं जानन्ति, संसारिणः इन्द्रियैः, देवाः अवधिज्ञानेन, सिध्दाश्च केवलज्ञानेन सर्वान् जानन्ति।
आगमपुव्वा दिट्ठी ण भवदि जस्सेह संजमो तस्स।
णत्थिति भणइ सुत्तं असंजदो हवदि किध समणो।।३६ ।।
यस्यागमानुसारं दृष्टिः नास्ति, स्वाध्यायेन यस्य तत्त्वश्रद्धा पोषिता नास्ति तस्य संयमः न भवति, इति जिनशास्त्रणि वदन्ति। असंयमिनः साधवः न भवितुमहीन्ति।
        आगमाध्ययनात्रेण लाभः नास्ति, तत्वार्थश्रध्दानमावश्यकम्, न केवलं तत्वार्थश्रध्दानं यथायोग्याचरणमव्यावश्यकम्, एतदेव कुन्दकुन्दाचार्यः वदति – 
ण हि आगमेण सिज्झदि सद्दहणं जदि ण अत्थि अत्थेसु ।
सद्दहमाणो अत्थे असंजदो वा ण णिव्वादि।।३७ ।।
        पदार्थविषयक-श्रध्दां विनागमज्ञानेन जीवः सिध्दः न भवति, पदार्थश्रध्दानं कुर्वन्नपि संयमरहितोऽस्ति चेत् तस्य निर्वाणं न भवति।
ज्ञानमहिमानमाचार्यः वदति – 
जं अण्णाणी कम्मं खवेइ भवसयसहस्सकोडीहिं ।
तं णाणी तिहिं गुत्तो खवेइ उस्सासमेत्तेण ।।३८ ।।
     अज्ञानी यस्य कर्मणः क्षयं शतसहस्रकोटिवर्षेषु वा करोति गुप्तिधारकः ज्ञानी जीवः तान् उच्छ्‍वासमात्रकालेण नष्टं करोति। अत्र गुप्तिधारकेति विशेषणेन, सम्यक्‌-चारित्रस्यानिवार्यता स्पष्टीकृता। सम्यक्चारित्रं विनाङ्गविदोऽपि कर्मक्षयाय समर्थः न भवति।
        आगमज्ञानस्य प्रयोजनं स्वपरयोः ज्ञानपूर्वकं परपदार्थेषु ममत्वत्यागः इत्यास्ति। आगममधिगम्यापि यदि कश्चिद् परपदार्थेषु ममत्वं न त्यजति तर्हि सः निर्वाणं नाप्नोति – 
परमाणुपमाणं वा मुच्छा देहादिएसु जस्स पुणो ।
विज्जदि जदि सो सिद्धिं ण लहदि सव्वागमधरो वि।।३९ ।।
      शरीरादिपरपदार्थेषु यस्य परमाणुमात्रमपि मूर्च्छास्ति, सर्वागमधरोऽपि सः सिध्दिं न प्राप्नोति। 
      श्रमणस्य परिभाषां वदत्याचार्यः – 
समसुत्तबंधुवग्गो समसुहदुक्खो पसंसणिदसमो।
समलोट्ठकंचणो पुण जीविदमरणे समो समणो।।४१।।
शत्रुबन्धुवर्गेषु, सुखदुःखेषु, निन्दाप्रशंसासु, लोष्ठस्वर्णेषु यस्य समभावोऽस्ति, जीवनमरणयोःश्च यः सममाचरति सःश्रमणः।
   कीदृशः श्रमणः कर्मक्षयं करोति – 
अत्थेसु जो ण मुज्झदि ण हि रज्जदि णेव दोषमुवयादि ।
समणो जदि सो णियदं खवेदि कम्माणि विविधाणि ।।४४ ।।
   यः श्रमणः परपदार्थेषु ममत्वबुध्दिं रागं द्वेषञ्च न करोति सः निश्चयेन कर्मक्षयं करोति।
   मुनयः द्विधा विभज्यन्ते – शुभोपयोगिनः, शुद्धोपयोगिनः च। एतयोः शुध्दोपयोगीमुनिः आश्रवरहितः, अपरे आस्रवसहिताः भवन्ति। शुभोपयोगिनः अरहन्तादिपरमेष्ठीनां भक्तौ , परमागमोपदेशकमहामुनिषु च गोवत्समिव प्रीति कुर्वन्ति। गुरोरागमने उत्थाय सत्कारं गमनेऽनुगमनेनादरं दर्शनज्ञानयोरुपदेशं, शिष्येभ्यः दीक्षाप्रदानं, जिनपूजोपदेशः, चतुर्ण्णां मुनिसंघानामुपकारं, यथायोग्यं वैयावृत्ति, रोगादिपीडितश्रमणस्य दुःखनिवारणाय प्रयासं, ग्लान-वृध्द-बालक-मुनीनां सेवानिमिताय गृहस्थैः सह संभाषणञ्च कुर्वन्ति। शुभोपयोगीमुनीनामेषा चर्या साक्षात् मोक्षस्य कारणमस्ति।
        शुध्दोपयोगीमुनी एतेभ्यः विकल्पेभ्यः निवृत्तः स्वस्वरुपचिन्तलीनः भवति। करणानुयोगपद्धतेरनुसारमेषः शुध्दोपयोगः श्रेणितः प्रारभ्य कर्मक्षयहेतुः भवति।
      मुनिमुद्रां धृत्वापि ये लौकिकजनसम्पर्केण हर्षमनुभवन्ति, उन्मार्गप्रवृत्तिञ्च कुर्वन्ति ते श्रमणाभासाः अनन्तसंसारं प्राप्नुवन्ति। भावलिङ्गसहितमुनिमुद्रा जीवेन द्वात्रिंशद्वारेभ्योधिकं धारणीया न भवति, तदन्तर्गते एव सः मोक्षं प्रप्नोति। परन्तु मात्रद्रव्यलिङ्गमनन्तवारमपि धृत्वा सः नवमग्रैवेयकात् परं गन्तु न शक्नोति।
अन्ते अमृतचन्द्राचार्येण सप्तचत्वारिंशद्‌-नयावलम्बनेनात्मनः दिग्दर्शनं कारितम्। प्रवचनसारः वस्तुतः आगमसारः एव।

Comments

Popular posts from this blog

जैन ग्रंथों का अनुयोग विभाग

जैन धर्म में शास्त्रो की कथन पद्धति को अनुयोग कहते हैं।  जैनागम चार भागों में विभक्त है, जिन्हें चार अनुयोग कहते हैं - प्रथमानुयोग, करणानुयोग, चरणानुयोग और द्रव्यानुयोग।  इन चारों में क्रम से कथाएँ व पुराण, कर्म सिद्धान्त व लोक विभाग, जीव का आचार-विचार और चेतनाचेतन द्रव्यों का स्वरूप व तत्त्वों का निर्देश है।  इसके अतिरिक्त वस्तु का कथन करने में जिन अधिकारों की आवश्यकता होती है उन्हें अनुयोगद्वार कहते हैं। प्रथमानुयोग : इसमें संयोगाधीन कथन की मुख्यता होती है। इसमें ६३ शलाका पुरूषों का चरित्र, उनकी जीवनी तथा महापुरुषों की कथाएं होती हैं इसको पढ़ने से समता आती है |  इस अनुयोग के अंतर्गत पद्म पुराण,आदिपुराण आदि कथा ग्रंथ आते हैं ।पद्मपुराण में वीतरागी भगवान राम की कथा के माध्यम से धर्म की प्रेरणा दी गयी है । आदि पुराण में तीर्थंकर आदिनाथ के चरित्र के माध्यम से धर्म सिखलाया गया है । करणानुयोग: इसमें गणितीय तथा सूक्ष्म कथन की मुख्यता होती है। इसकी विषय वस्तु ३ लोक तथा कर्म व्यवस्था है। इसको पढ़ने से संवेग और वैराग्य  प्रकट होता है। आचार्य यति वृषभ द्वारा रचित तिलोयपन्नत्ति में तीन लोक तथा उ

सम्यक ज्ञान का स्वरूप

*सम्यक ज्ञान का स्वरूप*  मोक्ष मार्ग में सम्यक ज्ञान का बहुत महत्व है । अज्ञान एक बहुत बड़ा दोष है तथा कर्म बंधन का कारण है । अतः अज्ञान को दूर करके सम्यक ज्ञान प्राप्त करने का पूर्ण प्रयास करना चाहिए । परिभाषा -  जो पदार्थ जैसा है, उसे वैसे को वैसा ही जानना, न कम जानना,न अधिक जानना और न विपरीत जानना - जो ऍसा बोध कराता है,वह सम्यक ज्ञान है । ज्ञान जीव का एक विशेष गुण है जो स्‍व व पर दोनों को जानने में समर्थ है। वह पा̐च प्रकार का है–मति, श्रुत, अवधि, मन:पर्यय व केवलज्ञान। अनादि काल से मोहमिश्रित होने के कारण यह स्‍व व पर में भेद नहीं देख पाता। शरीर आदि पर पदार्थों को ही निजस्‍वरूप मानता है, इसी से मिथ्‍याज्ञान या अज्ञान नाम पाता है। जब सम्‍यक्‍त्व के प्रभाव से परपदार्थों से भिन्न निज स्‍वरूप को जानने लगता है तब भेदज्ञान नाम पाता है। वही सम्‍यग्‍ज्ञान है। ज्ञान वास्‍तव में सम्‍यक् मिथ्‍या नहीं होता, परन्‍तु सम्‍यक्‍त्‍व या मिथ्‍यात्‍व के सहकारीपने से सम्‍यक् मिथ्‍या नाम पाता है। सम्‍यग्‍ज्ञान ही श्रेयोमार्ग की सिद्धि करने में समर्थ होने के कारण जीव को इष्ट है। जीव का अपना प्रतिभास तो निश

जैन चित्रकला

जैन चित्र कला की विशेषता  कला जीवन का अभिन्न अंग है। कला मानव में अथाह और अनन्त मन की सौन्दर्यात्मक अभिव्यक्ति है। कला का उद्भव एवं विकास मानव जीवन के उद्भव व विकास के साथ ही हुआ है। जिसके प्रमाण हमें चित्रकला की प्राचीन परम्परा में प्रागैतिहासिक काल से ही प्राप्त होते हैं। जिनका विकास निरन्तर जारी रहा है। चित्र, अभिव्यक्ति की ऐसी भाषा है जिसे आसानी से समझा जा सकता है। प्राचीन काल से अब तक चित्रकला की अनेक शैलियां विकसित हुईं जिनमें से जैन शैली चित्र इतिहास में अपना विशिष्ट स्थान रखती है। जैन चित्रकला के सबसे प्राचीन चित्रित प्रत्यक्ष उदाहरण मध्यप्रदेश के सरगुजा राज्य में जोगीमारा गुफा में मिलते है। जिसका समय दूसरी शताब्दी ईसापूर्व है।१ ग्यारहवीं शताब्दी तक जैन भित्ति चित्र कला का पर्याप्त विकास हुआ जिनके उदाहरण सित्तनवासल एलोरा आदि गुफाओं में मिलते है। इसके बाद जैन चित्रों की परम्परा पोथी चित्रों में प्रारंभ होती है और ताड़पत्रों, कागजों, एवं वस्त्रों पर इस कला शैली का क्रमिक विकास होता चला गया। जिसका समय ११वीं से १५वी शताब्दी के मध्य माना गया। २ जैन धर्म अति प्राचीन एवं अहिंसा प्रधान