(First proof )
रत्नकरण्ड-श्रावकाचारस्य
वैशिष्ट्यम्
1.0
प्रस्तावना
जैनन्यायशास्त्रस्य
जनकः,
आद्य-स्तुतिकारः
आचार्यः समन्तभद्रः जैनाचार्यपरंपरायां रवीव तेजस्वी, यशस्वी
आचार्यः अभवत्
| अनेन
कृतकार्याय समाजमिदम् सदैव ऋणी भवति | जैनशास्त्रपरंपरा-संवर्धनार्थं
अस्य महत्वपूर्णं योगदानं अस्ति | अयं विक्रमस्य
प्रथम-द्वितीयशताब्देः
एव जैनन्यायस्य बीजं रोपयति स्मः | अद्यापि आचार्यसमन्तभद्रस्य
नाम जैनपरंपरायां स्वर्ण-अक्षरेषु लिखितं भवति |
आचार्येण समन्तभद्रेण
रचितेषु विविधग्रन्थेषु मध्ये आचारशास्त्रस्य निरुपकः एकः ग्रन्थः रत्नकरण्ड-श्रावकाचारः
अस्ति
| श्रमणानां
कृते तत्समयतः शास्त्रम् उपलब्धं वर्तते परन्तु श्रावकानां कृते न दृश्यते खलु, तत्समये
रत्नकरण्डश्रवकाचारस्य रचना श्रावकस्य आचारशुद्ध्यर्थं एकं महत्वपूर्णः कार्यं अस्ति |
1.1 ग्रन्थकारस्य परिचयः -
जैनाचार्याणां
विशेषता अस्ति यत् ते स्वविषये एकमपि अक्षरं न लिखितं, य: परिचय: उपलब्ध: तदानुसरेण
आचार्यः समन्तभद्रः कदम्ब-राजवन्शस्य
क्षत्रिय-राजकुमारः
आसीत्
| तस्य
बाल्यनाम शान्तिवर्मा स्तः | तस्य जन्मः
दक्षिणभारतस्य कावेरी-नद्याः तटस्थिते उरगपुर-नगरे
अभवत्
| तस्यास्तित्वं
विक्रम सं.
250 पर्यन्तं
अस्ति
|
तस्य पारिवारिकजीवनविषये
किमपि ज्ञानं नास्ति | सः अल्पवये मुनिः अभवत् |
आचार्य-समन्तभद्र: जैनदर्शनेन
सह तर्कः,
न्यायः, छन्द:,
अलङ्कारः
व्याकरणं,
काव्यः, कोषः, अपि
अद्वितीयं ज्ञाता आसीत् | आचार्य-समन्तभद्रः
वाद-विवादेषु
निष्णातः आसीत्,
सः
नैकवारं विविधस्थानेषु शास्त्रार्थं कृतवान् एवं जैनमतं स्थापितवान् | तस्य आत्मविश्वास: निम्नपङ्क्तिषु
दृष्टव्य:
-
वादार्थी विचराम्यहं नरपते शार्दूलविक्रीडितम् |
राजन् यस्यास्ति शक्तिः स वदतु पुरतो जैन निर्ग्रन्थवादी
||
परवर्ति-आचार्यैः भवतः अत्यन्तम् आदरपूर्वकं स्मरणं कृतं |
भवान्
आद्य-स्तुतिकाररूपे
प्रसिद्ध:
आसीत् | भवतः ग्रन्थानां कार्याणां सूची निम्नानुसारम् अस्ति -
1)
आप्तमीमांसा
2)
युक्त्यनुशासनम्
3)
स्वयम्भूस्तोत्रम्
4)
जिनस्तुतिशतकः
5)
रत्नकरण्ड-श्रावकाचारः
6)
प्राकृत-व्याकरणम् (अप्राप्य)
7)
प्रमाण-पदार्थः (अप्राप्य)
8)
कर्म प्राभृतटीका(अप्राप्य)
9)
गन्धहस्ति-महाभाष्यम् (अप्राप्य)
1.2 ग्रन्थस्य परिचयः -
शास्त्रमिदं
आचार्यसमन्तभद्रेण विक्रमस्य प्रथम-द्वितीयशताब्दौ
श्रावकधर्मप्रकाशनार्थं संस्कृतभाषायां रचितं | अस्मिन्
ग्रन्थे सप्ताधिकारेषु समन्विताः 150श्लोकाः सन्ति, संक्षेपतः
तेषां विवरणिका अस्ति
-
क्रमाङ्कः |
अधिकारः |
श्लोक-संख्या |
विषय-वस्तु |
1 |
सम्यग्दर्शनम्
|
1-41 |
सम्यग्दर्शनस्य
स्वरूपं महत्वं च |
2 |
सम्यग्ज्ञानम्
|
42-46 |
सम्यग्ज्ञानस्य
स्वरूपं भेदश्च |
3 |
अणुव्रतम्
|
47-66 |
अणुव्रतस्य
स्वरूपं भेदश्च |
4 |
गुणव्रतम्
|
67-90 |
गुणव्रतस्य
स्वरूपं भेदश्च |
5 |
शिक्षाव्रतम्
|
91-121 |
शिक्षाव्रतस्य
स्वरूपं भेदश्च |
6 |
सल्लेखना
|
122-135 |
सल्लेखनायाः
स्वरूपम् |
7 |
श्रावक-पदानि |
136-150 |
श्रावकस्य
चारित्रस्य एकादश-श्रेणिः |
2.0
सम्यग्दर्शनम् एवं सम्यग्ज्ञानम् -
यः सत्त्वान्
संसारदुखतः उत्तमे सुखे धरति सः धर्मः सम्यग्दर्शन-ज्ञान-चरित्रात्मकं
धर्मेश्वराः विदुः
| तस्य
धर्मस्य प्राप्त्यर्थं सर्वप्रथमं प्रयासेन धर्मस्य प्रथमसोपानं सम्यग्दर्शनं गृहितव्यम्, तदन्नतरम्
एव ज्ञानं चरित्रं च सम्यक् भवति |
2.1 सम्यग्दर्शनम् -
परमार्थानां
आप्त-आगम-गुरूणां
श्रद्धानं सम्यग्दर्शनं वर्तते | तत् सम्यग्दर्शनं
त्रिमूढता:,
अष्टमदान् रहितम् अस्ति | सम्यग्दर्शनस्य
अष्टाङ्गानि सन्ति
|
आप्तः - राग-द्वेषदोषरहितः
वीतराग:,
सर्वज्ञः
हितोपदेश कः च पुरुषः आप्तः भवति |
आगमः - आप्तेन उपदिष्टं, अनुल्लंघ्यं, प्रत्यक्षादिप्रमाणेन
अविरोधकं,
मिथ्यामार्गस्य
निषेधकं शास्त्रं आगमः भवति |
गुरुः - विषयाणां आशानां
वशातीतः,
निरारम्भः, अपरिग्रहः, ज्ञान-ध्यान-तपोरक्तः
तपस्वी गुरुः भवति
|
एषां आप्त-आगम-गुरूणां
श्रद्धानं सम्यग्दर्शनं भवति | अत्र आचारशास्त्रत्वात्
व्यवहारोपदेशस्य मुख्यता अस्ति, निश्चयेन तु
आत्मश्रद्धानमेव सम्यग्दर्शनं भवति |
सम्यग्दर्शनस्य अष्ट-अङ्गाः -
सम्यग्दर्शनेन सह आत्मनि अष्ट-अङ्गा: उत्पद्यन्ते |
तेषां
अष्ट-अङ्गानां
संक्षिप्त सारिणी निम्नानुसारम्
अस्ति -
अङ्गस्य
नाम |
स्वरुपम् |
प्रसिद्धपुरुषः |
निःशङ्कितम् |
जिनोपदेशं प्रति शङ्कायाः अभावः |
अञ्जन-चौरः |
निःकान्क्षितम् |
इद्रियभोगं प्रति निःकाङ्क्षा |
अनन्तमती |
निर्विचिकित्सा |
गुणिनां मलिनदेहं प्रति ग्लानेः अभावः |
उद्दायनः राजा |
अमूढदृष्टिः |
कुधर्म-गुरु-शास्त्रं
प्रति अरुची |
रेवती रानी |
उपगूहनम् |
परेषां जीवानां गुणानां प्रति दृष्टि: दोषाणां
प्रति गौणता |
जिनेन्द्रभक्तः |
स्थितीकरणम् |
धार्मिक-जीवानां
धर्ममार्गे प्रत्यवस्थापनम् |
वारिषेण-मुनिः
|
वात्सल्यम् |
सधर्मी-जीवानां प्रति
निस्वार्थ सद्भावः |
विष्णुकुमारमुनिः |
प्रभावना |
जिनशासनस्य प्रभावना |
व्रजकुमारमुनिः |
2.2
सम्यग्ज्ञानम् -
सम्यग्दर्शनेन
सह ज्ञानमपि सम्यक् भवति | यत् अन्यूनम्, अनतिरिक्तं, यथातथ्यं, विपरीतात्
विना निस्सन्देहं वेद तत् ज्ञानं सम्यग्ज्ञानं आगमिनः आहुः | तत्
ज्ञानं चतुरनुयोगान् जानाति, तेषां संक्षिप्तिका अस्ति यत् -
अनुयोगः
|
स्वरूपम् |
प्रथमानुयोगः
|
अर्थाख्यानं,
चरितं,
पुराणम्
|
करणानुयोगः
|
लोकालोकविभक्तेः,
युगपरिवृतेः,
चतुर्गतीनां
वर्णनम् |
चरणानुयोगः
|
अनगाराणां
सागाराणां चरित्रोत्पत्तिवृद्धिरक्षाङ्गं वर्णनम् |
द्रव्यानुयोगः
|
जीवाजीवसुतत्त्वे
पुण्यापुण्ये बन्धमोक्षौ वर्णनम् |
3.0 अणुव्रतं, गुणव्रतं शिक्षाव्रतं च
सम्यग्दर्शनज्ञानसम्पन्ने
सति राग-द्वेषनिवृत्यै
साधुः चरणं प्रतिपद्यते | हिन्सादिषु पञ्चपापेषु निवृतिः चरित्रम्
अस्ति
| हिन्सादिषु
पूर्ण-आन्शिकनिवृत्याः
अपेक्षायाः चारित्रस्य द्वौ भेदौ स्तः - अणुव्रतं, महाव्रतं
चेति
| श्रावकस्य
आचरशुद्धयर्थं अणुव्रतं श्रमणस्य आचारशुद्धयर्थं महाव्रतम् अस्ति |
हिन्सादिसु
पापेषु आन्शिकनिवृतिः अणुव्रतम् एवं पूर्णनिवृत्तिः महाव्रतं भवति |
3.1 अणुव्रतम्
-
हिन्सा-असत्य-स्तेय-मैथुन-परिग्रहेभ्यः
पञ्चपापेभ्यः गृहस्थजीवस्य आन्शिकनिर्वृत्तिः अणुव्रतम् अस्ति |
अणुव्रतम्
|
स्वरूपम्
|
अतिचारः
|
व्रते
प्रसिद्धव्यक्तिः |
पापे
प्रसिद्धव्यक्तिः |
अहिन्सा
|
हिन्सातः
आन्शिकनिर्वृतिः |
छेदनं,
बन्धनं,
पीडनं,
अतिभाररोपणं,
अन्नपान-निरोधम्
|
मातङ्गः
|
धनश्री
|
सत्य: |
असत्यतः
आन्शिकनिर्वृतिः |
परिवादः,
रहोभ्याख्या,
पैशून्यम्,
कूटलेखकरणं,
न्यासापहारिता
|
धनदेवः
|
सत्यघोषः
|
अस्तेयः
|
अस्तेयतः
आन्शिकनिर्वृतिः |
चौरप्रयोगः,
चौरार्थदानं,
विलोपः,
सदृशसंमिश्रः,
हीनाधिकविनिमानम् |
वारिषेणः
|
तापसी
|
स्वदार
-सन्तोषः |
कामतः
आन्शिकनिर्वृतिः |
अन्यविवाहकरणं,
अनङ्गक्रीडा,
विटत्वम्,
विपुलतृषा,
इत्वरिकागमनं |
नीली
|
कोतवालः
|
अपरिग्रहः
|
परिग्रहतः
आन्शिकनिर्वृतिः |
अतिवाहनम्,
अतिसंग्रहं,
विस्मयः,
अतिलोभः,
अतिभारवहनम्
|
जयकुमारः
|
श्मश्रुनवनीतः
|
श्रावकः अष्टमूलगुणानां
धारकः भवति,
तेषां
नामानि सन्ति यत्-
1)
मद्यत्यागः 2)मधुत्यागः 3)मान्सत्यागः
4-8) पञ्चाणुव्रतम्
3.2 गुणव्रतम् -
अणुव्रतेषु
गुणानां अणुवृन्हणात् अस्य संज्ञा गुणव्रतम् अस्ति | गुणव्रतस्य
त्रिभेदाः सन्ति,
तेषां
संक्षिप्तस्वरूपं निम्नवत् अस्ति -
गुणव्रतम्
|
स्वरूपम्
|
अतिचारः
|
दिग्व्रतम्
|
दिग्वलयं
परिगणितं कृत्वा तेषां बहिर्न गमनस्य संकल्पः |
ऊर्ध्वातिपातः,
अधःतातिक्रमः,
तिर्यग्व्यतिक्रमः,
क्षेत्रवृद्धिः,
विस्मरणं |
अनर्थदण्डव्रतम्
|
अभ्यन्तरं
दिगवधेरपार्थिकेभ्यः सपापयोगेभ्यः विरमणम् |
कन्दर्पं,
कौत्कुच्यं,
मौखर्यं,
अतिप्रसाधनं,
असमीक्ष्याधिकरणं
|
भोगोपभोग
-परिमाणम्
|
रागरतीनां
तनूकृतये अक्षार्थानां परिसंख्यानम् |
अनुपेक्षा,
अनुस्मृतिः,
अतिलौल्यम्,
अतितृष्णा,
अनुभवः
|
3.3 शिक्षाव्रतम् -
यत् व्रतं महाव्रतस्य
शिक्षां प्रदाति तत् शिक्षाव्रतं
भवति
| शिक्षाव्रतस्य
चतुर्भेदाः सन्ति,
तेषां
संक्षिप्तस्वरूपं निम्नवत् अस्ति -
शिक्षाव्रतम्
|
स्वरुपम्
|
अतिचारः
|
देशावकाशिकं
|
कालपरिच्छेदानेन
विशालस्य देशस्य प्रतिसंहारः |
प्रेषणं,
शब्दः,
आनयनं,
रूपाभिव्यक्तिः,
पुद्गलक्षेपः
|
सामायिकम् |
आसमयमुक्तिमुक्तं
पञ्चाघानाम् अशेषभावेन सर्वत्र च सामयिकाः |
वचन-दुःप्रणिधानम्,
काय-दुःप्रणिधानम्,
मन-दुःप्रणिधानम्,
अनादरः,
अस्मरणं
|
प्रोषधोपवासः
|
पर्वण्यष्टम्यां
चतुरभ्यवहाय्र्याणां प्रत्याख्यानं |
ग्रहणविसर्गास्तरणान्यदृष्टमृष्टानि,
अनादरः,
अस्मरणं |
वैयावृत्यम् |
धर्माय
तपोधनाय गुणनिधये दानं |
हरितपिधानं,
हरितनिधानं,
अनादरं,
अस्मरणं,
मत्सरत्वं
|
4.0 सल्लेखना श्रावकपदानि च
4.1 सल्लेखना
यदा निःप्रतिकारे
उपसर्गे दुर्भिक्षे जरसि रुजायां व भवति तदा धर्माय तनुविमोचनं सल्लेखनाम् आर्याः आहुः |
सल्लेखनायां
कायेन सह कषायाणाम् अपि तनुकरणं क्रियते जनैः |
सल्लेखनायां क्रियमाणानि कार्याणि -
कषाय-सल्लेखना -
1) सल्लेखनायाः
प्रारम्भे स्नेहं,
वैरं, सङ्गं, परिग्रहं
च अपहाय शुद्धमनाः स्वजनं परिजनमपि च क्षान्त्वा प्रियवचनैः क्षमयेत् |
2) कृतकारितमनुमतं
सर्वं पापं निर्व्याजम् महाव्रतम् आमरणस्थायि आरोपयेत् |
3) शोकं
भयं अवसादं क्लेदं कालुष्यं अरतिम् अपि हित्वा सत्त्वोत्साहम् उदीर्यं च अमृतैः श्रुतैः
मनः प्रसाद्यम्
|
काय-सल्लेखना -
1) आहारं
परिहाय क्रमशः स्निग्धं पानं विवर्द्धयेत् |
2) स्निग्धं
हाप्यित्वा खरपानं पूरयेत् |
3) खरपानं
हापनामपि कृत्वा शक्त्या उपवासं कृत्वा पञ्चनमस्कारमनाः सर्वयत्नेन तनुं त्यजेत् |
सल्लेखनायाः अतिचारः -
द्वादशव्रत-सदृशं
सल्लेखनायाः अपि पञ्चातिचाराः सन्ति, तेषां नामानि -
1) जीविताशन्सा 2) मरणाशन्सा 3) भयः 4) मित्रस्मृतिः 5) निदानः
4.2 श्रावकपदानि
-
जैनदशने श्रावकस्य
एकादश-पदानि
सन्ति,
तेषां
समन्तभद्राचार्यानुसारेण विवरणं निम्नवदस्ति -
1) दर्शन-पदम् 2) व्रत-पदम् 3) सामायिक-पदम्
4)
प्रोषध-पदम् 5) सचित्त-त्यागः 6) रात्रिभुक्ति-विरतः
7)
ब्रह्मचर्यः 8) आरम्भ-त्यागः 9) परिग्रह-त्यागः
10) अनुमति-त्यागः 11) उद्दिष्ट-त्यागः
Comments
Post a Comment