Skip to main content

रत्नकरण्ड-श्रावकाचारस्य वैशिष्ट्यम्

 (First proof )


 (नवदेहलीस्थश्रीलालबहादुरशास्त्रिराष्ट्रीयसंस्कृतविश्वविद्यालयस्य जैनदर्शनविभागेन प्रदत्तं पाठ्यसामग्री - प्रो अनेकान्त  )

रत्नकरण्ड-श्रावकाचारस्य वैशिष्ट्यम्

1.0 प्रस्तावना

जैनन्यायशास्त्रस्य जनकः, आद्य-स्तुतिकारः आचार्यः समन्तभद्रः जैनाचार्यपरंपरायां रवीव  तेजस्वी, यशस्वी आचार्यः अभवत् | अनेन कृतकार्याय समाजमिदम् सदैव ऋणी भवति | जैनशास्त्रपरंपरा-संवर्धनार्थं अस्य महत्वपूर्णं योगदानं अस्ति | अयं विक्रमस्य प्रथम-द्वितीयशताब्देः एव जैनन्यायस्य बीजं रोपयति स्मः | अद्यापि आचार्यसमन्तभद्रस्य नाम जैनपरंपरायां स्वर्ण-अक्षरेषु लिखितं भवति |

आचार्येण समन्तभद्रेण रचितेषु विविधग्रन्थेषु मध्ये आचारशास्त्रस्य निरुपकः एकः ग्रन्थः रत्नकरण्ड-श्रावकाचारः अस्ति | श्रमणानां कृते तत्समयतः शास्त्रम् उपलब्धं वर्तते परन्तु श्रावकानां कृते न दृश्यते खलु, तत्समये रत्नकरण्डश्रवकाचारस्य रचना श्रावकस्य आचारशुद्ध्यर्थं एकं महत्वपूर्णः कार्यं अस्ति |

1.1 ग्रन्थकारस्य परिचयः -

जैनाचार्याणां विशेषता अस्ति यत् ते स्वविषये एकमपि अक्षरं न लिखितं, : परिचय: उपलब्ध: तदानुसरेण आचार्यः समन्तभद्रः कदम्ब-राजवन्शस्य क्षत्रिय-राजकुमारः आसीत् | तस्य बाल्यनाम शान्तिवर्मा स्तः | तस्य जन्मः दक्षिणभारतस्य कावेरी-नद्याः तटस्थिते उरगपुर-नगरे अभवत् | तस्यास्तित्वं विक्रम सं. 250 पर्यन्तं अस्ति |

तस्य पारिवारिकजीवनविषये किमपि ज्ञानं नास्ति | सः अल्पवये मुनिः अभवत् | आचार्य-समन्तभद्र: जैनदर्शनेन सह तर्कः, न्यायः, छन्द:, अलङ्कारः व्याकरणं, काव्यः, कोषः, अपि अद्वितीयं ज्ञाता  आसीत्   | आचार्य-समन्तभद्रः वाद-विवादेषु निष्णातः आसीत्, सः नैकवारं विविधस्थानेषु शास्त्रार्थं कृतवान् एवं जैनमतं स्थापितवान्  | तस्य आत्मविश्वास: निम्नपङ्क्तिषु दृष्टव्य: -

वादार्थी विचराम्यहं नरपते शार्दूलविक्रीडितम् |

राजन् यस्यास्ति शक्तिः वदतु पुरतो जैन निर्ग्रन्थवादी ||

परवर्ति-आचार्यैः  भवतः अत्यन्तम् आदरपूर्वकं स्मरणं कृतं | भवान् आद्य-स्तुतिकाररूपे प्रसिद्ध: आसीत्  | भवतः ग्रन्थानां कार्याणां सूची निम्नानुसारम्  अस्ति -

1)   आप्तमीमांसा

2)   युक्त्यनुशासनम्

3)   स्वयम्भूस्तोत्रम्

4)   जिनस्तुतिशतकः

5)   रत्नकरण्ड-श्रावकाचारः

6)   प्राकृत-व्याकरणम् (अप्राप्य)

7)   प्रमाण-पदार्थः (अप्राप्य)

8)   कर्म प्राभृतटीका(अप्राप्य)

9)   गन्धहस्ति-महाभाष्यम्  (अप्राप्य)

1.2 ग्रन्थस्य परिचयः -

शास्त्रमिदं आचार्यसमन्तभद्रेण विक्रमस्य प्रथम-द्वितीयशताब्दौ श्रावकधर्मप्रकाशनार्थं संस्कृतभाषायां रचितं | अस्मिन् ग्रन्थे सप्ताधिकारेषु समन्विताः 150श्लोकाः सन्ति, संक्षेपतः तेषां  विवरणिका अस्ति - 

क्रमाङ्कः

अधिकारः 

श्लोक-संख्या

विषय-वस्तु

1

सम्यग्दर्शनम्

1-41

सम्यग्दर्शनस्य स्वरूपं महत्वं च

2

सम्यग्ज्ञानम्

42-46

सम्यग्ज्ञानस्य स्वरूपं भेदश्च

3

अणुव्रतम्

47-66

अणुव्रतस्य स्वरूपं भेदश्च

4

गुणव्रतम्

67-90

गुणव्रतस्य स्वरूपं भेदश्च

5

शिक्षाव्रतम्

91-121

शिक्षाव्रतस्य स्वरूपं भेदश्च

6

सल्लेखना

122-135

सल्लेखनायाः स्वरूपम् 

7

श्रावक-पदानि 

136-150

श्रावकस्य चारित्रस्य एकादश-श्रेणिः

 

2.0 सम्यग्दर्शनम् एवं सम्यग्ज्ञानम् -

 

यः सत्त्वान् संसारदुखतः उत्तमे सुखे धरति सः धर्मः सम्यग्दर्शन-ज्ञान-चरित्रात्मकं धर्मेश्वराः विदुः | तस्य धर्मस्य प्राप्त्यर्थं सर्वप्रथमं प्रयासेन धर्मस्य प्रथमसोपानं सम्यग्दर्शनं गृहितव्यम्, तदन्नतरम् एव ज्ञानं चरित्रं च सम्यक् भवति |

2.1 सम्यग्दर्शनम्  -

परमार्थानां आप्त-आगम-गुरूणां श्रद्धानं सम्यग्दर्शनं वर्तते | तत् सम्यग्दर्शनं त्रिमूढता:, अष्टमदान्  रहितम्  अस्ति | सम्यग्दर्शनस्य अष्टाङ्गानि सन्ति |

आप्तः - राग-द्वेषदोषरहितः वीतराग:, सर्वज्ञः हितोपदेश कः च पुरुषः आप्तः भवति |

आगमः - आप्तेन उपदिष्टं, अनुल्लंघ्यं, प्रत्यक्षादिप्रमाणेन अविरोधकं, मिथ्यामार्गस्य निषेधकं शास्त्रं आगमः भवति |

गुरुः - विषयाणां आशानां वशातीतः, निरारम्भः, अपरिग्रहः, ज्ञान-ध्यान-तपोरक्तः तपस्वी गुरुः भवति |

एषां आप्त-आगम-गुरूणां श्रद्धानं सम्यग्दर्शनं भवति | अत्र आचारशास्त्रत्वात् व्यवहारोपदेशस्य मुख्यता अस्ति, निश्चयेन तु आत्मश्रद्धानमेव सम्यग्दर्शनं भवति |

सम्यग्दर्शनस्य अष्ट-अङ्गाः -

सम्यग्दर्शनेन सह आत्मनि अष्ट-अङ्गा: उत्पद्यन्ते | तेषां अष्ट-अङ्गानां संक्षिप्त सारिणी निम्नानुसारम्   अस्ति -

अङ्गस्य नाम

स्वरुपम् 

प्रसिद्धपुरुषः

निःशङ्कितम् 

जिनोपदेशं प्रति शङ्कायाः अभावः

अञ्जन-चौरः

निःकान्क्षितम्

इद्रियभोगं प्रति निःकाङ्क्षा

अनन्तमती

निर्विचिकित्सा

गुणिनां मलिनदेहं प्रति ग्लानेः अभावः

उद्दायनः राजा

अमूढदृष्टिः

कुधर्म-गुरु-शास्त्रं प्रति अरुची

रेवती रानी

उपगूहनम्

परेषां जीवानां गुणानां प्रति  दृष्टि: दोषाणां प्रति गौणता

जिनेन्द्रभक्तः

स्थितीकरणम्

धार्मिक-जीवानां धर्ममार्गे प्रत्यवस्थापनम्

वारिषेण-मुनिः

वात्सल्यम्

सधर्मी-जीवानां प्रति निस्वार्थ सद्भावः

विष्णुकुमारमुनिः

प्रभावना

जिनशासनस्य प्रभावना

व्रजकुमारमुनिः

 

2.2 सम्यग्ज्ञानम् -

सम्यग्दर्शनेन सह ज्ञानमपि सम्यक् भवति | यत् अन्यूनम्, अनतिरिक्तं, यथातथ्यं, विपरीतात् विना निस्सन्देहं वेद तत् ज्ञानं सम्यग्ज्ञानं आगमिनः आहुः | तत् ज्ञानं चतुरनुयोगान्  जानाति, तेषां  संक्षिप्तिका अस्ति यत् -

अनुयोगः

स्वरूपम् 

प्रथमानुयोगः

अर्थाख्यानं, चरितं, पुराणम्

करणानुयोगः

लोकालोकविभक्तेः, युगपरिवृतेः, चतुर्गतीनां वर्णनम्

चरणानुयोगः

अनगाराणां सागाराणां चरित्रोत्पत्तिवृद्धिरक्षाङ्गं वर्णनम्

द्रव्यानुयोगः

जीवाजीवसुतत्त्वे पुण्यापुण्ये बन्धमोक्षौ वर्णनम्

 

3.0 अणुव्रतं, गुणव्रतं शिक्षाव्रतं

सम्यग्दर्शनज्ञानसम्पन्ने सति राग-द्वेषनिवृत्यै साधुः चरणं प्रतिपद्यते | हिन्सादिषु पञ्चपापेषु निवृतिः चरित्रम् अस्ति | हिन्सादिषु पूर्ण-आन्शिकनिवृत्याः अपेक्षायाः चारित्रस्य द्वौ भेदौ स्तः - अणुव्रतं, महाव्रतं चेति | श्रावकस्य आचरशुद्धयर्थं अणुव्रतं श्रमणस्य आचारशुद्धयर्थं महाव्रतम् अस्ति | हिन्सादिसु पापेषु आन्शिकनिवृतिः अणुव्रतम् एवं पूर्णनिवृत्तिः महाव्रतं भवति |

3.1 अणुव्रतम्  -

हिन्सा-असत्य-स्तेय-मैथुन-परिग्रहेभ्यः पञ्चपापेभ्यः गृहस्थजीवस्य आन्शिकनिर्वृत्तिः अणुव्रतम्  अस्ति |

 

अणुव्रतम्

स्वरूपम्

अतिचारः

व्रते प्रसिद्धव्यक्तिः

पापे प्रसिद्धव्यक्तिः

अहिन्सा

हिन्सातः आन्शिकनिर्वृतिः

छेदनं, बन्धनं, पीडनं, अतिभाररोपणं, अन्नपान-निरोधम्

मातङ्गः

धनश्री

सत्य:

असत्यतः आन्शिकनिर्वृतिः

परिवादः, रहोभ्याख्या, पैशून्यम्, कूटलेखकरणं, न्यासापहारिता

धनदेवः

सत्यघोषः

अस्तेयः

अस्तेयतः आन्शिकनिर्वृतिः

चौरप्रयोगः, चौरार्थदानं, विलोपः, सदृशसंमिश्रः, हीनाधिकविनिमानम्

वारिषेणः

तापसी

स्वदार -सन्तोषः 

कामतः आन्शिकनिर्वृतिः

अन्यविवाहकरणं, अनङ्गक्रीडा, विटत्वम्, विपुलतृषा, इत्वरिकागमनं 

नीली

कोतवालः

अपरिग्रहः

परिग्रहतः आन्शिकनिर्वृतिः

अतिवाहनम्, अतिसंग्रहं, विस्मयः, अतिलोभः, अतिभारवहनम्

जयकुमारः

श्मश्रुनवनीतः

 

श्रावकः अष्टमूलगुणानां धारकः भवति, तेषां नामानि सन्ति यत्-

1)   मद्यत्यागः                2)मधुत्यागः                      3)मान्सत्यागः

4-8) पञ्चाणुव्रतम् 

3.2 गुणव्रतम् -

अणुव्रतेषु गुणानां अणुवृन्हणात् अस्य संज्ञा गुणव्रतम् अस्ति | गुणव्रतस्य त्रिभेदाः सन्ति, तेषां संक्षिप्तस्वरूपं निम्नवत् अस्ति -

 

गुणव्रतम्

स्वरूपम्

अतिचारः

दिग्व्रतम्

दिग्वलयं परिगणितं कृत्वा तेषां बहिर्न गमनस्य संकल्पः

ऊर्ध्वातिपातः, अधःतातिक्रमः, तिर्यग्व्यतिक्रमः, क्षेत्रवृद्धिः, विस्मरणं 

अनर्थदण्डव्रतम्

अभ्यन्तरं दिगवधेरपार्थिकेभ्यः सपापयोगेभ्यः विरमणम्

कन्दर्पं, कौत्कुच्यं, मौखर्यं, अतिप्रसाधनं, असमीक्ष्याधिकरणं

भोगोपभोग -परिमाणम्

रागरतीनां तनूकृतये अक्षार्थानां परिसंख्यानम्

अनुपेक्षा, अनुस्मृतिः, अतिलौल्यम्, अतितृष्णा, अनुभवः

 

3.3 शिक्षाव्रतम् -

यत् व्रतं महाव्रतस्य शिक्षां प्रदाति तत्  शिक्षाव्रतं भवति | शिक्षाव्रतस्य चतुर्भेदाः सन्ति, तेषां संक्षिप्तस्वरूपं निम्नवत् अस्ति -

 

शिक्षाव्रतम्

स्वरुपम्

अतिचारः

देशावकाशिकं

कालपरिच्छेदानेन विशालस्य देशस्य प्रतिसंहारः

प्रेषणं, शब्दः, आनयनं, रूपाभिव्यक्तिः, पुद्गलक्षेपः

सामायिकम् 

आसमयमुक्तिमुक्तं पञ्चाघानाम् अशेषभावेन सर्वत्र च सामयिकाः

वचन-दुःप्रणिधानम्, काय-दुःप्रणिधानम्, मन-दुःप्रणिधानम्, अनादरः, अस्मरणं

प्रोषधोपवासः

पर्वण्यष्टम्यां चतुरभ्यवहाय्र्याणां प्रत्याख्यानं

ग्रहणविसर्गास्तरणान्यदृष्टमृष्टानि, अनादरः, अस्मरणं 

वैयावृत्यम् 

धर्माय तपोधनाय गुणनिधये दानं

हरितपिधानं, हरितनिधानं, अनादरं, अस्मरणं, मत्सरत्वं

4.0 सल्लेखना श्रावकपदानि   

4.1 सल्लेखना

यदा निःप्रतिकारे उपसर्गे दुर्भिक्षे जरसि रुजायां व भवति तदा धर्माय तनुविमोचनं सल्लेखनाम् आर्याः आहुः | सल्लेखनायां कायेन सह कषायाणाम् अपि तनुकरणं क्रियते जनैः |


सल्लेखनायां क्रियमाणानि कार्याणि -

कषाय-सल्लेखना -

1) सल्लेखनायाः प्रारम्भे स्नेहं, वैरं, सङ्गं, परिग्रहं च अपहाय शुद्धमनाः स्वजनं परिजनमपि च क्षान्त्वा प्रियवचनैः क्षमयेत् |

2) कृतकारितमनुमतं सर्वं पापं निर्व्याजम् महाव्रतम् आमरणस्थायि आरोपयेत्  |

3) शोकं भयं अवसादं क्लेदं कालुष्यं अरतिम् अपि हित्वा सत्त्वोत्साहम् उदीर्यं च अमृतैः श्रुतैः मनः प्रसाद्यम् |

काय-सल्लेखना -

1) आहारं परिहाय क्रमशः स्निग्धं पानं विवर्द्धयेत् |

2) स्निग्धं हाप्यित्वा खरपानं पूरयेत् |

3) खरपानं हापनामपि कृत्वा शक्त्या उपवासं कृत्वा पञ्चनमस्कारमनाः सर्वयत्नेन तनुं त्यजेत्  |

सल्लेखनायाः अतिचारः -

द्वादशव्रत-सदृशं सल्लेखनायाः अपि पञ्चातिचाराः सन्ति, तेषां नामानि -

1) जीविताशन्सा      2) मरणाशन्सा         3) भयः         4) मित्रस्मृतिः          5) निदानः

4.2 श्रावकपदानि  -

जैनदशने श्रावकस्य एकादश-पदानि सन्ति, तेषां समन्तभद्राचार्यानुसारेण विवरणं निम्नवदस्ति -

1)  दर्शन-पदम्                  2) व्रत-पदम्                      3) सामायिक-पदम्

4) प्रोषध-पदम्                  5) सचित्त-त्यागः                6) रात्रिभुक्ति-विरतः

7) ब्रह्मचर्यः                       8) आरम्भ-त्यागः               9) परिग्रह-त्यागः

                   10) अनुमति-त्यागः                      11) उद्दिष्ट-त्यागः


Comments

Popular posts from this blog

ब्रह्मी लिपि उद्भव और विकास Brahmi Lipi origin and Devolopment

ब्राह्मी लिपि : उद्भव और विकास - श्रीमती डा. मुन्नी पुष्पा जैन, वाराणसी          भाषा के बाद अभिव्यक्ति का सबसे अधिक सशक्त माध्यम ‘लिपि' है। ‘लिपि' किसी भाषा को चिन्हों तथा विभिन्न आकारों में बांधकर दृश्य और पाल्य बना देती है। इसके माध्यम से भाषा का वह रूप हजारों वर्षों तक सुरक्षित रहता है। विश्व में सैकड़ों गाषाए तथा सैकड़ों लिपियों हैं। भाषा का जन्म लिपि से पहले होता है, लिपि का जन्म बाद मे। प्राचीन शिलालेखों से यह स्पष्ट होता है कि प्राचीन भारत में ब्राह्मीलिपि ही प्रमुखतया प्रचलित रही है और यही बाह्मी लिपि अपने देश के समृद्ध प्राचीन ज्ञान-विज्ञान ,संस्कृति,इतिहास आदि को सही रूप में सामने लाने में एक सशक्त माध्यम बनी। सपाट गो मापवं ने/ इस ब्राह्मी लिपि में शताधिक शिलालेख लिखवाकर ज्ञान लिाप और भाषा को सदियों तक जीवित रखने का एक क्रांतिकारी कदम उठाया था।   सत्रहवीं-अठारहवीं शताब्दी में ब्राह्मी लिपि के रहस्य को समझने के लिए पश्चिमी तथा पूर्वी विद्वानों ने जो श्रम किया उसी का प्रतिफल है कि आज हम उन प्राचीन लिपियो को पढ़-समझ पा रहे है...

जैन ग्रंथों का अनुयोग विभाग

जैन धर्म में शास्त्रो की कथन पद्धति को अनुयोग कहते हैं।  जैनागम चार भागों में विभक्त है, जिन्हें चार अनुयोग कहते हैं - प्रथमानुयोग, करणानुयोग, चरणानुयोग और द्रव्यानुयोग।  इन चारों में क्रम से कथाएँ व पुराण, कर्म सिद्धान्त व लोक विभाग, जीव का आचार-विचार और चेतनाचेतन द्रव्यों का स्वरूप व तत्त्वों का निर्देश है।  इसके अतिरिक्त वस्तु का कथन करने में जिन अधिकारों की आवश्यकता होती है उन्हें अनुयोगद्वार कहते हैं। प्रथमानुयोग : इसमें संयोगाधीन कथन की मुख्यता होती है। इसमें ६३ शलाका पुरूषों का चरित्र, उनकी जीवनी तथा महापुरुषों की कथाएं होती हैं इसको पढ़ने से समता आती है |  इस अनुयोग के अंतर्गत पद्म पुराण,आदिपुराण आदि कथा ग्रंथ आते हैं ।पद्मपुराण में वीतरागी भगवान राम की कथा के माध्यम से धर्म की प्रेरणा दी गयी है । आदि पुराण में तीर्थंकर आदिनाथ के चरित्र के माध्यम से धर्म सिखलाया गया है । करणानुयोग: इसमें गणितीय तथा सूक्ष्म कथन की मुख्यता होती है। इसकी विषय वस्तु ३ लोक तथा कर्म व्यवस्था है। इसको पढ़ने से संवेग और वैराग्य  प्रकट होता है। आचार्य यति वृषभ द्वारा रचित तिलोयपन...

TEMPLES, STEPWELLS, FORTS ETC built by KING KUMARPAL

TEMPLES, STEPWELLS, FORTS ETC built by KING KUMARPAL Raja Kumarapal was responsible for building a large number of temples in his capital Anahilapataka (Patan). After accepting Jainism, he spent 14 crores gold coins in 14 years for Sadharmik Bhakti. He constructed 21 Jain libraries, 1444 new Jinalaya/vihars, renovated 1600 temples and organised 'Cha-Ri-Palit Sangh' to various tirths 7 times. In V.S.1226 he arranged Cha-Ri-Palit sangh yatra to Shatrunjay Tirth. According to Jain prabandhas, he built 32 Jain temples as the repentance of his non-vegetarianism in early life. He built temples at several sites, many of which are already Jain sites of pilgrimage: Shatrunjaya, Arbudagiri (Abu), Stambhatirtha (Khambhat), Prabhas etc. Somnath temple of Shashibhushana (1169 AD) at Prabhas patan (Somnath patan, old name Dev Patan) which is mentioned as one of the 5 sacred temples of the town according to Prabhas-kanda was renovated by him. Kumarapal's Somnath inscription mentions it...